________________ नियतिवादः] . न्यायागमानुसारिण्यलङ्कृतम् / 171 षकर्मक्षयात् केवलज्ञानप्राप्तिः सार्वश्यं पौरुषेणेति मन्यसे तदपि मा संस्था नियतिमन्तरेणेति / कथं तर्हि मन्तव्यम् / सार्वज्यं नियतेरेव भवतीति / तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवतीति / तयैव च नियत्या नान्यथेति / स हि भव्याभव्यसिद्धादिभेदेषु पुरुषेषु गतिस्थित्यवगाहे वर्तना रूपरसादिशरीरवाङ्मनसः प्राणादिपरिणतिरूपामसङ्कीर्णामनादिमध्यान्तां कालत्रयेऽपि अनुत्पत्तिमविनाशा खेन रूपेणाविपरिणामां लोकस्थित्यनतिक्रमेणाप्रच्युतस्वरूपां वस्तुनियति बीजादिनियतिं बीजादिनियताकुरादिवस्त्वात्मिकामेकां सर्वभेदेष्वभिन्नामनेकरूपां तेषु तेषु भेदेषु तद्रूपनियतित्वादनेकां बन्धमोक्षप्रक्रियानियतिसूक्ष्मां जीवकर्मणोरनायेन सम्बन्धेन सम्बद्धयोः कार्यकारणभूतैमिथ्यादर्शनादिभिर्नियतिवशात् सन्तत्यानाद्यो बन्धो भव्येषु बन्धोद्वर्तनसमर्थसम्यग्दर्शनादिभावनियतिविवर्तान्मोक्षहेतोरमूर्तस्वभावस्य ज्ञानदर्शनवीर्यसुखादिस्वात्मनः खात्मन्यवस्थानं मोक्ष इत्येतां बन्धबन्धकबन्धनीयबन्धविधानाद्यनेकभेदप्रभेदबन्धप्रक्रियां व्रतसमितिगुप्तिधर्मानुप्रेक्षापरीषहजयचारित्रसंवरां द्वादशविधतपोऽनुष्ठाननिर्जरां क्षेत्रकालगतिलिङ्गतीर्थप्रत्येकबुद्धबुद्धबोधितज्ञानावगाहनान्तरसङ्ख्याल्पबहुत्वाद्युपायव्याख्येयां कृत्स्नकर्मक्षयाव्याबाधात्यन्तैकान्तसुखात्मिकां च मोक्षप्रक्रियां परमसूक्ष्मां पश्यन्ननन्तकालमव्याबाधसुखं तिष्ठति / एषा च बन्धमोक्षप्रक्रिया दिग्मात्रमुपदर्शिता / अतिसूक्ष्मत्वादहुवक्तव्यत्वाच नात्र परीक्षाकाले शक्या वक्तुम् / यथोक्तम्-- .. लोगम्मि जीवचिंता सव्वागमकोसिया दुरोगाहा / तत्तोवि कोसियतरी चिंता बंधे य मुक्खे य // 1 // इतिः परिसमात्यर्थः // इति नियतिवादः परिसमाप्तः॥ १°विभागेषु घ / 2 समं क-ख / 3 लोके जीवचिन्ता सर्वागमोत्कृष्टा दुरवगाहा / ततोऽप्युत्कृष्टतरी चिन्ता बन्धे च मोक्षे च //