________________ नयचक्रम् / [ विधिविधिनये इत्यर्थः। तथा ह्याहेति, लोकसिद्धं ज्ञापकं दर्शयति-सह भावेन वर्तत इति सभावकम् / निर्गतो भावोऽस्मादिति निर्भावकम् / किं तत् ? उदकं पतितमिति / तद्भावना / यदाद्भिर्वीजनियतिरिति,अङ्कराधभिव्यक्तेर्यदाद्भिरुदकीभूता बीजनियतिर्भवति तदा तस्या नियतेर्देशोंऽशो भागोऽवयवः स उदकस्थ एव सन्नरोद्भावेन प्रवर्तमानः सभावक इत्युच्यते / तद्भावांशाऽपेक्षयोदकमपि सभावकमित्युच्यते / भेदविवक्षायां बहुव्रीहिसमासाश्रयणान् मतुब्लोपाद्वा अभेदोपचाराच्च भाव एवोदकमिति / स च भावोऽङ्कुरादेवनस्पत्योषध्यादेः / मतुष्प्रत्ययनिर्देशोऽपि भेदेनोपपद्यते / तद्यथाअस्त्यस्मिन्नस्य वा भावोऽङ्कुरस्तस्मिन्बुदके तस्मात् सभावकमिति / अन्यदा तु विपर्ययः / क्षाराम्लाादकेऽङ्कुरादयो न सन्तीति नियतत्वाद्विपर्ययस्तस्मादभावकमुच्यते तज्जलमिति / एवं भूमिवायुकालप्रभृतिष्वपि सभावकाऽभावकत्वे / ऊपरभूमावभावः सस्यादेः पादसौकुमार्यादेर्भावः / सुकृष्टे केदारादौ वा सर्ववीजानामङ्कुरादिभावः / पूर्ववायावभावोऽङ्कुरादेर्भावस्तु महिपीकर्पासप्रसूत्यादेरन्यस्य पुष्पादेरन्यस्य फलादेः, मनुष्याणां च पूर्ववायावभावः / तद् यथोक्तम् 'दिवा स्वप्नमवश्यायं प्राग्वातं वा तु वजेयेत् / ' सस्यानामुत्तरे वायौ न भावः, प्रावृष्युतानां भावः, वैशाखादिष्वभावः / प्रभृतिग्रहणेनातपेऽतिमृदावतितीक्ष्णे चाभावः, समे भावः / आतपाभावेऽप्यभाव एवेति / एवं तावदबुद्धिप्रवृत्तेषु कालाकुरादिषु अचेतनेषु नियतिरुक्ता / बुद्धिमत्स्वपि नियतिरेव / यदुक्तं प्राक् त्वया 'पुरुषस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिवैपरीत्यम्' इति तन्नोपपद्यते / तत्रापि नियतेरेव कारणत्वात / कुतः ? पुरुषो व्यग्रोऽव्यग्र इति नियतेरेव यतो भवति / साप्यापेक्षिकी तादृशी नियतिरेव / आदिग्रहणात् कुशलोऽकुशलः पुरुष इत्याद्यपि नियतेरेवेति / एवमप्रयुक्तेषु स्वातत्र्यादेव परनियोगानपेक्षप्रवृत्तिषु नियतिः, प्रयुक्तेष्वपि नियतिरेव / करणादीनां करणाधिकरणकर्तृकर्मसम्प्रदानापादानानां क्षमत्वं तत् क्रियासाधनसमर्थत्वमक्षमत्वमसमर्थत्वम् / यथोक्तम् 'एतत् परशोः सामर्थ्य पत्रणेन' इत्यादि, तेषामेव सान्निध्यं कर्ता प्राप्तिः। असान्निध्यमप्राप्तिः। आदिग्रहणात् प्राप्तानामपि करणादीनामन्तरे विना इत्येवमादेः करणादङ्करायुत्पत्त्यनुत्पत्त्योर्नियतिरेव कारणम् / तथानियतत्वादिति / एतेन पाकादिदोषाः प्रत्युक्ताः प्रतिषिद्धाः / यदुक्तं त्वया 'काले न पाकोऽकाले पाक' इत्यादयो दोषा इति, तदपि तथानियतित्वादित्येतेनैव न दोषाय / कालाकालयोरपाकेन पाकेन च तेषां तेषां भावानां नियतत्वात् सैव नियतिस्तथा तथा नियतं भवतीति / किं चान्यत्सर्वज्ञोऽपि चेत्यादि / यदपि च सम्यग्दर्शनज्ञानचारित्रतपोभिर्ज्ञानावरणाद्यशे 1 हि क-ग। २°भितुररी क-घ। 3 °भा क-ग।