________________ . नयचक्रम् / [विधिविधिनयेनियतिवशेनेत्यादि, यावत् व्यतिक्रम उपलभ्यत इति / सापि तादृशी नियतिरेव कारणमिति / किं चान्यत्-न केवलं प्रसवादिधर्मव्यतिक्रम एव, किं तर्हि ? वस्तुस्वभावव्यतिक्रमश्च नियतिवशादेव / किश्चान्यत्-सदसाध्यमित्यादि चतुर्भङ्गी स्फुटार्थत्वान्न वित्रियते / सा चोद्दिष्टा निर्देक्ष्यमाणा च / तथा च पुरुषो नियतेरेव तथा वृत्तत्वात् तत्साध्यासाध्यत्वे प्रतिपद्यते तत्र सदसाध्यत्वे निदर्शनम्सदपि चाकाशं भूगन्धवदनभिभवं नास्याभिभवोऽस्तीत्यनभिभवं सलिलसेचनेन न साध्यमित्यर्थः। तथा सन्तमसस्थघटवत् प्रदीपादिनेवासाध्यम् / किं तत् ? आकाशादि सत्त्वात् साध्यं भूगन्धादिति प्राप्तेष्वसाध्यमेव / इदं तु स्त्रीपुंसंयोगात् साध्यमवन्ध्यापुत्रवदिति / प्राप्ते तयवस्थाविपरीतनियतिवन्ध्यापुत्राद्यसाध्यमेव नियतिवशादेवासत्त्वात् तन्न नियत्या सत् नियत्यैवासत् साध्यतामर्हति / किं कारणम् / साधनाविष्टक्रियासाध्यत्वात् , साध्यानां साधनाविष्टाया क्रियायास्तत्रावेशाभावः / तत्साधनानां साधनशक्तिशून्यत्वात् तस्माद्वन्ध्यापुत्रादीनां असाध्यत्वं स्त्रीपुंसयोगक्रियायाप्यसाध्यत्वेन नियतत्वात् / साध्यार्थाभावे च साधनानां साधनत्वाभाव इति तदर्शयति-क्रियाहीत्यादि / हिशब्दो यसादर्थे / यस्मात् क्रियासाधनेषु काष्ठादिषु वर्तमाना सन्तमर्थ साध्यं विक्लेद्य तण्डुलविपरिणामात्मकमोदनादिकमर्थमाविशति प्रत्यर्थनियतत्वात् ,ज्वलनाद्युपनिधानार्थेषु प्रत्येकं नियतत्वात् काष्ठादिसाधनानुषङ्गस्यासाध्यत्वाभावाद्वन्ध्यासुतादेः। सा स्त्रीपुंसम्प्रयोगक्रिया किमाविशतु ? तस्मात् तद्विपरीतनियत्यसाध्यं वन्ध्यापुत्रादि / इदं पुनरित्यादि असत्साध्यं घटादि / इतर आह-यद्यसत् कथं साध्यं खपुष्पवत् ? / उक्तासदसाध्यविकल्पानतिवृत्तेश्चेति / अत्रोच्यते-नैष दोषः, सतोऽन्यदसदित्यतोऽन्यत्र विधानप्रतिषेधपक्षाश्रयणाद् द्रव्यार्थविकल्पत्वानियतेरसत्त्वाभावादिति / अत आह-प्राक् तथा अवृत्तं तेन घटत्वप्रकारेणावृत्तं,सच्छब्दस्य वृत्त्यर्थत्वात् / 'अस्ति-भवति-विद्यतिपद्यति-वर्ततयः-सन्निपातषष्ठाः सत्तार्थाः' इति वचनादसदित्यवृत्तमित्यर्थः / मृत्पिण्डाद्यवस्थानकाले तत्कालेऽव्यक्त्या नियतं साध्यम् / आदिग्रहणात् पटकटादीति / एतत्कालभेदेनोपलब्ध्यनुपलब्धिभ्यां नियतमिदमन्यत् सततोपलब्धिनियतमित्यादि तद्वदिदं च सदाव्यक्तिनियतिसत्साध्यमित्यभिसम्बन्धः। किं तद् यष्टिसाधनवदृजुत्वेन, यष्टिहि विद्यमानैरेवावयवैः सदाव्यक्ता संस्थानविशेपेण साध्यते सती / साध्यते ऋजूक्रियते / इदमन्यत् सततोपलभ्यमेव सत्साध्यम्, मृद्रव्यमूद्धोदित्वक्रमापायघटत्वेन / पूर्वस्मिन्नुदाहरणे मनागाकृत्यन्तरभेदेन इह त्वत्यन्तभिन्नाकारभेदेनेति विशेषः। तदर्शयन्नाह-मूर्द्धादित्वं घटत्वं न भेदेनैव वा सत्साध्यमिति / 1 तद्वयवस्था घ।