________________ 165 नियतिवादः] न्यायागमानुसारिण्यलङ्कृतम् / दाघेषु स्वपरिणामकालेष्वप्रवृत्तिदर्शनादस्वकालेषु च क्वचित् प्रवृशिदर्शनात् / यद्यपि मन्येत स्वभावादिति / तत्र च खभावादित्यादि, यावदभ्युपगमविरोधः। वनस्पतिसत्त्वादेबाल्यकौमारयौवनस्थविरावस्थाः, सर्वोऽसावस्य स्खो भावः स्वभाव इत्यतः बालादिकाल एव युवताद्यवस्था युगपत् स्युः, न च भवन्ति तसादालकाल एव युवादियुगपदभावे भेदक्रमेण नियतानां तासामेवावस्थानामुत्पत्तेः स्थितेः च्युतेश्च दर्शनान्न स्वभावः कारणम् / किं तर्हि ? नियतिरेव कारणमभ्युपगन्तव्यम् / तथा तु तेन हेतुना तेन प्रकारेण दृष्टोत्पत्त्याद्यवस्थाभेदक्रमनियमेन तत्तथा नियतिरस्तु, तदनभ्युपगमे सर्वाविवेके सर्वावस्थानामविवेकेऽभ्युपगम्यमाने स्वभावाद्यभ्युपगमे सति ता अवस्था न स्युः / ते चावस्थारूपाः स्वभावा न स्युर्देवदत्तादेवील्यादौ सुप्ताद्या वा, ततोऽवस्थास्वभावाद्यभावादभ्युपगत एव स्वभावो न स्यात् / ततोऽभ्युपगमविरोधस्ते जायते स्वभाववादिनः / आदिग्रहणात् तत्तदवस्थासहवर्तिनः पाण्याद्यवयवस्वभावस्य रूपादिवाह्यगुणस्खभावस्य पटुजडताद्यान्तरगुणस्वभावस्य वा भावादभ्युपगमविरोधः / अथवादिग्रहणात् कालस्यापि पूर्वोक्तन्यायेन युगपदभावेन वा भावादभ्युपगमविरोधः कालकारणिनोऽपि / तस्मादिदं प्राप्तमभ्युपगन्तुं तद्धि नियमो न नियतेरन्यतोऽवतिष्ठत इति / तस्या एव नियतेरेकत्वानेकत्वाविरोधपरिहारार्थं दृष्टान्तमाह-यथा लोक इत्येकत्व एव पर्वताद्याकारावग्रहः / एक एव लोकः सरित्समुद्रमहीध्रग्रामारामादिभिराकारैरवगृह्यमाणो भिद्यते भेदाभेदरूपेण नियतिः / एतद्वाह्यं निदर्शनम् / आन्तरं तु यथा ज्ञानमेकत्वेऽप्यनेकबोध्याकारं भवति / किं कारणम् ? अन्यथा घटपटाद्याकारमन्तरेण ज्ञानात्मलाभाभावात् / एतस्योदाहतस्यार्थस्य भेदाभेदस्वरूपभावनेयमुच्यते-तथा नियमात्मकत्वादित्यादि, यावदकरादि भवतीति / सा नियति/हिरित्येकस्मिन् वस्तुन्येका मूलादिभेदे वाङ्कर इत्येवाभिन्ना / अङ्कुरकिशलयपत्रकाण्डादित्वाद्यवस्थाभेदाद्भिन्ना रूपरसादिभेदाद्वा भिन्ना, अनेकसिंश्च पृथिव्यम्बुतेजोवाय्वादिस्वरूपेऽर्थे पृथिव्यादीनामेव तद्भावापत्तेः। व्रीहिरित्येकत्वादभेदा / एकापि सती भिन्ना / अनेकापि सती भिन्ना, तथा तथा नियतार्थवशाद्रव्यदेशकालभावानामुत्पातादिष्वनियमदर्शनादनियतिकारणत्वं दृष्टं हि प्रसवादिकृतम् / आदिग्रहणात् प्रसवनिलयाहारक्रियाप्रकृतिवैकृतानि नरतिरश्चां विपर्ययेण संख्याकृतिवर्णावयवादिजन्मानि अभक्ष्यभक्षित्वं ग्रामारण्यकजलस्थलजन्मनां तच्चारिणां च वसत्यादिविपर्ययः / रोपक्षमादिशीलविपर्ययः / पलितस्यैवोत्पत्तिरित्याद्यवस्थाविपर्यय इत्येवमादिवैकृतदर्शनान्न नियतिरेव कारणमिति चेत्, नेत्युच्यते / अत्रापि तथा १°वस्तु क / 2 तादूपे ग /