________________ 164 नयचक्रम्। [विधिविधिनयेसाध्यं किञ्चिन्नेति / किञ्चित् स्वत एव किञ्चित् परत इति / अथवा परमार्थतस्तु भेद एवास्तु सत्यप्यभेदबुद्ध्याभासभावे सतीति / आचार्यों द्विधापि चोदिते परिहारमाह-कथमित्यादि, यदि भेदोऽभिमतः तत्र कथं परमार्थतो भेदः / अभेदबुद्ध्याभासभावेऽप्यभेदाभ्यनुज्ञानात् त्वयैवाभेदवदाभासते भेद एवेति / अथाभेद इष्टः, कथमभेदः ? / भेदबुद्ध्याभासभावेऽप्यभेदाभ्यनुज्ञानादेव / यद्येकान्तबुद्धिस्त्वन्मते' परमार्थविषयत्वे तदा तदाभासा द्विधापि चाभेदस्याभ्यनुज्ञानादेवाऽभेदा सेति गृह्यताम् / किमिव? व्यवच्छिन्नस्थाणुपुरुषत्ववत् / परमार्थतः स्थाणुरेव वा पुरुष एवेति व्यवच्छिन्ने वस्तुनि यथोर्द्धतासामान्यस्याभेदस्य दर्शनादभेदः, एवं सर्वनियतिषु क्रियाक्रियाफलरूपास्विति / सा पुनर्नियतिर्भेदादभेदरूपा करमादिति सकारणं स्वरूपनिरूपणमस्या उच्यते-सा चेत्यादि / सा च नियतिस्तदेव सर्वनियतिषु तस्या एवाविशेषात् / अतश्च क्रियाक्रियानियत्यादिवलक्षण्यात् आसन्ना प्रत्यक्षोपलभ्येष्वर्थेषु प्रत्यासत्त्या नियतत्वात् / अनासन्ना कार्यानुमानागमगम्येषु दूरत्वात् / इह च स्वर्गादिषु च तथा नियतेरासन्नानासन्ना च। किं कारणम् ? तस्या एव तदतदासन्नानासन्ननानावस्थद्रव्यदेशादिप्रतिबन्धभेदात् , सा च सा च आसन्नानासन्ना च नानावस्था येषां ते तदतदासन्नानासन्ननानावस्था द्रव्यदेशादयस्तैः प्रतिबद्धाया एव नियतेहेंदाद् द्रव्यादित्वेन, आदिग्रहणात् कालभावाभ्यां च, सैव नियतिद्रव्यतो घटरूपेण सा भवति / पटरूपेण सा घटान्तरस्यासन्ना आकारप्रत्यासत्त्या पटाकारेण प्रत्यासन्ना / क्षेत्रतो यसिंश्चक्रमूर्द्धनि क्रियते तस्मिन्नेव यत्र वा भूप्रदेशे तिष्ठति ग्रीवादिदेशे वा तत्रैव नान्यथेति / कालतो यावत्कालेन निवर्तते यावन्तं वा कालं तिष्ठति सा कालनियतिः / भावतो यैर्वर्णः कृष्णादिभिर्यथा भवति तथैवेति नियतिरेवं द्रव्यदेशादिप्रतिबद्धभेदाद्वस्तुविरचना नियत्येकत्वेऽपि / किमिव ? मेघगर्भवत् / यथा मेघा गर्भ गृह्णन्तः यादृग् यावच्च जलं गृह्णन्ति यथा च तादृक् तावत्तथैव विसृजन्ति द्रव्यतः, क्षेत्रतो यत्र गृह्णन्ति देशे तत्रैव विसृजन्ति / कालतो मार्गशिरोमासे गृहीतं वैशाखे विसृजन्तीत्यादि। भावतो यथा गृहीतं क्षारमधुरादि तथैव विसृजन्ति / सत्त्वौषधिवनस्पतिशोषपोषकरादीति / तदुपसंहरति-'नाभाविभावो न च भाविनाशः' इति प्राक्तनेन वृत्तेन गतार्थम् / स्यान्मतम्-अयं नियमः कालात् , कालस्य क्रमाख्यत्वाच्च पूर्वोत्तरादिकालक्रमनियतपरिणामत्वाच भावानामिति, एतच न कालादयं विचित्रो नियमः। कस्मात् 1 वर्षारात्रादिष्वपि क्वचिदनियतप्रवृत्तेः / दृश्यते ह्यड्कुरकिशलयपत्रपुष्पफलगर्भप्रसवादिव्यभिचारो वनस्पत्यादीनां सत्त्वानां च स्वतः प्रयोगतश्च वर्षाशरद्धेमन्तशिशिरवसन्तनि १°तेन ख। 2 एतश्च घ। अतश्च क-ख। 3 दयच्चतु क-ख।