________________ नियतिवादः] न्यायागमानुसारिण्यलङ्कृतम् / 'प्राप्तव्यो नियतिवले त्यादि / कृतेऽपि यत्ने कार्यविपत्तिदर्शनात् / अकृतेऽपि नित्यादिदर्शनसम्पत्तिदर्शनात् कार्यस्य कारणानुरूपगुणस्तद्वैरूप्यविरोधपरिहारसम र्थोऽस्ति / किमयमेव गुणोऽन्योऽप्यस्ति ?, अस्तीत्युच्यते / कतमोऽसौ ? अयत्नप्रतिपाद्यतागुणः, स च मूर्ताद्ययुक्तविरुद्धधर्मापत्तिपरिहारेणेति, तदर्शयति-न च मूर्तामूर्तेत्यादि, यावद्यत्नप्रतिपाद्यमस्तीति तत्रोपपत्तिः / उभयथा तथाप्रविभक्तेत्यादि, यावन्नियतेः / तेन तेन प्रकारेण तथा तथा मूर्तत्वेनामूर्तत्वेन, चेतनत्वेनाचेतनत्वेन सौक्ष्म्येण स्थौल्येन च ऐश्वर्यण दारिद्रयेण चेत्यादिना प्रविभक्तानामर्थानां सर्व वस्तु ज्ञेयं सदर्थ इत्यादिना चाप्रविभक्तानां सर्वेषामर्थानां यथातथाभावो याथातथ्यं तेन याथातथ्येन / तस्य तस्यार्थस्य सर्वस्य नियतस्य नियमेन तिष्ठतः प्रयोजकत्वं हेतुकर्तृत्वं स्थापनम् / तच्चैकरूपमेव सर्वत्र तस्या नियतेः। तस्माद्धेतोस्तथा तथा प्रविभक्तसर्वार्थयाथातथ्यां स्थापनैकरूपत्वानियतेनेदानीं नियमनमात्रैकव्यापाराया नियतेर्हेतुत्वप्रतिपादनाय यत्नः कश्चिदास्थेयः / प्रयत्नसाध्येष्वर्थेषु कृतकेष्वपि च तद्विषयक्रियाफलस्य तथानियतेापिता नियतिकारणत्वस्य / स्यान्मतम्-नियतिनिबद्धत्वात् सर्वभावानक्रियाक्रियाफलयोरनियम इति तत्र भवति तद्विषयस्य घटादिविषयस्य मृत्पिण्डदण्डचक्रादिसाधनस्य प्रयत्नसाध्यस्य घटात्मनिर्वृत्तिरूपस्य क्रियाफलस्य तेन प्रकारेण नियतेर्नियतिरेवात्र कारणमिति / इदानीं तस्या नियतेः स्वरूपं चिन्त्यते-किं तावत् तेषामेव भावानां खं स्वं रूपं प्रति प्रतिभावं भिन्ना नियतिरुच्यते, उताभेदा सेति ? अत्र परमार्थतः अभेदासौ कारणं जगतः,नास्या भेद इत्यभेदा। कस्मात् भेदबुद्ध्युत्पत्तावपि परमार्थतः अभेदात् / अथवा कोऽसौ भेदो नाम नियतेरपि ? क्रियासाध्यसाध्यार्थरूपत्वभावानां नियम इति / चेतनाचेतनत्वादिबुद्धयुत्पत्तावसत्यां परमार्थतो नियतिरित्येवाभिन्नत्वादभेदा / भेदबुद्धिस्तु तद्विकल्पमात्रभावापेक्षा, किमिव ? बालादिभेदपुरुषत्ववत् / यथा बाल्यकौमारयौवनमध्यमावस्थाभेदबुद्धयुत्पत्तावपि पुरुषत्वमभिन्नमेवं नियतिरपि क्रियानियतफलभेदबुधादिभेदेष्वभिन्नेति / आह-कथं परमार्थतो नास्ति भेदो भेदबुद्ध्याभासभावेऽस्याः ? दृश्यमाने हि भेदबुद्ध्याभासभावे किञ्चित् क्रियया 1 प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने नामव्यं भव्यं भवति न भाविनोऽस्ति नाशः॥ सत्यं पिशाचाः स्म वने वसामो भेरी करात्रैरपि न स्पृशामः। अयं च वादः प्रथितः पृथिव्यां 'भेरी पिशाचाः किल ताडयन्ति' // २नियमाक-ख। 3 वा ग वसत्यां ध्र।