________________ 162 नयचक्रम् / [विधिविधिनयेस्थावृत्तिवशादस्वातत्र्यादाहितवेगवितटपातवत् / यथा कश्चित् पुरुषः स्वयमेव पूरितवेगस्तं वेगं निवर्तयितुमशक्तो वितटे पतति, तथा स्वतन्त्रमपि ज्ञमपि तत्परं कारणमात्मनोऽनिष्टमनर्थमापादयेत् / को दोषः / इत्यत्र कुतूहलं चेद् दोषं ब्रूमः / ननु तज्ज्ञत्वेत्यादि / नन्वेवं त्वया निद्रावदवस्थावृत्तिवशादाहितवेगवितटपातवदवस्थास्वातन्यादनानिष्टापादनमिति ब्रुवता तज्ज्ञत्वाद्ययुक्ततैवैपा समर्थ्यते / तेनानया पूरितवेगया शीघ्रगमनक्रियया वितटपातो भविष्यतीत्यज्ञातत्वात् / ज्ञातत्वे वितटपातः स्वतन्त्रस्य नोपपद्यत इति स एव दोषस्तस्मात् तदवस्थमयुक्तत्वम् , युक्तत्वाभिमतत्वेऽपि चेत्यादि / यद्यपि स्वातन्त्र्यज्ञत्वाविनाभाविभवनबलोपहितमात्ममयत्वमेवास्य सर्वस्य मन्यसे' तथापि त्वयमेव नियमः कर्बेतरत्वापादनाय, भवतीति वाक्यशेषः / कथं कृत्वा तद्भाव्यत इति चेत् ? उच्यते, भवति कर्तेति प्रागभिहिताक्षरार्थन्यायं तदीयमेवोच्चारयति / यावदचेतनोऽपि भवतीति, त्वयैव कारणान्तरास्तित्वमेवं त्रुवता समर्थितं भवति किञ्चिदासामवस्थानाम् / स चाधिवज्ञाज्ञस्वतन्त्रास्वतन्त्रस्वविषयनियतकर्तृकरणाधिकरणकर्मादिनियतशक्तिदर्शनात् / देवदत्तकाष्ठस्थालीतन्दुलोदकादीनां तन्नियमकारिणा कारणेनावश्यं भवितव्यम्। किं कारणम् ? तेषां तथाभावान्यथाभावाभावात्। देवदत्तोऽधिश्रयणोदकसेचनतन्दुलावैपनवपनोत्कर्षापकर्षणादिव्यापारस्वातन्त्र्य एव नियतो न ज्वलनसम्भवनवारणविक्केद्यादिव्यापारस्वातव्ये, एवं तेषामपि काष्ठादीनां कारणादिस्वव्यापारविषयस्वातव्यनियमस्तथाभावः, तेषामेव कारणानां स्वव्यापारविपरीतशक्तिः परस्परतोऽन्यथाभावः / तयोस्तथाभावान्यथाभावयोरभावादभावप्रसङ्गादिति यावत् / दृष्टौ चेमौ तथाभावान्यथाभावौ तस्मानियतत्वानियमकारिकारणापेक्षनियमा एव भावाभावौ, तस्मानियतत्वान्नियमकारिकारणापेक्षनियमा एव स्तश्च कारणम् / नान्यदतो भवितुमर्हति नियतेरित्यत आह-इति नियतिरेवैका की। इतिशब्दो हेत्वर्थे / असाद्धेतोनियमकारिकारणाविनाभावाद्भावनियमस्य नियतिरेवैका कम्त्यस्तु निर्दोषा कल्पना / कथम् ? यस्मात् न हि तस्यां कदाचित् कथञ्चित्तदर्थान्यरूपमेकत्वं व्याधातिज्ञानात्मकैककारणवादे पृथिव्याद्यचेतनमकारणानुरूपमित्यस्ति / व्याघातावस्थासु चतसृष्वपि कल्पितासु कारणपूर्वत्वाभ्युपगमात् कार्याणाम् , न हि नियतेनियममात्रस्य को भावानां सारूप्यवैरूप्यभेदेऽपि व्याघातोऽस्ति / कदाचिदिति व्यवस्थान्तरेऽपि / कथञ्चिदिति प्रकारान्तरेऽपि / तस्मात् कारणैकत्वेऽपि वैरूप्यदोषपरिहारसमर्थत्वान्नियतिकारणकल्पना श्रेयसीति / अत्रीह चेति जिनवचनोपजीविनमेतदपि, ज्ञापकं पूर्ववत् / 1 ते ग। 2 ता ग। 3 अपनैवोपनैवो ग। 5 न्वा क-ख /