________________ नियतिवादः] न्यायागमानुसारिण्यलङ्कृतम् / 161 चेति, जैनमतानुसारेणैवेत्यर्थः / तदजति चलति स्पन्दते, नैजति न चलति न स्पन्दते, तरे तिर्यग्लोकेऽधोलोकेऽलोके च / तदुपान्तिके तदेकसिन् प्रदेशे दृश्यस्पृश्यादि तदन्तरस्य घटपटादेः सर्वस्य वस्तुनः साकारानाकारोपयोगलक्षणस्थात्मनस्तत्परिणतेरप्रतिघातात् / तदु सर्वस्य बाह्यतः तस्यैवालोकेऽपि सद्भावात् / सर्वस्यास्येति लोकगतभावनिर्देशात् तस्य बाह्यमलोक इति / 'अर्हण बोधने' इत्यादेः विशुद्धिप्रकर्षविशेषाद्देवता अपि स एव / अर्हति सर्वलोकातिशयपूजां इत्यर्हन् / बुद्ध्यत इति बुद्धः / वर्धनाद्वहत्त्वात् ब्रह्मा / वर्धमानो वा / व्यामोतीति विष्णुः / ज्ञानात्मनैव सर्वानर्थान् ईशनादीश्वरः। एतेभ्यश्च ज्ञानविशुद्ध्युत्कर्षभेदेभ्यस्तत्पर्यन्तप्राप्तेर्यावदर्हन्नपि भवतीति सम्भाव्यते / दुःप्रापत्वादार्हन्त्यस्य सम्भावनयोच्यते, शेषपदप्राप्तिषु सुलभैवेति / तामपि च दुरापां सर्वज्ञावस्थां परमविशुद्धां परमार्थाख्यां स एव प्राप्तुमहतीति / एवं विधिविधिनयविकल्पः पुरुषवादः॥ अधुना नियतिवादो विधिविधिनयदर्शनाश्रयोऽभिधीयते-'सत्यं भवनं कर्तु'रित्यादि / सत्यं-युक्तमेतदुच्यते त्वया तन्न भवनस्वातव्यमुपलभ्यमानं पञ्चविधं शक्यमपह्नोतुम् / किं कारणम् ? भवनस्य क्रियात्वात् / या क्रिया सा भवितुरेव घटादेः परमाण्वादेर्वा, यथा पचिक्रिया पक्तुरेव भवति / स्वतन्त्रस्य भवनमपि च क्रिया क्रियात्वात् , भवित्रा विना न भवति पचिवत् / भविता च को स्वतत्रः कर्तृत्वादेव / न केनचिदसो भाव्यते कायते क्रियते वा स्वातत्र्यात कर्तृत्वात / यत्तु स ज्ञ इति सम्प्रधार्यमेतत् / यत्पुनरुच्यते स्वातच्यात् कर्ता ज्ञ एवेत्यवथार्यम्, तत्र त्वया सहैतत् सम्प्रधायें विचायेमस्ति, सर्विश्यमेवेत्ययुक्तमित्यभिप्रायः। किं कारणमयुक्तम् ? सर्वज्ञस्यैव भवनाभ्युपगमे दोषदशेनात् कर्तृत्वात् स्वातत्रयमस्ति, को वारयति स यदि ज्ञः स्वतन्त्रश्चेत्युभयगुणसम्पन्न इष्यते ? / यदि ज्ञःस खतत्रोऽपि सात् नात्मनोऽनर्थमनिष्टमापादयेत् , ज्ञत्वे सति स्वतत्रत्वात् / को दृष्टान्तः ? विद्वद्राजवत् / यथा हि देवपुरुषगतिज्ञो देशकालसहायसाधनसम्पन्नः पराक्रमवान् राजा नात्मनोऽनर्थमनिष्टं मरणपराजयादिकमापादयति, एवमसावपि नात्मनोऽनर्थमनिष्टमापादयेत् / दृष्टस्त्वयमनर्थोऽनिष्टो जन्मजरामरणरोगशीतोष्णादिः शारीरः मानसश्च शोकभयविषादेाऽसूयादिस्तसादयुक्तमस्य ज्ञत्वमित्येतच न, निद्रावदवस्थावृत्तेरित्यादि नैतदुपपद्यतेऽनानिष्टापादनानुत्पत्ति स्यात्मन इति / कस्मात् ? निद्रावदवस्थावृत्तेः। निद्रावत्यवस्था निद्रावदवस्था तया वृत्तिनिद्रावदवस्थावृत्तिस्तस्या वृत्तेः पुरुषताया एवास्त्रातच्यात् / ज्ञस्यापि स्वकृतनिद्राव / सन्तुल्यताम्-'तदेजति तन्नेजति तद् दूरे तद्वदन्तिके / तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥ ईशावास्योपनिषद् 115 / 2 पूजायाम् इति सि०है। सर्वज्ञतैवेक। न.च०२१