________________ नियतिवादः] न्यायागमानुसारिण्यलङ्कृतम् / 167 अथवा भेदेनैवासत्साध्यमिदं चान्यदिति वर्तते / यद्बुद्ध्यैव साध्यते न क्रियया परिस्पन्दात्मिकया विद्यमानं पुरुषावस्थापरिग्रहापनयनेन / नात्र किञ्चिन्निवर्तते पुरुषादि किन्तु विद्यमानमेवानुपलब्धमुपलब्ध्या साध्यते / एषामनियतिनिरूपैवेति पूर्वविलक्षणा / एतासां क्रियाणां तत्साध्यानां च नियतिकृतत्वप्रतिपादनार्थमाह-एतच्च साध्यमानमित्यादि / ओदनविषयेयं पचिक्रिया घटादिविषयक्रियाविलक्षणा / एतच्चौदनादिसाध्यमानमप्यन्यविषयगमनादिक्रियाविलक्षणयानयैव पचिक्रियया साध्यते नान्ययेति क्रियानियत्या साध्यते / एतस्याश्च पचिक्रियाया एतान्येव काष्ठादीनि कारकाणि, न मृत्पिण्डदण्डादीनीति साध्यसाधनार्थनियतिः। एवमित्यादि, एवं च कृत्वा यथार्थगतप्रतिविशिष्टसाध्यसाधननियमाभिव्यङ्ग्याया नियतेः स्थितिर्व्यवस्था / तथा तस्याः स्थितेर्हेतोः कारणगुणपूर्वकतानुमानप्रसिद्धां कार्यस्य प्रतिपद्य बुद्ध्या कारकान्तरसमवस्थितितुल्यतायामपि दण्डादिकारकान्तराणां साध्यनिवर्तनसमवस्थितेस्तुल्यतायामपि सत्यां पचिक्रियासमवस्थित्या सह नियतिप्रसिद्धरेव बलात् पुरुषस्तथा प्रतिपद्य प्रत्यर्थ कारकाणि प्रयुङ्क्ते / यथा स्वसाध्यार्थोऽयमित्यर्थः। तानि च कारकाणि नियतानि / 'तस्या एव नियतायाः क्रियाया यथाप्रयोगनियमं पौर्वः प्रयोगनियमः' इति स्खे-स्वविषये देशकालविशिष्टे प्रयुक्तानीत्यर्थः / एकविमर्दप्रवृत्तानि एकमप्याह नान्योन्यापेक्षण व्यापारेण प्रवृत्तानि परस्परापेक्षं नियतं परस्परानुग्रहमुद्भावयन्ति प्रवर्तन्ते / अत उच्यते / परस्परनियतानुग्रहोद्भावनवृत्तानीति स्वविषयक्रियया प्रसाध्यमर्थमभिनिवर्तयन्ति / तेषां वृत्तिर्विषयस्तानि / तत्फलं च सर्व नियतमेव / ततो नियतिरेव सर्वस्य कारणम् , न तु तदुपायसिद्धेरन्यथा तत्सिद्धिरस्ति / काष्ठज्वलनादिसाधनपचिक्रियानिवर्तनस्यौदनस्य न दण्डचक्रभ्रमणादिसाधनात् तत्सिद्धि! वा घटाद्यर्थस्य काष्ठज्वलनादिसाध्यतास्तीति / का सिद्धिस्तीति चेत् ? उच्यतेसिद्धिहीत्यादि, नियमे भोक्तलक्षणे नानुगतानामनभिव्यक्तव्यापाराणां बीजावस्थायामङ्कुरादित्वेन रूपादीनां सम्मूच्छितानां साङ्गत्येन समुदत्य स्थितानां स्वनियतेरेवाभिव्यक्तिर्वर्णाकृत्यादिनियत्या जनिर्वा पूर्वमनभिव्यक्तानामभिव्यक्तिः सा सिद्धिरित्युच्यते / तत्र यस्मिन् मिथ्याभिमान इदं मया कृतमिति पुरुषस्य / आहकिं कारणम् ? मिथ्याभिमानो ननु मया कृतो घट इति तक्रियाविनाभावात् सिद्धजन्मत्वाद् घटस्य न युक्तोऽभिमान इति / अत्रोच्यते। तच्च स चेत्यादि / तत्प्रवृत्त्यप्रवृत्त्योः सिद्ध्यसिद्ध्योश्च व्यभिचारदर्शनात् / तच्च कार्य घटादि, स च कर्ता कुलालः / तानि च कारकाणि दण्डादीनि नियतेरेव प्रवर्तन्ते, तथा तस्य चिकीर्षा वक। २वीप्साघ।