________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० बोधो मे' न तथाविधोऽस्ति न सरस्वत्या प्रदत्तो वरः, साहाय्यश्च न कस्यचिद्वचनतोप्यस्ति प्रबन्धोदये / यत्पुण्यं जिननाथभक्तिजनितं तेनायैमत्यद्भुतः, सञ्जातो . निखिलार्थबोधनिलयः साधुप्रसादात्परः // 1 // कल्याणावसथः सुवर्णरचितः विद्याधरैः सेवितः, तुङ्गाङ्गो विबुधप्रियो बहुविधश्रीको गिरीन्द्रोपैमः / भ्राम्यद्भिर्न बृहस्पतिप्रभृतिभिः प्राप्तं यदीयं पदम् , न्यायाम्भोधिनिमन्थनः चिरमसौ स्थयात् प्रबन्धः परः॥२॥ मूलं यस्य समस्तवस्तुविषयं ज्ञानं परं निर्मलम् , बुध्नं संव्यवहारसिद्धमखिलं संवादि मानं महत् / शाखाः सर्वनयाः प्रपत्रनिवहो निक्षेपमालामला, जीयाजैनमतांऽघ्रिपोऽत्र फलितः स्वर्गादिभिः सत्फलैः // 3 // भव्याम्भोजदिवाकरो गुणनिधिः योऽभूजगभूषणः, सिद्धान्तादिसमस्तशास्त्रजलधिः श्रीपद्मनन्दिप्रभुः / तच्छिष्यादकलङ्कमार्गनिरतात् संन्यायमार्गोऽखिलः, सुव्यक्तोऽनुपमप्रमेयरचितो जातः प्रभाचन्द्रतः // 4 // अभिभूय निजविपक्षं निखिलमतोद्योतनो गुणाम्भोधिः। , सविता जयतु जिनेन्द्रः शुभप्रबन्धः प्रभाचन्द्रः // 5 // इति प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे सप्तमः परिच्छेदः समाप्तः ।।छ।। (1) प्रभाचन्द्रस्य / (2) न्यायकुमुदचन्द्रविरचने / (3) न्यायकुमुदचन्द्रः / (4) न्यायकुमुदचन्द्रः / 1-दयः श्र०। 2-यमः ब० / न्यायाम्भोधिनिबद्धनः आ०, न्यायाम्भोनिधिमन्थनः श्र०। 4 तश्याय-श्र०। 5 समाप्तः। इति श्रीजयसिंहदेवराज्ये श्रीमद्धारानिवासिना परापरपरमेष्ठिप्रणामोपाजितामलपुण्यनिराकृतनिखिलमलकलंकेन श्रीमत्प्रमाचन्द्रपण्डितेन न्यायकुमुवचन्द्रो लघीयस्त्रयालंकारः कृत इति मंगलम् / श्रीचन्द्रनाथाय नमः। श्रीविजयकीर्तिमनये नमः / श्र० /