________________ 876 प्रवचनप्र० का० 77-78] शास्त्राध्ययनस्य प्रयोजनम् दूरीभूततरात्मकादधिगतो बोद्धाऽकलकं पदम् , लोकालोककलावलोकनबलप्रज्ञो जिनः स्यात् स्वयम् // 77 // प्रवचनपदान्यभ्यस्य अस्तंतः परिनिष्ठितान् , असकृदबबुद्धयेद्धाद्वोधाडधो हतसंशयः।। भगवदकलङ्कानां स्थानं सुखेन समाश्रितः, कथयतु शिवं पन्थानं वः पदस्य महात्मनाम् // 78 // विवृतिः-लक्षण-संख्या-विषय-फलोपेतप्रमाण-नय-निक्षेपखरूपप्ररूपके हि हेतुवादरूपे आगमे गुरूपदेशपरम्परातो यथावदधिगते परमप्रकर्षण अभ्यस्ते सति आत्मनो जिनेश्वरपदप्राप्तिलक्षणस्वार्थसम्पत्तिर्भवति / तत्संपत्तौ च मुमुक्षुजनमोक्षमार्गोपदेशद्वारेण परार्थसम्पत्तये असौ चेष्टते इति // छ / इति श्री भट्टाकलङ्कशशाङ्कानुस्मृतप्रवचनप्रवेशः समाप्तः // छ / 10 (1) "स्याद् भवेत् / कः भव्यः मोक्षहेतुरत्नत्रयरूपेण भविष्यति परिणंस्यतीति भव्यः अभव्यस्य मुक्तावनधिकारात् / किविशिष्ट: स्यात् ? जिनः स्यात् / पुनः कथम्भूतः ? लोकालोककलावलोकनबलप्रज्ञः, षद्रव्यसमवायो लोकः ततो बहिरलोकः केवलाकाशरूपः तयोः कला विभागः / अथवा लोकश्च अलोकश्च कलाश्च जीवादयः पदार्थाः तासामवलोकनं तत्र बलं शक्ति: प्रज्ञा प्रकृष्टं ज्ञानं च विद्यते यस्य स तथोक्तः कथं स्वयं स्वेनात्मना नेन्द्रियादिसाहाय्येन इत्यर्थः / पूनरपि किंविशिष्ट: ? अधिगतः। किम् ? पदम् स्थानम् / किंविशिष्टम् ? आकलङ्कम् अकलङ्कानामिदम् आर्हन्त्यमित्यर्थः / बोद्धा / किंकृत्वा ? अभ्यस्य पुनः पुनर्भावयित्वा। कम् ? तदर्थम्, तस्यागमस्य अर्थो जीवादिवस्तु तम् / आदी कृत्वा ? बुध्वा अधीत्य ज्ञात्वा च / कम् ? आगमं श्रुतम् / केभ्यः ? तेभ्यः पंचगुरुभ्यः सकाशात् / कस्मादवधिभूताद् ? शब्दात् / किंविशिष्टात् ? अर्थविषयात् / पुनः किंविशिष्टात् ? अपभ्रंशतः भ्रंशो लक्षणदोषः तस्मादपगतः अपभ्रंशः तस्मात् / ततः पूर्वं किं कृत्वा ? आराध्य गुरून अर्हदादीन् / कति ? पंच / कैः गुणः ? तपोभिः बाह्याभ्यन्तरः इच्छानिरोधैः / अमलै: मिथ्यात्वादिमलरहितः"-लघी० ता० पृ० 100 / (2) "कथयतु प्रतिपादयतु / कः? बुध: ज्ञानी। कम् ? पन्थानं मार्गप्राप्त्युपायम् / किं विशिष्टम् ? शिवम् / कस्य ? पदस्य स्थानस्य / केषाम् ? महात्मनाम् / केभ्यः कथयतु ? वः युष्मभ्यं विनेयेभ्यः। केन ? सुखेन ताल्वोष्ठपुटव्यापारक्लेशाभावेन / किंविशिष्ट: सन् ? समाश्रितः प्राप्तः / किम् ? स्थानम् अवस्थानम् न क्षणभंगं तत्रोपदेशाभावात् / किंविशिष्टम् ? भगवत् त्रिलोकपूजाहम् / केषां स्थानम् ? अकलंकानाम् / अर्हतामित्यर्थः / किविशिष्टः सन् ? हतसंशयः। किं कृत्वा ? अवबुद्धय निश्चित्य / कथम् ? असकृत् पुनः पुनात्वा / कान् ? अर्थात् जीवादितत्त्वानि / किंविशिष्टान् ? परिनिष्ठितान् व्यवस्थितान् / क्व ततः ? तेषु प्रवचनपदेषु / कस्मात् ? बोधात् / किविशिष्टात् ? इद्धात् उज्वलात् संकरव्यतिकरव्यतिरेकात् अहमहमिकया प्रकाशमानादित्यर्थः / किंकृत्वा / अभ्यस्य परिचिन्त्य। पुनः पुनरुपयुज्यत्यर्थः / कानि ? प्रवचनपदानि। परमागमाभ्यासात् परिणतश्रुतज्ञानः शुक्लध्यानानलनिर्दग्धद्रव्यभावकलङ्कः सार्वश्यमापन्नो मोक्षमार्गोपदेशाय परार्थाय चेष्टतामिति भावो देवानाम्।"-लघी ता० पृ० 101 / 1-निश्चिता-ब०। 2-स्वरूपके हि श्र०। 3 परार्थसम्प-श्र०। 4 चेष्ट इति आ० / 5 इति ग्रन्थः समाप्तः ब०।