________________ 878 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० बाधितः तथा प्रपश्चतः प्राक् प्रतिपादितमेव / ननु-"पुंवेदं वेदंता जे पुरिसा खवगसेढिमारूढा / ___सेसोदयेण वि तहा झाणुवजुत्ता य ते दु सिझर्ति // " [प्रा० सिद्धभ० गा०६] इत्यादेरपि प्रमाणभूतागमस्य तन्निर्वाणप्रतिपादकस्य. सद्भावात् कथं प्राक्तनागमस्य 5 प्रमाणबाधितार्थप्रतिपादकत्वम्, आगमात् स्त्रीनिर्वाणोऽसिद्धिर्वा ? इत्यपि मनोरथमात्रम् ; तस्यै तन्निर्वाणावेदकत्वाऽसंभवात् , स हि पुंवेदोदयवत् शेषवेदोदयेनापि पुंसामेव अपवर्गावेदकः, उभयत्र 'पुरुषाः' इत्यभिसम्बन्धात् / वेद इति हि मोहनीयोदयजन्मा चित्तविकारोऽभिलाषरूपोऽभिधीयते, उदयश्च भावस्यैव न द्रव्यस्य / ___यदप्युक्तम्-'द्रव्यतः पुरुषाः' इत्यादि; तदप्यचर्चिताभिधानम् ; द्रव्यतः स्त्री10 वेदस्य मोक्षप्रसाधनसामर्थ्याभावस्य प्रतिपादितत्वात् कथं द्रव्यतः स्यपि भावतः पुरुषो भूत्वा निर्वास्यति ? यद् द्रव्यतो मोक्षप्रसाधने असमर्थं तद् भावतोऽपि तत्प्रसाधनेऽसमर्थमेव यथा तिर्यगादि, द्रव्यतो मोक्षप्रसाधने असमर्था च स्त्री इति / अतो द्रव्यतः पुरुषस्यैव भावतो वेदे यत्र कुत्रचिदारूढस्य निःशेषतो निखिलकर्मारातिनिर्ज यनसामर्थ्यमभ्युपगन्तव्यम् लोकवत् / यथैव हि लोके पुरुषो महासत्त्वोपेतो गजतुर15 गादौ यत्रकुत्रचिदारूढः किञ्चिद्दिव्यमस्त्रमादाय रणरङ्गे निखिलशत्रुवर्गमुन्मूलयन् परमैश्वर्यमनुभवति इति आबालं प्रसिद्धम् न पुनः यथार्थनामा अंबला, तथा द्रव्यतः पुरुष एव भावतो वेदत्रयान्यतमवेदाधिरूढः शुक्लध्यानानुपमास्त्रमादाय कारातिवर्गमुन्मूलयन् परमैश्वर्यमनुभवति इति / यदप्यभिहितम्-'न च सिद्ध्यतो वेदः' इत्यादि; तत्सत्यमेव; नहि अस्माभिर्वे20 दात् मुक्तिरभ्युपगम्यते, कर्मनिचयनिर्दहनसमर्थतीव्रतरशुक्लध्यानानलात् परापरमुक्तेरभ्युपगमादिति // छ / इदानीं शास्त्रकारः शास्त्राध्ययनस्य प्रयोजनं प्ररूपयन्नाह भव्यः पञ्चगुरूंस्तपोभिरमलैराराध्य बुध्वागमम् , तेभ्योऽभ्यस्य तदर्थमर्थविषयाच्छब्दादपभ्रंशतः। (1) "भावपुवेदमनुभवन्तो ये पुरुषाः क्षपकश्रेणीमारूढाः, न केवलं भाववेदेनैव अपि तु सेसोदयेण वि तहा-अभिलाषरूपभावस्त्रीनपुंसकवेदोदयेनापि तथा क्षपकश्रेण्यारूढप्रकारेण झाणुवजुत्ता य शुक्लध्यानोपयुक्ताश्च ते द्रव्यपुंवेदास्तु सिज्झति सिद्धयन्ति ।"-सिद्ध भ० टी०। (2) "पुवेदं वेदंता' इत्यागमस्य। (3) "अवेदत्वेन, त्रिभ्यो वा वेदेभ्यः सिद्धिर्भावतः न द्रव्यतः, द्रव्यतः पुल्लिलेनैव ।"-सर्वार्थसि०१०१९। “अतीतगोचरनयापेक्षया अविशेषेण त्रिभ्यो वेदभ्यः सिद्धिर्भवति भावं प्रति, न तु द्रव्यं प्रति / द्रव्यापेक्षया तु पुल्लिंगेनैव सिद्धिः ।"-राजवा० पृ० 366 / “पुल्लिंगेनैव तु साक्षाद् द्रव्यतो"."-तत्त्वार्थ-इलो० 10 / 9 / (4) पृ०८७० पं०३ (5) पृ० 870 50 5 / 1-णसिद्धि.त्यपि थ०,-णासिद्धिरित्यपि-ब०। 2- तन्निर्वाणा-ब०,-त्रं स्त्रीनिर्वाणा-श्र०। 8-विकारो ह्यभिधी-ब० 4 मोक्षसाधन-ब०। 5-तोऽखिल-ब०। 6 लोकेषु पुरुषो आ017 बाला श्रा