________________ 876 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० स्यात् महत्याः तीर्थकरत्वश्रियः तेषामप्यनर्हत्वाविशेषात् ; इत्यप्यसुन्दरम् ; व्यक्तिभेदस्यात्र विधिनिषेधयोरनङ्गत्वात् / पुरुषवर्गो हि महत्यां श्रियामधिकृतो न स्त्रीवर्गः अतस्तत्परिहारेण तस्यैव मुक्तिरभ्युपगन्तव्या, न पुनः कचिद्व्यक्तौ तथाविधश्रियोऽ संभवेऽपि मुक्त्युपलम्भाद् व्यभिचारमुद्भाव्य मुक्ति प्रति स्त्रीणां तत्समानताऽऽपादयितुं 5 युक्ता / न खलु एकस्य राजपुत्रस्य राज्यप्राप्तौ अन्यतत्पुत्राणां तैदप्राप्तितः ततो हीन त्वेऽपि पुत्र्या समत्वं युक्तम् ; पुत्रवर्गात् पुत्रीवर्गस्य सकलव्यवहारेषु लोके अत्यन्तविलक्षणतया .प्रसिद्धेः / ततः स्त्रीणां न मोक्षः पुरुषेभ्यो हीनत्वात् नपुंसकादिवत् / न च तेभ्यो हीनत्वमासामसिद्धम् ; अनन्तरमेव अस्य समर्थितत्वात् / इतश्च तत्सिद्धम् यतः सारणवारणपरिचोदनादीनि स्त्रीणां पुरुषाः कुर्वन्ति न 10 स्त्रियः पुरुषाणाम् , तीर्थकराकारधराश्च पुरुषा न स्त्रियः / उक्तञ्च “सारणवारणपरिचोयणाइ पुरिसा करेई णहु इत्थी' [ ] ननु न हीनत्वमधिकत्वं वा मुक्तेरङ्गम् , किन्तु रत्नत्रयं शिष्याचार्यवत् , तथाहि- . शिष्या आचार्येभ्यो हीनाः ते तु तेभ्योऽधिकाः अथ च उभयेषां मुक्तिः, तद्वद् आर्याणाम् आर्यिकाणाञ्च सा भविष्यति; इति च श्रद्धामात्रम् ; यतः शिष्याचार्यवत् हीनाधिकत्वेऽपि स्त्रीपुरुषयोर्मुक्तिः अविशेषतः स्यात् यदि तद्वत् तयोरपि मुक्तिहेतुभूतं रत्नत्रयमविशेषतः स्यात् , न च स्त्रीषु तदस्ति, तद्धेतुभूतस्यास्य प्रपञ्चतः तासु प्रागेव प्रतिषिद्धत्वात् / रत्नत्रयमानं तु तत्र सदपि न तद्धेतुः; गृहस्थादेरपि मुक्तिप्रसङ्गात्। नहि प्रचण्डमार्तण्डप्रसाध्ये कार्ये प्रदीपस्य स्वप्नेऽपि सामर्थ्य प्रतीयते / . यदप्युक्तम्-'गार्हस्थ्येऽपि सुसत्त्वाः ' इत्यादि; तदप्यविचारितरमणीयम् ; नहि 20 यथा अनेकदुर्धरपरीषहसहत्वेन अखिलकर्मनिर्मूलनसमर्थं महासत्त्वं पुसां प्रसिद्धम् तथाविधं स्वप्नेऽपि स्त्रीणामस्ति / स्त्रीवर्गापेक्षयैव सीतादीनां सत्त्वप्रकर्षसंभवात् 'महासत्त्वाः' इत्युच्यन्ते / नहि तासां पुंसामिव सत्त्वाधिक्यमस्ति कापि कार्ये / तथाविधसत्त्वविकलानाञ्च तासां कथं महासत्त्वसाध्यमुक्तिहेतुरत्नत्रयसमग्रता स्यात् / तथाहि-न स्त्रीशरीरं मुक्तिहेतुरत्नत्रयसमग्रतोपेताऽऽत्माश्रयः महता पापेन निर्वर्त्तित25 त्वात् नारकादिशरीरवत् / किञ्च, अखिलकर्मक्षपणाप्रारम्भहेतोस्तस्र्यं तदाश्रयतोपपद्यते / न च स्त्रीशरी- . (1) स्त्रीवर्गपरिहारेण / (2) तीर्थकरत्वश्रियः / (3) 'सारणा हिते प्रवर्तनलक्षणा कृत्यस्मारणलक्षणा वा, उपलक्षणत्वाद् वारणा अहितान्निवारणलक्षणा, चोयणा संयमयोगेषु स्खलितः सन्नयुक्तमेतद् भवादशां विधातुमित्यादिवचनेन प्रेरणा, प्रतिचोदना तथैव पूनः पुनः प्रेरणा।"-च्छा. वृ० गा० 17 / ओघनि० टी० गा० 448 / (4) शिष्याचार्यवत् आर्य-आयिकयोरपि। (5) पृ०८६९ पं०११। (6) शरीरस्य। (7) मुक्तिहेतुरत्नत्रयसमग्रतोपेतात्माश्रयता / 1 व्यक्तिभेदः स्यात विधि-आ012 तत्प्राप्तितः ब० / सारणचारण-आ०14 सारणचारण -आ। इछी आ016 आचार्याणामापि-श्र०। 7-धिक्यमपि क्वापि आ० / 8 नच शरीरस्य आo।