________________ प्रवचनप्र० का० 76] स्त्रीमुक्तिवादः 875 यदि च पुंसाम् अचेलः संयमो मुक्तेर्हेतुः स्त्रीणां तु सचेलः; तदा कारणभेदात् मुक्तरप्यवश्यमनुषज्येत भेदः / योऽत्यन्तभिन्नः संयमः सोऽत्यन्तभिन्नकार्यारम्भकः यथा यतिगृहिसंयमोऽत्यन्तभिन्नस्वर्गाद्यारम्भकः, अत्यन्तभिन्नश्च सचेलाऽचेलरूपो मुक्तिहेतुतयाऽभिप्रेतः आर्य-अर्यिकासंयमः इति / न चानयोः मुक्तिभेदोऽस्ति; सकलकर्मक्षयलक्षणाया मुक्तेः उभयोर्भवद्भिस्तुल्यतयाऽभ्युपगमात् / किञ्च, सचेलसंयमस्य मुक्तिहेतुत्वे मुक्तयर्थिनां न वस्त्रादेत्यागः कर्त्तव्यतया उपदिश्येत , उपदिश्यते चासौ तेषां तथा, अतो वस्त्रादेर्मुक्त्यङ्गतानुपपत्तिः। प्रयोगःवस्त्रं मुक्तेरङ्गं न भवति, मुक्त्यर्थिनां तत्त्यागस्य कर्त्तव्यतयोपदिश्यमानत्वात् , यत्त्यागो मुक्त्यर्थिनां कर्तव्यतयोपदिश्यते - न तत् मुक्तेरङ्गम् यथा मिथ्यादर्शनादि, कर्त्तव्यतयोपदिश्यते च तेषां वस्त्रत्याग इति / यत्पुनः मुक्तेरङ्गं न तत्त्यागस्तदर्थिनां कर्त्त- 10 व्यतया उपदिश्यते यथा सम्यग्दर्शनादेरिति / ___ यच्चान्यदुक्तम्-'पुरुषैरवन्द्यत्वस्य गणधरैर्व्यभिचारः' इत्यादि; तदप्यसाम्प्रतम् ; यतोऽर्हतां तीर्थकरत्वनामपुण्यातिशयवशात् परममहत्त्वपदप्राप्तत्वेन अखिलजनैर्वन्द्यत्वमेव न वन्दकत्वम् / नहि कश्चित् तत्पदादधिकपदार्हो जगत्यस्ति यस्य ते वैन्दका भविष्यन्ति, गणधराणां तु तथाविधपुण्याऽभावात् तत्पदप्राप्तेरभावान्न तद्वद्वन्द्यत्वम् / 15 मुक्तिसामग्री तु तीर्थकरेतरेषां सिद्ध्यतां न विशिष्यते / आर्यिकायास्तु सा विशिष्यते, तद्धेतुरत्नत्रयाभावात् / तथा, स्त्रीणां न निर्वाणपदप्राप्तिः, यतिगृहिदेववन्द्यपदाऽनर्हत्वात् , नपुंसकादिवत् / यतीनां हि वन्धं पदं द्विविधम्-परम् , अपरश्च / तत्र परम्-तीर्थकरत्वलक्षणम् / अपरम्-आचार्यादिलक्षणम् / तदुभयमपि पुंसामेव उपदिश्यते न स्त्रीणाम् / तथा गृहिणां देवानाञ्च वन्द्यं पदं द्विविधम्-पराऽपरभेदात् / तत्र 20 तेषां वन्द्यं परं पदम्-चक्रवर्तित्वम् इन्द्रत्वञ्च / अपरम्-महाम(मा)ण्डलिकादि सामानिकादि च / तदपि पुंसामेव श्रूयते न स्त्रीणाम् / प्रतिगृहश्च प्रभुत्वं पुंसामेव न स्त्रीणाम् / तथा पितरि सत्यसति च पुत्रस्यैव लघोः विरूपकस्यापि सर्वत्र कार्येधिकारो न पुत्रीणां महतीनां सुरूपाणामपि / अतो यासां सांसारिकलक्ष्म्यामपि अधिकारो नास्ति तासां मोक्षलक्ष्म्यामधिकारो भविष्यति इति किमपि महाद्भुतम् ! 25 ननु यदि महत्याः श्रियोऽनर्हत्वात्तासाममुक्तिः तदा गणधरादीनामप्यमुक्तिः (1) "तहि कारणभेदान्मुक्तेरप्यनुषज्येत भेदः स्वर्गादिवत् ।"-प्रमेयक० पृ० 330 / (2) आर्य-आयिकयोः। (3) वस्त्रत्यागः मुक्त्यर्थिनां कर्त्तव्यतया। (4) पृ० 869 50 4 / (5) तीर्थकराः। (6) परममहत्त्वपदप्राप्तेः। (7) तीर्थकरवत् सकलजगद्वन्द्यत्वम् / 1 वन्दका च भवि-श्र०। 2-पुण्यानुभावतस्तत्प-आ०,-पुण्यभावतस्तत्पद-ब०। 3-भावस्तत्पद-श्र० / 4 तद्वन्द्यत्वम् ब०, श्र०। 5-करे तेषां श्र०। 6 आयिकासु सा ब० / 7 वन्द्यपदं ब० / 8 चक्रवादित्वं ब०। 9 विपक्षकस्यापि ब०।