________________ 872 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० नियमेनोत्पाद इति / न च तथाविधकर्मोपार्जनसामर्थन मुक्तियोग्यता संभवति इति न मुक्तियोग्यताविचारावसरे किञ्चिदनेन प्रयोजनम् / यस्य तु उपरिष्टात् प्रकृष्टशुभगतिप्रसाधने सामर्थ्यम् तस्य अधस्तात् प्रकृष्टाशुभगेतिप्रसाधनेऽपि तदस्ति यथा पुंस इति स्त्रीणां प्रकृष्टायां शुभगतौ सामर्थ्यभ्युपगच्छता अशुभगतावपि तथाविधायां तदभ्युपगन्तव्यम् / तथा च "इत्थी छठ्ठीश्रो अहो न उप्पजंति” [ ] इत्यादि भवदीयागमविरोधः। यच्चान्यदुक्तम्-'न च वादादिलब्ध्यभावात्तासां मोक्षाभावः' इत्यादि; तदप्युक्तिमात्रम् ; यतो यत्र ऐहिकवादविक्रियाचारणादिलब्धीनामपि हेतुः संयमविशेषो नास्ति तत्र मोक्षहेतुरसौ भविष्यतीति कः सुधीः श्रद्दधीत ? वादलब्धिः खलु इन्द्राद्यास्था10 नेषु बृहस्पत्यादिष्वपि प्रतिबन्धकेषु सत्सु छलजात्यादिपरिहारेण स्वतत्त्वप्रतिपादनसामर्थ्यम्। विक्रियालब्धिः इन्द्रादिरूपोपादानशक्तिः। चारणलब्धिः गगनगमनसामर्थ्यम्। आदिशब्दात् अक्षीणमहानसादिलब्धिपरिग्रहः / तद्धेतुश्च संयमविशेषो न स्त्रीणां प्रवचने प्रतिपाद्यते / ___ यदप्यभिहितम्-'आगमे वादादिलब्ध्यतिशयाभाववत् मोक्षाभावोऽप्युच्येत' 15 इत्यादि; तदप्यभिधानमात्रम् ; संयमविशेषनिषेधादेव आगमे तासां मोक्षाभावप्रतिपा दनप्रसिद्धः। सुप्रसिद्धो हि आगमे पुंसां मोक्षहेतोः आचेलक्यादिसंयमविशेषस्य विधिः, स्त्रीणां तु निषेधः। न च कारणाभावे कार्योत्पत्तिः अतिप्रसङ्गात् / संयममात्रं तु सदपि आसां न,मोक्षहेतुः तिर्यग्गृहस्थादिसंयमवत् / तथा, नास्ति, स्त्रीणां मोक्षः परिग्रहवत्त्वात् गृहस्थवत् / यदप्युक्तम्-'प्रतिलेखनवत् मुक्त्यङ्गमेव वस्त्रम्' इत्यादि; तदप्यचारु; यतः प्रति (1) पृ० 867 पं०१० / (2) "स्त्रीणां संयमो न मोक्षहेतुः नियमेद्धिविशेषाहेतुत्वान्यथानुपपत्तेः ।"-प्रमेयक० पृ० 330 / (3) संयमः / (4) "शक्रादिष्वपि प्रतिबन्धिषु सत्सु अप्रतिहततया निरुत्तराभिधानं पररन्ध्रापेक्षणञ्च वादित्वम्।"-राजवा० पृ० 144 / (5) “लाभान्तरायक्षयोपशमप्रकर्षप्राप्तेभ्यो यतिभ्यो यतो भिक्षा दीयते ततो भाजनाच्चक्रधरस्कन्धावारोऽपि यदि भुञ्जीत तदिवसे नान्नं क्षीयते ते अक्षीणमहानसाः।"-राजवा० पृ०१४५ / (6) पृ०८६८५० 3 / (7) "लिंगं इच्छीण हवे भुंजइ पिंडं सू एयकालम्मि। अज्जियवि एकवत्था वत्थावरणेण भुजेइ। णवि सिज्झइ वत्थधरो जिणसासणे जइ वि होइ तित्थयरो। णग्गो विमोक्खमरगो सेसा उम्मग्गया सवे // लिंगम्मि य इत्थीणं थणंतरे णाहिकक्खदेसेसु / भणिओ सुहमो काओ तासं कह होइ पव्वज्जा॥ जइ दसणेण सूद्धा उत्ता मग्गेण सापि संजुत्ता। घोरं चरिय चरित्तं इत्थीसु न पावया भणिया // चित्तासोहि ण तेसि ढिल्लं भावं तहा सहावेण / विज्जदि मासा तेसिं इत्थीसु णऽसंकया झाणं ॥"-सूत्रप्रा० गा० 23-26 / “णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा / तम्हा तप्पडिरूवं वियप्पियं लिंगमित्थीणं / निर्ग्रन्थलिङ्गात् पृथक्त्वेन विकल्पितं कथितं लिंगं प्रावरणसहितं चिह्न स्त्रीणामिति ।"प्रव०टी० पू०३०२ / (8) पृ०८६८५०८। 1-तिसाधने-आ०। 2 इत्थीऊ छट्ठीदो अहो ण उ-ब०। 3 'यतो' नास्ति ब० श्र०। 4-स्थादिवत् आ०, ब०।