________________ प्रवचनप्र० का० 76 ] स्त्रीमुक्तिवादः 873 16 लेखनं तावत् संयमप्रतिपालनार्थं भगवतोपदिष्टम् , वस्त्रं तु किमर्थमुपदिष्टमिति ? तदपि तत्प्रतिपालनार्थमिति चेत् ; तथाहि-अभिभूयन्ते प्रायेण विवृताङ्गोपाङ्गसन्दर्शनजनितचित्तभेदैः पुरुषैः अङ्गना अकृतप्रावरणाः घोटिकेव घोटकैरिति; तत्र कुतस्ताः तैरभिभूयन्ते न पुनस्ते' ताभिः अकृतप्रावरणत्वाविशेषेऽपि इति वक्तव्यम् ? तासामल्पसत्त्वोपेततया अभिभाव्यत्वाच्चेत्, सुप्रसिद्धो ह्ययं विभागः गवाश्वादौ स्त्रीप्रकृतिर- 5 भिंभाव्या पुरुषप्रकृतिरभिभाविका इति; तदेतन्महामोहविजृम्भितम् ; यासामतितुच्छसत्त्वानां प्राणिमात्रेणाप्यभिभवः ताः सकलत्रैलोक्याभिभावककर्म शिप्रक्षयलक्षणं मोक्षं महासत्त्वप्रसाध्यं प्रसाधयन्तीति ! ___ यदप्युक्तम्-'यदि धर्मसाधनानां परिग्रहत्वं स्यात्' इत्यादि; तत्र कोऽयं धर्मः यत्साधनत्यं वस्त्रस्य स्यात्-पुण्यविशेषः, संयमविशेषो वा ? प्रथमपक्षे कथं तन्मुक्ति- 10 हेतुः ? आगमविहितविधिना गृह्यमाणस्यास्य गृहस्थवत् पुण्यस्यैव हेतुत्वात् / पुण्यहेतोश्च मुक्तिहेतुत्वे दानादेरपि तद्धेतुत्वप्रसङ्गः। संयमविशेषहेतुत्वं तु तस्य दुरुपपादम् , बाह्याभ्यन्तरपरिग्रहपरित्यागो हि संयमः, स च याचेंनसीवनप्रक्षालनशोषणनिक्षेपादानचौरहरणादिमनःसङ्कोभकारिणि वस्त्रे गृहीते कथं स्यात् ? प्रत्युत संयमोपघातकमेवैतत् बाह्याभ्यन्तरनैर्ग्रन्थ्यप्रतिपन्थित्वात् / नन्वेवं पिण्डौषध्यादीनामपि परिग्रहत्वप्रसङ्गात् कथं तदादायिनामपि मोक्षः स्यात् ? इत्यप्यसारम् ; तेषाम् उद्गमादिदोषपरिहारेण उपादीयमानानां रत्नत्रयोपबृंहणहेतुत्वात् / न हि ते सिद्धान्तविहितविधिना उपादीयमाना मोक्षहेतोरपकर्तारः / तदनहणे च अपूर्णेऽपि काले विपत्तेरापत्तेः आत्मघातित्वं स्यात् , वस्त्राऽग्रहे तु नाऽयं दोषः / षष्ठाऽष्टमादिक्रमेण च मुमुक्षुभिः पिण्डादिकमपि त्यज्यते, परमनैर्ग्रन्थ्यभाग्भिः तैः / प्रतिलेखनश्च, न तु स्त्रीभिः कदाचिद्वस्त्रम् / नच गृहीतेऽपि वस्त्रे ममेदंभावस्य आसामसंभवादपरिग्रहत्वं वाच्यम् ; विरोधात्, बुद्धिपूर्वं हि पतितं वस्त्रं हस्तेनादाय परिदधानाया मूर्छारहितत्वानुपपत्तेः, यद् बुद्धिपूर्वं पतितमप्यादीयते न तत्र मूर्छाभावः यथा सुवर्णादौ, तथा आदीयते च स्त्रीभिर्वस्त्रमिति / / (1) स्त्रियः। (2) पुरुषाः। (3) पृ०८६८ पं० 10 / (4) वस्त्रस्य / (5) “गेहदि व चेलखंडं भायणमत्थित्ति भणिदमिह सुत्ते / जदि सो चत्तालंबो हवदि कहं वा अणारम्भो॥ वत्थक्खंडं दुद्दियभायणमण्णं च गेण्हदि णियदं। विज्जदि पाणारंभो विक्खेभो तस्स चित्तम्मि / गेण्हइ विधुणइ धोवइ सोसेइ जदं तु आदवे खित्ता। पत्थं च चेलखंडं बिभेदि परदो य पालयदि // किध तम्हि णत्थि मुच्छा आरंभो व असंजमो तस्स। तध परदव्वम्मि रदो कधमप्पाणं पसाधयदि ॥"प्रव०, टी० पृ० 297 / प्रमेयक० पृ० 331 / (6) “बुद्धिपूर्वकं हि हस्तेन पतितं वस्त्रमादाय.." -प्रमेयक० पृ० 333 / 1-विशेषणेति वक्त-ब०। 2-भाव्यं पुरुष-श्र०। 3-राशिक्षय-श्र०, राशिप्रक्षयलणं आ० / 4 संयमाशेष-आ० / 5-पूर्वकं हि श्र०। 60