________________ प्रवचनप्र० का 0 76 ] स्त्रीमुक्तिवादः 871 देव अनयोः गम्यगमकभावो भविष्यति, ननु नैयायिकस्य मतमेतन्न सिताम्बरस्य / न खलु समवायासिद्धौ तस्य एकार्थसमवायसिद्धिरुपपद्यते तत्सिद्धिपूर्वकत्वात्तस्यौः / अस्तु वा तत्सिद्धिः; तथापि-अंतस्तयोर्गम्यगमकभावे प्रकृतयोरपि सोऽस्तु तत्राप्येकार्थसमवायसद्भावात् , यत्रैव हि आत्मनि सप्तमपृथिवीगमनयोग्यता समेवता तत्रैव मुक्तिगमनयोग्यतापि / न च सप्तमपृथिवीगमनाभावात् स्त्रीणां निर्वाणनिषेधः साध- / यितुमिष्टः येनोक्तदोषानुषङ्गः स्यात् , किं तर्हि ? परमप्रकर्षत्वाद्धेतोः दृष्टान्ते सिद्धसाध्यव्याप्तिकात् निर्वाणकारणाभावः तत्र साधयितुमिष्टः। तदभावाच्च निर्वाणाभावः स्वयमेव तत्र सेत्स्यति / न खलु निहतुका कार्यस्योत्पत्तिः अतिप्रसङ्गात् / ततोऽयुक्तमुक्तम्-'सप्तमपृथिवीगमनं न निर्वाणस्य रत्नत्रयवत् कारणम्' इत्यादि / यदपि-'चरमदेहैः निश्चितव्यभिचारम्' इत्याद्युक्तम् ; तदप्ययुक्तम् ; यतः सप्तम- 10 पृथिवीगमनाभावः तन्निवर्त्तनसमर्थकर्मार्जनसामर्थ्याभावः। स च स्त्रीष्वेवास्ति न चरमशरीरिषु / श्रूयते हि भरतप्रभृतिचक्रवर्त्तिनां चरमशरीराणामपि प्रयाणकसमये सप्तमपृथिव्यां गमनयोग्यकर्मार्जना, देवार्चनसमये तु सर्वार्थसिद्धाविति / उत्कृष्टो हि शुभोऽशुभश्च परिणामः यथाक्रमम् उत्कृष्टायाः शुभगतेः अशुभगतेर्वा हेतुभूतं कर्म आरभते, तत्परिणामप्रारम्भे च पुरुषस्यैव सामर्थ्यं न स्त्रियाः / यथैव हि तस्याः तीव्रतराशुभ- 15 परिणामे सामर्थ्याभावः तथा उत्कृष्टशुभपरिणामेऽपि / उत्कृष्टशुभपरिणामेन च मुक्तिः / एतेन 'विषमगतयोऽप्यधस्तात्' इत्याद्यपि" प्रतिव्यूढम् ; प्रकृष्टगतिप्रारम्भहेतुभूतकर्मोपार्जनसमर्थस्यैव मुक्तियोग्यतोपपत्तेः न तद्विपरीतस्य / श्रूयते हि प्रतिनियताऽवान्तरगतिप्रारम्भककर्मवशात् प्रतिनियतोत्पादस्थानानामपि नारकाणां क्षपितकर्मणां तिर्यग्लोके सर्वेषामपि नियमतः 'संज्ञिपञ्चेन्द्रियेषु तिर्यक्षु मनुष्येषु चोत्पादः, देवानाञ्च 20 तथाविधकर्मवशात् प्रतिनियतोपपादस्थानोत्पन्नानां तिर्यग्लोक एव तेषु एकेन्द्रियेषु च (1) तन्मते हि अवयवायविनोः कथञ्चित्तादात्म्याभ्युपगमात् / (2) श्वेताम्बरस्य / (3) एकार्थसमवायसिद्धेः / (4) एकार्थसमवायात्। (5) सप्तमपृथिवीगमनसामर्थ्य-मक्तिगमनसामर्थ्ययोश्च / (6) स्त्रीषु। (7) निर्वाणकारणाभावाच्च / (8) पृ० 866 पं० 20 / (9) पृ० 867 पं० 2 / (10) दिग्विजययात्रासमये / (11) पृ० 867 पं० 4 / (12) णिरयादो निस्सरिदो णरतिरिए कम्मसण्णिपज्जत्ते / गब्भभवे उप्पज्जदि सत्तमपुढवीदु तिरिए व ॥"-त्रिलोकसा० गा० 203 / "णेरयियाणं गमणं सण्णीपज्जत्तकम्मतिरियणरे / चरमचऊ तित्थूणे तेरिच्छे चेव सत्तमिया ॥"-कर्मका० गा०५३८। (13) संज्ञिपञ्चेन्द्रियेषु तिर्यक्षु मनुष्येषु च / “आहारगा दु देवे देवाणं सण्णिकम्मतिरियणरे। पत्तेयपुढविआऊबादरपज्जत्तगे गमणं // भवणतियाणं एवं तित्थूणणरेसु चेव उप्पत्ती। . ईसाणंताणेगे सदरदुगंताणसणीसु ॥"-कर्मका० गा० 542-43 / 1 समवेता न तत्रैव मुक्तिगमनायोग्यतापि ब०। 2 निर्हेतुककार्य-श्र० / 8 ततो युक्तमुक्तम् ब०। 4-शरीरेषु ब०, श्र०। 6-णामप्राप्ते च ब०। 6 यथाविध-आ० / -नियतस्थानो-आ०, नियतोत्पादस्थानो-ब० /