________________ 870 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० इत्याद्यागमश्च स्त्रीनिर्वाणे प्रमाणम् / ____ अथ अत्र स्त्रीशब्देन स्त्रीवेदो गृह्यते; कथमेवमपि स्त्रीणां निर्वाणनिषेधः ? यथैव हि स्त्रीवेदेन पुंसः सिद्धिः तथा स्त्रीणामपि स्यात्, भावो हि सिद्धेः कारणम् / किञ्च, द्रव्यतः पुरुषः भावतः स्त्रीरूपो भूत्वा यथा निर्वाति तथा द्रव्यतः 5 स्यपि भावतः पुरुषो भूत्वा किन्न निर्वाति अविशेषात् ? न च सिद्धयतो वेदः संभवति, अनिवृत्तिबादरसाम्पराये एव अस्य परिक्षयात् / अथ भूतपूर्वगत्या क्षपकश्रेण्यारोहणं येन वेदेन करोति तेनासौ मुक्तः इत्युच्यते; ननु किमनेन उपचारेण स्त्रिया एव स्तनप्रजननधर्मादिमत्या निर्वाणमस्तु इति // छ / अत्र प्रतिविधीयते / यत्तावदुक्तम्- 'अविकलकारणत्वात्' इत्यादि; तत्र अविकल10 द्रव्यस्त्रीणां तद्भवनि- कारणत्वमसिद्धम् ; तत्कारणं हि रत्नत्रयम् , तत्किं परमप्रकर्षप्राप्त र्वाणप्राप्तिनिरसनम्- सत् तत्कारणं स्यात् , तन्मानं वा ? यदि तन्मात्रम् ; तैदा गृहिणामपि निर्वाणप्रसङ्गः। अथ परमप्रकर्षप्राप्तम् ; तन्न; तत्र तस्य परमप्रकर्षप्राप्तत्वाऽनुपपत्तेः। तथाहि-निर्वाणकारणज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्वात् , सप्तमपृथिवीग मनकारणाऽपुण्यपरमप्रकर्षवत् / तथा चेदमयुक्तम्-'अदृष्टे विरोधप्रतिपत्तेरनुपपत्तेः' 15 इत्यादि / प्रत्यक्षतो हि अदृश्यस्यार्थस्य विरोधःप्रतिपत्तुमशक्यो न तु अनुमानादितोऽपि, अन्यथा कथं सप्तमपृथिवीगमनकारणाऽपुण्यपरमप्रकर्षस्यापि तत्र विरोधप्रतिपत्तिः स्यात् ? यदप्युक्तम्-'सप्तमपृथिवीगमनाभावस्य निर्वाणाभावेनाऽव्याप्तेः' इत्यादि; तदप्ययुक्तम् ; अकार्यकारणस्यापि कृत्तिकोदयात् शकटोदयादेः प्रतिपत्तिदर्शनात् / अविना भावो हि गम्यगमकभावे निबन्धनं न कार्यकारणत्वादि, सं चात्र अस्त्येव / न खलु 20 तादात्म्यतदुत्पत्त्योरेव अविनाभावो नियतः; कृत्तिकोदयादेः शकटोदयादिकं प्रत्यगम कत्वप्रसङ्गात् इति / एतच्च सौगतोपकल्पितव्याप्तिविचारावसरे संप्रपञ्चं प्रपश्चितम् / अतश्च 'सप्तमपृथिवीगमनादेः निर्वाणं प्रत्यकारणत्वादव्यापकत्वाच्च' इत्यादि प्रत्युक्तम् / कथञ्चैववादिनो अर्वाग्भागाभावात् परभागाभावो निश्चीयेत, अनयोः तादाम्यतदुत्पत्तिलक्षणप्रतिबन्धासंभवात् ? अथात्र एकार्थसमवायः सम्बन्धोऽस्ति तस्मा (1) "न च पुदेहे स्त्रीवेदोदयभावे प्रमाणमङ्गञ्च / भावः सिद्धौ पुवत् पुमां अपि (पुसोऽपि) न सिद्धयतो वेदः // क्षपकश्रेण्यारोहे वेदेनोच्येत पूर्ववेदेन / स्त्रीति नितराममुख्ये मुख्येऽर्थे युज्यते नेतराम् ॥"-स्त्रीमु० श्लो० 39-40 / (2) वेदस्य। (3) पृ० 8655013 / (4) स्त्रीषु / (5) 'मोक्षहेतुज्ञानादिपरमप्रकर्षः..."-प्रमेयक० पृ० 328 / (6) पृ०८६६ पं०१०। (7) पृ०८६६ पं०१५ / (8) अविनाभावः। (9) पृ० 446 / (10) अग्भिागाभावपरभागाभावयोः / (11) एकस्मिन्नेव भित्त्याख्ये अवयविनि अर्वाग्भागपरभागाख्ययोः अवयवयोः समवायात् तयोः परस्परमेकार्थसमवायः समस्त्येव / 1 इत्यागम-श्र० / 2 -बादरसंपराय-आ०। 3 'तदा' नास्ति आ०, श्र०। 4 :-प्रतिपत्तेरित्यादि आ०। 5 अदृश्यार्थस्य ब०।