________________ प्रवचनप्र० का० 76] स्त्रीमुक्तिवादः 69 अपि अहिंसकत्वं स्यादविशेषात् / तदुक्तम् "जियदु य मरुदु अ जीवो अयदाचारस्स णिच्छिदा हिंसा / पयदस्स णत्थि बैन्धो हिंसामेत्तेण समिदस्स // " [प्रवचनसा० 3 / 17 ] न च पुरुषैरवन्द्यत्वात् स्त्रीणां मोक्षाभावः; गणधरादिभिर्व्यभिचारात्, ते हि नाहदादिभिर्वन्द्यन्ते अथ च मुच्यन्ते। ततो रत्नत्रयमेव तत्कारणं न वन्द्यत्वमवन्द्यत्वं वा। / न च मायाबाहुल्यात्तासां निर्वाणाभावः; पुंसामपि तद्बाहुल्यसद्भावात्। मोहोदयो हि तत्कारणम् , स च उभयोरप्यविशिष्टः / न च ही सत्त्वाः स्त्रियः ततो न निर्वान्ति इत्यभिधातव्यम् / यतः सत्त्वं तपःशीलसाधारणम् इह एष्टव्यम् नान्यत्, तस्य निर्वाणं प्रत्यनङ्गत्वात् / तच्च आर्यासु सुप्रसिद्धमेव / उक्तञ्च 10 “गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवत्तया जगति / सीतादयः कथं तास्तपसि विशीला विसत्ताश्च // " [स्त्रीमु० श्लो० 31] तथा- "अबै(४)सयमेगसमये पुरुसाणं णिव्वुदी समक्खादा / थीलिंगेण य वीसं सेसा दसक त्ति बोधव्वा // " [ ] (1) “मरदु व जियदु जीवो"-प्रव० / उद्धृतोऽयम्-सर्वार्थसि० 7 // 13 // मियतां वा जीवतु वा जीवो अयताचारस्य निश्चिता हिंसा। प्रयतस्य नास्ति बंधो हिंसामात्रेण समितस्य / (2) "अप्रतिवन्द्यत्वाच्चेत्संयतवर्गेण नार्यिकासिद्धिः / वन्दतां ता यदि ते नोनत्वं कल्प्यते तासाम् // सन्त्यूना: पुरुषेभ्यस्ताः स्मारणचारणादिकारिभ्यः / तीर्थकराऽऽकारिभ्यो न च जिनकल्पादिरिति गणधरादीनाम् / अर्हन् न वन्दते न तावताऽसिद्धिरंगगतेः / प्राप्तान्यथा विमुक्तिः स्थानं स्त्रीपुंसयोस्तुल्यम् ॥"-स्त्रीमु० श्लो० 24-26 / “अथ महाव्रतस्थपुरुषावन्द्यत्वात् न तासां मुक्त्यवाप्तिः, तर्हि गणधरादेरपि अर्हदवन्द्यत्वात् न मुक्त्यवाप्तिः स्यात् ।"-सन्मति० टी० पृ० 754 / रत्नाकराव० 757 // षड्द० बृह० श्लो० 52 / शास्त्रवा० यशो० पु० 429 A. / युक्तिप्र० पृ० 114 / (3) "मायादिः पुरुषाणामपि द्वेषादिप्रसिद्धभावश्च / षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि ॥"-स्त्रीमु० श्लो० 28 / रत्नाकराव० 757 / षड्द० बृह० श्लो० 52 / "चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वश्रवणात् ।"-शास्त्रवा० यशो० पृ० 427A. / (4) “स्त्री नाम मन्दसत्त्वा उत्सङ्गसमग्रता न तेनात्र / तत्कथमनल्पवृत्तयः सन्ति हि शीलाम्बुधेर्वेलाः / / ब्राह्मीसुन्दर्यार्या राजीमती चन्दना गणधरान्या। अपि देवमनुजमहिताः विख्याताः शीलसत्त्वाभ्याम् ।।"-स्त्रीम० श्लो० 29.30 / षड्द० बह० श्लो०५२। (5) तपःशीलव्यतिरिक्तस्य / (6) ...."शीलवतितमा जगति ।तपसि विसत्त्वा विशीलाश्च ।"-स्त्रीम०। (7) "अत्रैवार्थे विशेषान्तरप्रतिपादिकाः प्रक्षेपगाथा:-विसित्थिगाउ पूरिसा अट्ठसयं एगसमयओ सिज्झे। दस चेव नपुंसा तह उवरिं समएण पडिसेहो। एकस्मिन् समये उत्कर्षतः स्त्रियो विंशतिः सिध्यन्ति / पुरुषा अष्टशतमष्टाधिकं शतम्। तथा समयेनकेन नपुसका दर्शव सिध्यन्ति / उक्तसंख्याया उपरि सर्वत्रापि प्रतिषेधः ।"-बृहत्सं०, मलय० गा०३४७ / "अष्टशतमेकसमये पुरुषाणामादिरागमः ( माहुरागमे) सिद्धिः ( सिद्धम् ) / स्त्रीणां न मनुष्ययोगे गौणार्थो मुख्यहानिर्वा।"-स्त्रीमु० श्लो० 35 / 1 बोसो ब०। 2-मित्तेण ब०। 3 अथ मुच्य-श्र०। 4 आर्यासु सिद्धमेव ब.। 5 अठसमय-श्र०, अद्वसय-ब० / 6 समदा ब०, समखादा आ० / 7-कंति श्र० /