________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० भावात् / "श्रूयन्ते हि अनन्ताः सामायिकमात्रसंसिद्धाः” [तत्त्वार्थभा० सम्बन्ध का० 27(?) ] यदि च स्त्रीणां यथा वादाद्यतिशयाः तपोविभवजन्मानो नै संभवन्ति तथा मोक्षोपि न स्यात् ; तदा आगमे तदतिशयाभाववत् मोक्षाभावोऽध्युच्येत / न ह्यस्य परिशेषणे किञ्चिन्निबन्धनं पश्यामः / अथ स्त्रीणां वैषलक्षणपरिग्रहसद्भावान्न मोक्षः; तर्हि मोक्षार्थित्वात् किन्न तत् ताभिः परित्यज्यते ? न खलु वस्त्रं प्राणाः, तेऽपि हि मुक्त्यर्थिना परित्यज्यन्ते किं पुनर्न वस्त्रम् ? अथ “नो कैप्पइ णिग्गथीए अचेलाए होतए' [कल्पसू० 5 / 20 ] इत्यागमविरोधः तस्याः तत्परित्यागे; तर्हि प्रतिलेखनवत् मुक्त्यङ्गमेव तत्स्यात् / यथैव हि सर्वज्ञैः मोक्षमार्गप्रणायकैः उपदिष्टं प्रतिलेखनं मुक्त्यङ्गं भवति न पुनः परिग्रहः तथा वस्त्रम10 प्यविशेषात् / यदि च धर्मसाधनानां सूत्रविहितानां परिग्रहत्वं स्यात् तदा पिण्डौषधि शय्यादीनामपि वस्त्रवत् परिग्रहत्वं स्यात् तथा च तदुपायिनां मोक्षाभावः स्यात् / सत्यपि वस्त्रे मोक्षाभ्युपगमे गृहिणां कुतो न मोक्षः इति चेत् ? ममत्वसद्भावात् / नहि गृही वस्त्रे ममत्वरहितः / ममत्वमेव च परिग्रहः / सति हि ममत्वे नग्नोऽपि परिग्रहवान् भवति / आर्यिकायाश्च ममत्वाभावाद् उपसर्गाद्यासक्तमिव अम्बरमपरिग्रहः / नहि यतेरपि 15 ग्रामं गृहं वा प्रविशत: कर्म नोकर्म च आददानस्य अपरिग्रहत्वे अममत्वादन्यत् शरणमस्ति / ___ अथ वस्त्रे जन्तूत्पत्तेः हिंसासद्भावतः चारित्रस्यैवाऽसंभवात् कथं मोक्षप्राप्तिः ? तन्न; प्रमादाभावे हिंसाऽनुपपत्तेः / प्रमादो हि हिंसा / “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" [तत्त्वार्थसू० 7 / 63] इत्यभिधानात् / अन्यथा पिण्डौषधिशय्यादौ यतेरपि हिंसकत्वं स्यात् / अहंदुक्तेन यत्नेन सञ्चरतोऽस्य प्रमादाभावादहिंसकत्वे आर्यिकाया (1) "श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः"-तत्त्वार्थभा० / “अनन्ताः सामायिकमात्रसिद्धा इति वचनात्"-राजवा० पृ० 10 / (2) “यदि वस्त्रादविमुक्तिः; त्यजेत्तद्, अथ न कल्पते हातुम् / उत्सङ्गप्रतिलेखनवदन्यथा देशको दृष्येत। त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि / वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपीति चुत्यादौ / यत्संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् / / धर्मस्य हि तत्साधनमतोऽन्यदधिकरणमाहाहन ॥"-स्त्रीमु० श्लो०१०-१२। रत्नाकराव० 757 / षड्द० बृह० श्लो० 52 / (3) वस्त्रम्। (4) प्राणा अपि। (5) “नो कप्पइ निग्गन्थीए अचेलियाए होत्तए"-कल्पसू। न कल्प्यते निर्ग्रन्थ्या अचेलया भवितुम् / (6) "विहियं सुए च्चिय जओ धरेज्ज तिहि कारणेहिं वत्थं ति / तेणं चिय तदवस्सं निरतिसएणं धरे अव्वं // जिणकप्पाजोग्गाणं हीकच्छुपरीसहाजओऽवस्सं / हीलज्ज त्ति व सो संजमो तदत्थं विसेसेणं॥" -विशेषा० गा० 2602-3 / सन्मति० टी० पृ० 748 / (7) 'मूर्छा परिग्रहः"-तत्त्वार्थसू० 7.17 // "मुच्छा परिग्गहो वुत्तो"-दश० 6 / 21 / (8) “संसक्तौ सत्यापि चोदितयत्नेन परिहरत्यार्या / हिंसावती पुमानिव न जन्तुमालाकुले लोके ॥"-स्त्रीमु० श्लो० 15 / “प्राणातिपातपरिणामाभावात्" -शास्त्रवा० यशो० पृ० 427 B. 1 श्रूयते हि ब०, श्र० / 2 सामयिकमात्र-आ०। 8 न सन्ति आ०, ब०। 4-णां च वस्त्रश्र०।। पुनर्नच वस्त्रं श्र०। 6 कंपदि ब०, श्र०।ा होताए ब०, श्र०। एतदन्तर्गत: पाठो नास्ति श्र०। 8 अम्बरमविग्रहः आ019-था हि पि-श्र०1 10 अहंदक्तयत्नेन श्र०। 11 आर्यिकायामपि आ०।