________________ प्रवचनप्र० का० 76] केवलिकवलाहारविचारः 856 इत्युच्यतामविशेषात् / तन्न शरीरस्थितेरपि भगवतो वेद्याद्युदयात् क्षुदुदयः कवलाहारप्रसाधनसमर्थः प्रत्येतुं शक्यः / __ असिद्धश्च अविकलकारणत्वं भुक्तेः, मोहनीयसहायं हि वेद्यादिकर्म क्षुदादिकार्यकरणेऽविकलसामर्थ्य भवति, नान्यथा अतिप्रसङ्गात् / यथैव हि पतिते सैन्यनायके असामर्थ्य सैन्यस्य, तथा मोहनीये विनष्टे अघातिकर्मणामिति। यथा च निर्विषीकृत्य मन्त्रिणा 5 उपयुज्यमानमपि विषं न दाहमूर्छादि कत्तुं समर्थम् तथा शुक्लध्यानानलनिर्दग्धमोहोदयं वेद्यादि क्षुधादिकमिति / प्रयोगः-भगवति बुभुक्षा नास्ति, तत्कारणमोहाभावात्, यत्र यत्कारणाभावो न तत्र तत्कार्यम् यथा अनग्निप्रदेशे धूमः, नास्ति च अर्हति मोह इति / किञ्च, कर्मणामुदयो यद्यनपेक्षः कार्यमुत्पादयेत्, तर्हि त्रिवेदानां कषायाणां वा प्रमत्तादिषु उदयोऽस्ति इति मैथुनं भ्रफुट्यादि कञ्च स्यात् , ततश्च मनसः सङ्कोभात् कथं 10 शुक्लध्यानावाप्तिः क्षेपकश्रेण्यारोहणं वा यतः कर्मक्षपणा स्यात् ? नन्वेवं नामाादयोऽपि तत्र स्वकार्यकारी न स्यात् ; इत्ययुक्तम् ; शुभप्रकृतीनां तत्र अप्रतिबद्धत्वेन स्वकार्यकारित्वोपपत्तेः / यथैव हि बलवता राज्ञा स्वमार्गानुसारिणा लब्धे देशे दुष्टा जीवन्तोऽपि न स्वदुष्टाचरणविधातारः सैंजनास्तु अप्रतिहततया स्वकार्यस्य विधातारः, तथा प्रकृतमपि। कथं पुनरशुभप्रकृतीनामेव अर्हति प्रतिबद्धं सामर्थ्य न पुनः शुभप्रकृतीनामिति चेत् ? 15 उच्यते-अशुभप्रकृतीनामर्हन् अनुभाग घातयति न तु शुभप्रकृतीनाम् , यतो गुणघातिनां दण्डो नाऽदोषाणाम् / यदि च प्रतिबद्धसामर्थ्यमप्यसातावेदनीयं स्वकार्यकारि स्यात् तर्हि दण्डकपाटादिविधानं भगवतो व्यर्थम् / तद्धि यदा न्यूनमायुः वेदनीयादिकमधिकस्थितिकं भवति तदा तेन कर्मणां समस्थित्यर्थं विधीयते / नच अधिकस्थितिकत्वेन फलदानसमर्थं कर्म 20 उपायशतेनापि अन्यथा कत्तुं शक्यमिति न कश्चिन्मुक्तः स्यात् / अथ तपोमाहात्म्यात् (1) "धादि व वेयणीयं मोहस्स बलेण घाददे जीवं ।"-गो० कर्मका० गा० 19 / “मोहनीयकर्मसहायस्यैव वेदनीयस्य बुभुक्षोत्पादने सामर्थ्यात् ।"-रत्नक० टी० पू०६। प्रमेयक० पू० 303 / "यथैव ब्रीह्यादिबीजं जलसहकारिकारणसहितमङ्करादिकार्य जनयति तथैवासद्वेद्यकर्म मोहनीयसहकारिकारणसहितं क्षुधादिकार्यमुत्पादयति ।"-प्रव० टी० पृ०२८। (2) “यदि मोहाभावेऽपि क्षुधादिपरीषहं जनयति तर्हि वधरोगादिपरीषहमपि जनयतु, न च तथा ।"-प्रव० टी० पृ० 280 प्रमेयक० 10 303 / (3) “शुभप्रकृतीनां तत्राप्रतिबद्धत्वेन .. "-प्रमेयक० पृ० 303 / (4) "हन्तेर्गमिक्रियत्वात् संभूयात्मप्रदेशानां च बहिरुद्गमनं समुद्धातः / .. वेदनीयस्य बहुत्वादल्पत्वाच्चायुषोनाभोगपूर्वकमायुःसमीकरणार्थ द्रव्यस्वभावत्वात् सुराद्रव्यस्य फेनवेगबुबुदाविर्भावोपशमनवद्देहस्थात्मप्रदेशानां बहिः समुद्धातनं केवलिसमुद्धातः ।"-राजवा० पृ० 53 / "मूलसरीरमछंडिय उत्तरदेहस्स जीवपिडस्स / णिग्गमणं देहादो होदि समुग्धादणामं तु।"-जीवका० गा० 667 / / 1-ष्टे घातिकर्म-ब०, आ012 उपभुज्यमा-ब०।-मोहसहायं आ०, श्र०। 4 च श्र०। 5 क्षपणश्रे-आ016-त्वेन कार्य-ब017 सुजना अप्र-ब018-बद्धसाम-ब०19 दण्डप्रतरादिवि-ब०,०॥