________________ 858 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० कृतां केशकलापस्य गुरुलघुभावेन विलक्षणस्य उपलब्धेः / ततो घातिकर्मक्षयावस्थायां यस्य यावन्तो नखकेशाः तस्य तावन्त एवाऽवतिष्ठन्ते इति / केवल्यवस्थायां घातिक्षयजो यथा तच्छरीरस्थितौ केशादिवृद्ध्यभावलक्षणोऽतिशयोऽस्ति तथा तद्भुक्त्यभावल क्षणोऽप्यस्तु अविशेषात्। छद्मस्थावस्थावच्चास्य भुक्त्यभ्युपगमे अक्षिपक्ष्मनिवेशः (मेषः) 5 नखकेशवृद्ध्यादिश्चाभ्युपगम्यताम् / तदभावातिशयाभ्युपगमे वा भुक्त्यभावातिशयोऽप्य भ्युपगन्तव्यो विशेषाभावात् / तपोमाहात्म्यात् चतुरास्यत्वादिवच्च अभुक्तिपूर्वकत्वेऽपि शरीरस्थितेर्न कश्चिद्विरोधः। दृश्यते हि पञ्चकृत्वो भुञ्जानस्य यादृशी शरीरस्थितिः तादृश्येव प्रतिपक्षभावनोपेतस्य चतुस्त्रिव्येकभोजनस्यापि, तथा प्रतिदिन भुञ्जानस्य यादृशी सा तादृश्येव एकद्व्यादिदिनान्तरितंभोजिनोऽपि / श्रूयते च / बाहुवलिप्रभृतीनां संवत्सरप्रमिताहारवैकल्येऽपि विशिष्टा शरीरस्थितिः / आयुःकर्मैव हि प्रधानं तत्स्थितेनिमित्तम् , भुक्त्यादिकं तु सहायमात्रम् / तच्छरीरोपचयोऽपि लाभान्तरायप्रक्षयात् प्रतिसमयं तदुपचयनिमित्तभूतानां दिव्यपरमाणूनां लौभाद् घटते / ननु मासं वर्ष वा तदभावे तत्स्थितावपि नाकालं तत्स्थितिः पुनः तदाहारे प्रवृत्तिप्रतीतेरिति चेत् ; कुतः तस्थितेः आकालमप्रतीतिः-प्रत्यक्षतः, अनुमानाद्वा ? यदि 15 प्रत्यक्षतः; सर्वज्ञवीतरागाय दत्तो जलाञ्जलिः तद्वत् ततः तदप्रतीतेरप्यविशेषात् / अनुमा नात् तत्सिद्धिरन्यत्राप्यविशिष्टा / यथैव हि 'ज्ञानप्रकर्षः दोषावरणापकर्षश्च कचित् परमप्रकर्षमापद्यते प्रकृष्यमाणत्वात् परिमाणवत्' इत्युच्यते; तथा 'एकड्यादिदिनान्तरितभोजिनाम् अमुक्तिपूर्वको देहस्थितिप्रकर्षः कचित् परमकाष्ठामापद्यते तत्त्वात् तद्वदेव' (1) केवलिनः / (2) "तपोमाहात्म्याच्चतुरास्यत्वादिवच्चास्याभुक्तिपूर्वकत्वे तस्याः को विरोधः ?"-प्रमेयक० पृ०३०२। (3) द्रष्टव्यम्-पृ० 856 टि० 3 / "लाभान्तरायस्याशेषनिरासात परित्यक्तकवलाहारक्रियाणां केवलिनां यतः शरीरबलाधानहेतवोऽन्यमनुजासाधारणाः परमशुभाः सूक्ष्माः अनन्ताः प्रतिसमयं पुद्गलाः सम्बन्धमुपयान्ति स क्षायिको लाभः / तस्मादौदारिकशरीरस्य किञ्चिन्त्यनपूर्वकोटिवर्षस्थिति: कवलाहारमन्तरेण कथं संभवतीति यद्वननं तदशिक्षितकृतं विज्ञायते।" -राजवा०२।४। “लाभान्तरायक्षयाल्लाभः परमशुभपुद्गलादानलक्षणः परमौदारिकशरीरस्थितिहेतुः।" -तत्त्वार्थश्लो०१० 314 / प्रमेयक० ए० 302 / (4) "मासं वर्ष वापि च तानि शरीराणि तेन भुक्तेन / तिष्ठन्ति न चाकालं नान्यथा पूर्वमपि भुक्तिः ॥"-केवलिभु० श्लो० 22 / स्या० र० पृ० 480 / (5) "विपक्षभावनावशाद् रागादीनां हान्यतिशयदर्शनात् केवलिनि तत्परमप्रकर्षसिद्धेः वीतरागतासंभवे भोजनाभावपरमप्रकर्षोऽपि तत्र किन्न स्यात् ? तद्भावनातो भोजनादावपि हान्यतिशयदर्शनाविशेषात् / तथाहि एकस्मिन् दिने योऽनेकवारान् भुङ्क्ते कदाचित् विपक्षभावनावशात् पुनरेकवारं भुक्ते, कश्चित्पुनरेकदिनाद्यन्तरितभोजनः, अन्यः पुनः पक्षमाससंवत्सराद्यन्तरितभोजन इति ।"-रत्नक० टी० पृ० 6 / प्रमेयक० पृ० 302 // 1 केवलाव-ब०,१०। 2-णातिश-श्र०। 3 भुक्त्युपगमे ब०। 4-तिशयोऽभ्युप-आ०। 5-दिनं भोजनं भुजा-ब०। 6-भोजनोऽपि श्र। 7-तेः श्र०। 8 कुतस्तत्रस्थि-आ। 9 ततः तत्प्रती-आ०।