________________ 857 प्रवचनप्र० का० 76 ] केवलिकवलाहारविचारः कवलाहारप्रसाधनाऽसमर्थोऽपि तदुदयः तत्र समर्थो भवतीति ! किञ्च, 'तत्र तदुदयः तत्साधनसमर्थः' इत्येतत् कुतः प्रतिपन्नम्-अभ्युपगममात्रात् , प्रमाणतो वा ? यदि अभ्युपगममात्रात्; अतिप्रसङ्गः, सर्वस्य स्वेष्टतत्त्वसिद्धिप्रसङ्गात् / अथ प्रमाणतः; किमत्र प्रमाणम्-प्रत्यक्षम्, अनुमानम्, आगमो वा ? प्रत्यक्षश्चेत् ; किम् ऐन्द्रियम् , अतीन्द्रियं वा ? न तावदैन्द्रियम् ; तस्य अशेषज्ञाहार- 6 निहाराऽगोचरत्वाभ्युपगमात्, अन्यथा "अाहारा य निहारा केवलिणो पच्छन्ना" [ ] इत्यागमविरोधः / 'अतीन्द्रियं तु तत्तत्र प्रवर्त्तते' इत्यत्र कोशपानं विधेयम् / अथानुमानम् ; किमत्र लिङ्गम्-तदुदय एव, मनुष्यत्वम् , देहस्थितित्वं वा ? न तावत्तदुदय एव; अस्य त्रिदशादिभिर्व्यभिचारप्ररूपणात् / नापि मनुष्यत्वम् ; अयोगकेवलिना अनेकान्तात् / अथास्य मनुष्यप्रकृत्यतिक्रान्तत्वात् नोऽनेन अनेकान्तः; 10 तर्हि असिद्धो हेतुः, सयोगकेवलिनोऽपि तद्वत्तदतिक्रान्तत्वात् / तदुक्तम्"मानुषीं प्रकृतिमभ्यतीतवान् देवतास्वपि च देवता यतः // " [बृहत्स्व० अनन्त० श्लो० 75 ] इति / नापि देहस्थितित्वम् ; तथाहि-'भगवतो देहस्थितिः आहारपूर्विका देहस्थितित्वात् अस्मदादिदेहस्थितिवत्' इत्यत्र प्रयोगे किम् आहारमात्रपूर्वकत्वं तत्स्थितेः प्रसाध्येत, 15 कवलाहारपूर्वकत्वं वा ? प्रथमपक्षे 'सिद्धसाध्यता' इत्युक्तम् / द्वितीयविकल्पे तु त्रिदशादिभिर्व्यभिचारः, तेषां कवलाहाराभावेऽपि देहस्थितिसंभवात् / अथ 'औदारिकैशरीरस्थितित्वात्' इति विशिष्य उच्यते ततो न व्यमिचार:; तन्न; तदीयौदारिकशरीरस्थितेः परमौदारिकशरीरस्थितिरूपतया अस्मदाद्यौदारिकशरीरस्थितिविलक्षणत्वात् / तस्याश्च केवल्यवस्थायां केशादिविवृद्धभाववत् तद्भुक्तथभावोऽविरुद्ध एव। 20 अथ तेंवृद्ध्यभावो 'देवोपनीतः न घातिकर्मक्षयजः येन तद्वत् केवल्यवस्थायां तद्भुक्त्यभावोऽप्यापायेत, बालोत्पाटनानन्तरं हि इन्द्रो वजं नखकेशेषु भगवतो भ्रामयति अतस्तवृद्ध्यभाव इति; तदयुक्तम् ; वज्रप्रभावतः तेषां मूलतोऽप्युत्थानाभावप्रसङ्गात्, सर्वतीर्थकृतामेकादृशकेशादिप्रतीतिप्रसङ्गाच्च, न चैवम् , ऋषभादितीर्थ (1) वेद्यादिकर्मोदयः / (2) केवलिनि कवलाहारसाधनसमर्थः / (3) कवलाहारसाधनसमर्थः / (4) "पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा।"-समवा० सू० 34 / (5) प्रत्यक्षं अशेषज्ञाहारसाक्षात्करणे / (6) अयोगिवन्मनुष्यप्रकृत्यतिक्रान्तत्वात्। (7) "एरिसगुणेहिं सव्वं अइसयवंतं सुपरिमलामोयं / ओरालियं च कायं णायव्वं अरहपुरिसस्स ॥"-बोधप्रा० गा० 39 / “तद् भगवतः शरीरमौदारिकं न भवति किन्तु परमौदारिकम्-शुद्धस्फटिकसंकाशं तेजोमूर्तिमयं वपुः / जायते क्षीणदोषस्य सप्तधातुविवर्जितम्।"-प्रव० टी० पृ० 28 / (8) परमौदारिकशरीरस्थितेः / (9) केशादिवृद्धयभावः / “अवट्ठिए केसमंसुरोमनहे"-समवा० सू० 34 / 1तुन प्रवर्तते ब०। 2 नानेकान्तः ब०, न तेनानेकान्तः श्र०। -कस्थितित्वात श्र० / 4 केशादिवृद्धघ-श्र०,ब015 दोषापनीतःब०। 6 घातिक्षयजःब०.१०। 7 बालोत्पादानन्तरं आ०,श्र०।