________________ 860 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० 'निर्जीर्णम् अधिकस्थितिकत्वेन फलदानाऽसमर्थम् आयुःकर्मसमानं कर्म क्रियते, तथा वेद्यमपि तदानासमर्थं क्रियतामविशेषात् / नच कारणमस्ति इत्येतावतैव कार्योत्पत्तिः, अन्यथा इन्द्रियादिकार्यस्याप्यनुषङ्गात् भगवतो मतिज्ञानस्य रागादीनाश्च प्रसङ्गः / अथ आवरणक्षयोपशमस्य मोहनीयकर्मणश्च सहकारिणो विरहात् नेन्द्रियादि स्वकार्यं कुर्यात् ; / अत एव वेदनीयमप्यविशेषात् / न चेयं बुभुक्षा मोहनीयानपेक्षस्य वेदनीयस्यैव कार्यम् येन अत्यन्तप्रक्षीणमोहेऽपि स्यात् ; तथाहि-बुभुक्षा मोहनीयानपेक्षस्य वेदनीयस्य कार्यन्न भवति इच्छात्वात् रिरंसावत्। भोक्तुमिच्छा हि बुभुक्षा, सा कथं वेदनीयस्यैव कार्यम् ? अन्यथा योन्यादिषु रन्तुमि च्छा रिरंसापि तत्कार्यं स्यात्, तथा च कवलाहारवत् स्न्यादावपि तत्प्रसङ्गात् नेश्वरा10 दस्य विशेषः / यथा च रिसंसा प्रतिपक्षभावनातो निवर्त्तते तथा बुभुक्षापि / प्रयोगः भोजनाकाङ्क्षा प्रतिपक्षभावनातो निवर्तते आकाङ्क्षात्वात् स्त्र्याद्याकाशावत् / नन्वस्तु तद्भावनाकाले तन्निवृत्तिः तदभावे तु प्रवृत्तिः पुनः स्यात् ; इत्येतत् स्याद्याकाङ्क्षायामपि समानम् / यथा चास्याः चेतसः प्रतिपक्षभावनामयत्वात् अत्यन्तनिवृत्तिः तथा भोजना काङ्क्षाया अपि, यथा च निर्मोहत्वेन स्च्याद्याकाङ्का विरुद्धा तथा बुभुक्षापि / तथा 15 च प्रयोगः-न बुभुक्षावान् केवली, तद्विरोधिनिर्मोहस्वभावोपेतत्वात्, यो यद्विरोधिस्व भावोपेतः नासौ तद्वान् यथा उष्णस्पर्शस्वभावोपेतः कश्चित् प्रदेशः न शीतस्पर्शवान , क्षुद्विरोधिनिर्मोहस्वभावोपेतश्च केवलीति / ___ एतेन इदमपि प्रत्युक्तम्-'प्रतिपक्षभावनातः क्षुधो निवृत्तौ क्षुद्वेदनाप्रतीकारार्थं शास्त्रे सैव उपदिश्येत न पिण्डैषणा' इत्यादि; चेतसो हि प्रतिपक्षभावनामयत्वसिद्धेः 20 प्राक् पिण्डैषणोपदेशात् , तन्मयत्वसिद्धौ तु कामवेदनानिवृत्तिवत् निःशेषक्षुद्वेदनानिवृ त्तिसिद्धेः न किञ्चित् तद्वेदनाप्रतीकारार्थं द्रव्यान्तरैषणया ? अथ आकाङ्क्षारूपा क्षुन्न भवति तेन वीतमोहेपि अस्याः संभवः; कथमेवं रिरंसाया अपि अॅनाकाङ्क्षारूपायाः तंत्र संभवो न स्यात् ? अथ अनाकाङ्क्षारूपताऽस्याः प्रतीतिविरुद्धा; तदेतद् बुभुक्षायामपि समानम् / अस्तु वाऽनाकाङ्क्षारूपत्वमस्याः; तथापि दुःखरूपत्वात् अनन्तसुखे भगवत्य25 संभवः, यद् दुःखरूपं न तत्तत्र संभवति यथा कामपीडादि, दुःखरूपा च क्षुदिति / (1) "भोक्तुमिच्छा हि बुभुक्षा, सा मोहनीयकार्यत्वात् कथं प्रक्षीणमोहे भगवति स्यात् अन्यथा रिरंसाया अपि तत्र प्रसंगात् ।"-रत्नक० टी० पृ० 6 / प्रमेयक० पृ०३०४। (2) पृ०८५३ पं०१५। (3) आकाङक्षारूपत्वाभावात् / (4) केवलिनि / (5) रिरंसायाः। (6) 'क्षुत्पीडासंभवे चास्य कथमनन्तसौख्यं स्यात् यतोऽनन्तचतुष्टयस्वामिताऽस्य ।”-रत्नक० टी० पृ० 6 / 'यदि क्षुधा बाधास्ति तहि क्षुधा क्षीणशक्तेरनन्तवीर्य नास्ति, तथैव क्षुघा दुःखितस्य अनन्तसुखमपि नास्ति ।"प्रव० टी० पृ० 28 / प्रमेयक० पृ० 299 / 1-निर्जीणस्थितिक-आ012 आय:कर्म क्रियते श्र०13 तत एव श्र०14 मोहनीयनिरपेक्ष-ब। तथाहि चाबुभ-श्र०। 6 प्रवृत्तिः स्यात् श्र०17 अथ कांक्षारूपा आ०। 8 अस्यासंभवः श्र०, ब०।