________________ प्रवचनप्र० का० 76 ] केवलिकवलाहारविचारः 853 केवलिगता ज्ञानादयः प्रकर्षपर्यन्तप्राप्ताः तेषामेव क्षुधा विरोधः; तन्न; तथाप्रतिपतुमशक्तेः / नहि केवलिज्ञानादयः क्षुधं विरुन्धन्ति इति अर्वाग्दृशा प्रतिपत्तुं शक्यम् ; अतीन्द्रियत्वात्तेषाम् / किञ्च, अविकलकारणस्य भवतोऽन्यभावेऽभावात् विरोधगतिर्भवति शीतस्पर्शस्येव अग्निसन्निधौ। एतच्चात्र दुर्घटम्-केवलिगुणानामतीन्द्रियतया 'एतत्सन्निधौ क्षुन्न भवति' / इति प्रतीतेरनुपपत्तेः / तन्न विधीयमानात् कुतश्चित् तत्र क्षुधोऽभावसिद्धिः। निषिध्यमानश्च भावः तस्याः कार्यम् , कारणम् , व्यापको वा स्यात् ? यदि कार्यम् ; तदात्मनिर्वर्त्तनसमर्थाऽविकलकारणस्यैव तत् निवृत्तिमवगमयेत् न कारणमात्रस्य, अस्य कार्याभावेऽपि भावाविरोधात् / कारणमपि निवर्तमानं कार्यं निवर्त्तयति यथा वह्निधूमम् , व्यापकं वा निवर्तमानं व्याप्यम् यथा वृक्षः शिंशापाम् / न चात्र 10 क्षुधः कारणस्य. व्यापकस्य वा कस्यचिन्निवृत्तिरस्ति / नच मोहनीयादिकर्मचतुष्टयाऽभावात् क्षुधोऽभावः; तस्याः तत्कार्यत्वस्य तत्स्वभावत्वस्य वाऽसंभवात् / नहि क्षुत् तत्कर्मचतुष्टयकार्या; प्राक्प्रतिपादितबाह्याभ्यन्तरकारणप्रभवत्वात्तस्याः। प्रतिपक्षभावनाऽनिवर्त्यत्वेन मोहस्वभावत्वाऽसंभवाच्च; यो हि मोहस्वभावः स प्रतिपक्षभावनया निवर्त्यते यथा क्षमादिभावनया क्रोधादिः, मोहस्वभावा च क्षुद् भवद्भिरिष्टा इति / तथा च क्षुद्वेदनाप्रतीकारार्थं शास्त्रे प्रतिपक्षभावनैव उपदिश्येत न क्लेशभूयिष्ठध्यानाध्ययनविघातकारिणी पिण्डैषणा। शीतोष्णबाधातुल्यत्वाच्च क्षुधो न मोहस्वभावत्वम् , अन्यथा तद्वा (1) "अविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिः ।"-न्यायबि० पृ० 96 / (2) विरोधज्ञानम् / (3) “निषिद्धमानश्च भावस्तस्याः कार्य कारणं व्यापको वा स्यात् ।"-स्या० र० पृ० 473 / "किमेवं सति कवलाहारस्य व्यापकं कारणं कायं सहचरादि वा सार्वश्येन विरोधमधिवसेत।"रत्नाकराव० 2 / 27 / आध्यात्मिक० श्लो० 5 / (4) क्षुधः / (5) “यदि कार्यम् ; तदा तन्निवर्तमानम् आत्मनिर्वर्तनसमर्थाया एव क्षुधो निवृत्तिमवगमयेन्न तु सर्वथा, कारणमात्रस्य कार्याभावेऽपि भावाविरोधात् ।"-स्या० 20 पृ० 473 / (6) कारणमात्रस्य अनुकूलात्मनः / (7) "ज्ञानावरणीयादेानावरणादिकर्मणः कार्यम् / क्षुत् तद्विलक्षणास्यां न तस्य सहकारिभावोऽपि ॥"-केवलिभु० श्लो. 10 / “न हि क्षुन्मोहनीयकार्या वेदनीवप्रभवत्वात् ।"-स्या० र० पृ० 473 / (8) "न क्षुद विमोहपाको यत्प्रतिसंख्यानभावननिवा। न भवति, विमोहपाक: सर्वोऽपि हि तेन विनिवर्त्यः ॥"-केवलिभु० श्लो० 7 / स्या० र० पृ० 474 / शास्त्रवा० टी० पृ० 393 B. / आध्यात्मिक० पृ० 59 B. | "यतो मोहविपाका क्षुन्न भवति तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् / तथाहि कषायाः प्रतिकूलभावनया निवर्तन्ते "क्षुद्वेदनीयं तु रोगशीतोष्मादिवत् जीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्तते अतोन मोहविपाकस्वभावा क्षुदिति"-सूत्रकृ० शी० पु०३४६ A. / युक्तिप्र० पृ० 150 / (9) "शीतोष्णवाततुल्या क्षुत्तत् तत्प्रतिविधानकाङ्क्षा तु। मूढस्य भवति मोहात् तथा भृशं बाध्यमानस्य। शीतोष्णक्षुदुदन्यादयो हि ननु वेदनीय इति ।"-केवलिभु० श्लो. 8,13 / स्या० र० 10 474 / 1-यत्वात्सन्निधौ ब०। 2 भगवतीति आ०। तदात्मनिवर्तनसमर्थाविकल-श्र०। ' 4-भावे भावा-ब०। 5 निर्वय॑ते ब० /