________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० 10 धाया अपि मोहखभावत्वं स्यादविशेषात् / ननु भगवतः क्षुदभ्युपगमे अशेषज्ञत्वादिविरोधः, क्षुदुदये अस्मदादिवत्तत्र ज्ञानदर्शनचेष्टादेः प्रक्षयात् ; तदसमीचीनम् ; ज्ञानावरणादिप्रक्षये जातायामपि क्षुधि ज्ञानादिक्षयाऽयोगात्, तत्क्षयो हि ज्ञानावरणादिकर्मोदयनिबन्धनः / अतः अस्मदादौ 5 तेदुदयातिशयोत् तत्क्षयातिशयो युक्तः भगवति तु तदावरणादेरशेषस्यापगमात् सत्यामपि क्षुधि न ज्ञानादिक्षयः / नहि अग्न्यभावे सत्यपीन्धने धूमो भवति / तत्कर्मचतुष्टयप्रभवत्वे च क्षुधः “एकादश जिने क्षुत्पिपासादयः परीषहाः वेदनीयप्रभाः"[ ] इत्यागमविरोधः / नच उत्कर्षेण देशोनपूर्वकोटि विहरतः सयोगकेवलिनः तावत्कालं कायस्थितिः भुक्तिं विना घटते / अथ अनन्तवीर्यत्वात् ती विनाप्यस्य तत्स्थितिः; तर्हि आयुष्कर्मणापि विना तत्स्थितिप्रसङ्गात् न कदाचित् शरीराद्यपायः स्यात् इति मोक्षाय दत्तो जलाञ्जलिः। तत्स्थितेः आयुष्कर्मापेक्षणे वा आहारापेक्षणमप्यस्तु उभयस्यापि तत्कारणत्वाऽविशेषात् / किंञ्च, प्रदीपज्वालाजलधारासमानं शरीरम् , तत्र च यथा तैलक्षये न प्रदीपज्वालाऽवतिष्ठते जलागमनमन्तरेण वा जलधारा तथा शरीरमपि भुक्तथभावे न स्थितिमास्तिघ्नुते। . अंथ भुक्तिर्दोषः, यदुपवासादिप्रत्याख्यानं क्रियते, निर्दोषे च केवलिनि दोषो विरुद्धः; तर्हि निषद्या गमनश्च अर्हति न प्राप्नोति स्थानयोगादिना निषद्यादेः प्रत्याख्यानात् , वचनश्च न प्राप्नोति मौनव्रतिकोपलम्भात् / अथ मतम्-अंशेषज्ञस्य मांसादिकं पश्यतः कथं भुक्तिः अन्तरायोपपत्तेः? तद (1) "अनन्तं च सुखं भर्तुः ज्ञानादिगुणसंगतम् / क्षुधादयो न बाधन्ते पूर्ण त्वस्ति महोदये // " -द्वात्रि० 30 / 11 / जैनतर्कभा० पृ०८। (2) ज्ञानावरणोदयात्। (3) ज्ञानक्षयातिशयः / (4) "निरस्तघातिकर्मचतुष्टये जिने वेदनीयसभावात्तदाश्रया एकादश परीषहाः सन्ति अथवा एकादश जिने न सन्तीति वाक्यशेषः कल्पनीयः ।"-सर्वार्थसि०९।११। (5) "देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः / सूत्रोक्तमुपापादि न मुक्तिश्च न नियतकाला स्यात् ।"-केवलिभु० श्लो० 24 / सन्मति० टी०पू०६१३ / सूत्रकृ० शी० पृ० 346 B. / स्या०र० पृ०४८० / शास्त्रवा० टी०पू० 395 A. / (6) भुक्तिम् / (7) "आयुरिवाभ्यवहारो जीवनहेतुविनाभ्यवहृतेः / चेत्तिष्ठत्वनन्तवीर्ये विनायुषा कालमपि तिष्ठेत् // न ज्ञानवदुपयोगो वीर्ये कर्मक्षयेण लब्धिस्तु / तत्रायुरिवाहारोऽपेक्ष्येत न तत्र बाधास्ति ॥"-केवलिभु० श्लो०२०-२१ / स्या० र०पू० 480 / (8) "तैलक्षये न दीपो न जलागममन्तेरण जलधारा। तिष्ठति यथा तनोः स्थितिरपि न विनाहारयोगेन ॥"-केवलिभ० श्लो० 31 // स्या०र० पृ० 480 / (9) "भुक्तिर्दोषो यदुपोष्यते न दोषश्च भवति निर्दोषैः / इति निगदितो निषद्यार्हति न स्थानयोगादेः ॥"-केवलिभु० श्लो० 28 / स्या० र० पृ० 480 / (10) "परमावधेर्युक्तस्य छद्मस्थस्येव नान्तरायोऽपि / सर्वार्थदर्शनेऽपि स्यान्न चान्यथा पूर्वमपि भुक्तिः ॥"-केवलिभु० श्लो० 32 // स्था० र० पृ० 480 / 1-यान्नक्षयाति-ब०। 2-वति तदा-श्र। 3 कर्मचतु-ब। 4 इत्याद्यागम-ब० / 5-पर्वकोटिविह-ब०16 घटेत ब०।। तत्र यथा आ० 18 भक्ताभावे आ०19-मास्तिष्ठते ब०। 10 भुक्तिदोषा यदु-आ०।