________________ 852 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० नन्विदमस्ति-यदा भुक्तिः अविकलकारणा तदाऽसौ भवत्येव यथा छद्मस्थाव ___ स्थायाम् , तथाभूता चासौ सैयोगिकेवल्यवस्थायामिति / 'द्विविधं 'केवलिनः कवलाहारिणः इति ताव हि भुक्तः कारणम् -बाह्यम् आभ्यन्तरश्च / तत्र बाह्यम्-आहारादि, राणां यापनीयशाकटा- तत्तावदविकलमास्ते न तत्र विप्रतिपत्तिः / आभ्यन्तरमपि पर्याप्ति5 यनस्य च पूर्वपक्षः- वेद्य-तैजस-दीर्घायुष्कोदयलक्षणं भगवति अविकलमेव / यतो हि शरीरेन्द्रियादिनिष्पत्तिः सा पर्याप्तिः / वेद्यं सुखदुःखसाधकं कर्म / तैजसम् अन्तस्तेजः शरीरोष्मा, यतो भुक्ताऽन्नादिपाको भवति इति / दीर्घमायुः चिरजीवनकारणं कर्म / एतदुदयात् क्षुद्वेदना उपजायते, अस्ति च तदुदयो भगवति अतो भुक्तिसिद्धिः। तदनभ्युपगमे वा तत्र क्षुदभावः प्रमाणात् प्रतिपत्तव्यः / तच्च प्रमाणम्-आगमः, 10 अन्यद्वा स्यात् ? न तावदागमः; सिद्धवत् सयोगकेवलिनि क्षुदभावप्रतिपादकस्य आगमस्याऽसंभवात् / प्रमाणान्तराच्च निषेधः स्वभावानुपलम्भात्, अन्यतो वा स्यात् ? न तावत् स्वभावानुपलम्भात् ; केवलिनो विप्रकृष्टस्वभावत्वात् / नच विप्रकृष्टस्वभावे भावे स्वभावानुपलम्भो युक्तः; एकज्ञानसंसर्गिपदार्थान्तरोपलम्भलक्षणत्वात्तस्य / अन्यतोऽपि 15 विधीयमानात् , निषिध्यमानाद्वा तन्निषेधः स्यात् ? यदि विधीयमानात् ; तदा तेन विरो धिना भवितव्यम् , अविरुद्धविधेरभावाऽसाधकत्वात् / न च क्षुद्विरोधि केवलिनि किञ्चित् प्रतीयते / न च ज्ञानादिगुणा एव तत्र तद्विरोधिनः इत्यभिधातव्यम् / यतो ज्ञानादिमात्रस्य क्षुधा विरोधः, तद्विशेषस्य वा ? यदि ज्ञानादिमात्रस्य; तर्हि यथा यथा तद्गुणा विवर्द्धन्ते तथा तथा क्षुधो हानितारतम्येन भवितव्यम् प्रकाशविवृद्धाविव तमसः, 20 न चैवमस्ति / नहि बालादौ ज्ञानाद्यपचये क्षुदुपचयः, ततः प्रभृति च ज्ञानाद्युपचये तारतम्येन क्षुदपचयो लक्ष्यते / तन्न ज्ञानादिमात्रस्य क्षुधा विरोधः / अथ ये (1) "अस्ति च केवलिभुक्तिः समग्रहेतुर्यथा पुरा भुक्तेः / पर्याप्तिवेद्यतैजसदीर्घायुष्कोदयो हेतुः // नष्टानि न कर्माणि क्षुधो निमित्तं विरोधिनो न गुणाः / ज्ञानादयो जिने किं सा संसारस्थितिर्नास्ति ।"-केवलिभु० श्लो० 1-2 / सन्मति० टी० पृ० 612 / स्या० र० पृ० 474 / आध्यात्मिक० पृ०६३ B. / “अस्ति केवलिनो भुक्तिः समग्रसामग्रीकत्वात् पूर्वभुक्तिवत् / सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा पर्याप्तत्वं वेदनीयोदयः आहारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति ।"-सूत्रकृ० शी० पृ० 345 / युक्तिप्र० पृ० 153 / (2) “यतः कवलाहारभुवतेद्विधा कारणं बाह्यमाभ्यन्तरं च / तत्र बाह्यमशनादि, तत्तावदस्त्यैव न तत्र कस्यापि विवाद: / आभ्यन्तरं पर्याप्तिवेद्यतैजसदीर्घायुष्ट्वोदयलक्षणम् ।"-स्या० र० पृ. 475 / (3) "तम इव भासो वृद्धौ ज्ञानादीनां न तारतम्येन / क्षुध् हीयतेऽत्र न च तज्ज्ञानादीनां विरोधगतिः // अविकलकारणभावे तदन्यभावे भवेदभावेन / इदमस्य विरोधीति ज्ञाने न तदस्ति केवलिनि।"-केवलिभु० श्लो० 3-4 / स्या० र० पृ० 473 / “न कवला. हारवत्त्वेन तस्यासर्वज्ञत्वं कवलाहारसर्वज्ञत्वयोरविरोधात् ।"-प्रमाणनय० 2 / 27 / 1 सयोगिकैव-ब० / एतदन्तर्गतः पाठो नास्ति आ०। 2 'भावे नास्ति श्र०। 3-तव्यमविधेरभा-आ० / 4 ज्ञानापचये ब०।