________________ प्रवचनप्र० का० 76 ] सुषुप्त यादौ ज्ञानसभावसिद्धिः 851 जाग्रहशायाम् प्राणादिप्रभवश्व सुषुप्ताद्यवस्थायामिति / तत्र चैतन्यप्रभवप्राणादेर्जाग्रहशायां चैतन्यानुमान युक्तम् न पुनः प्राणादिप्राणादेः। न खलु गोपालघटिकादौ धूमप्रभवधूमादग्न्यनुमानं दृष्टम् अग्निप्रभवधूमादेव तदर्शनात्; इत्यप्यचारु; सुषुप्तेतरावस्थयोः प्राणादेर्विशेषाऽप्रतीतेः / यथैव हि सुषुप्तः प्राणिति तथैव इतरोऽपि, अन्यथा 'किमयं सुषुप्तः किं वा जागर्ति' इति सन्देहो न स्यात् / यदि चैते सुषुप्तस्य चैतन्यप्रभवाः न / स्युः तर्हि जाग्रतः परवञ्चनाभिप्रायेण सुषुप्तव्याजेनाऽवस्थितस्य तादृशामेव तेषां संभवो न स्यात् / नहि अग्नेर्जायमानो धूमः प्रयत्नशतैरपि धूमादन्यतो वा जायते, धूमप्रभवो वाऽग्नेः इति / दृश्यन्ते च यादृशा एंव सुषुप्तस्य प्राणादयः तादृशा एव अस्यापि / तन्नैते भिन्न कारणप्रभवाः / चैतन्येतरप्रभवांश्च प्राणादीन विवेचयन् वीतरागेतरप्रभवान् व्यापारादीनपि 'विवेचयतु / तथा च “सरागा अपि वीतरागवच्चेष्टन्ते वीतरागाश्च 10 सरागवत् अतो कीतरागेतरविभागो निश्चेतुमशक्यः" [ ] इति विप्लवते / सुषुप्तादौ च प्रथमः प्राणादिः कुतो जायताम् ? जाग्रद्विज्ञानसहकारिणो जाग्रप्राणादेः इति चेत् ; न; ऎकस्माज्जाग्रद्विज्ञानात् अनन्तरभावी प्राणादिः कालान्तरभावि च प्रबोधज्ञानम् इत्यस्याऽसम्भाव्यमानत्वात् / नहि एकस्मात् सामग्रीविशेषात् क्रमभाविकार्यद्वयसंभवो युक्तः; अन्यथा नित्यादप्यक्रमात् क्रमवत्कार्यद्वयोत्पत्तिः स्यात् / 15 तथा च “नाक्रमात् क्रमिणो भावाः" [प्रमाणवा० 1 / 45] इत्यस्य विरोधः। तस्मात् सुषुप्तावस्थाभाविन एव ज्ञानात् तत्कालभाविप्राणादिप्रभवोऽभ्युपगन्तव्यः, अतः कथं तत्र ज्ञानामावर्सिद्धिः 1 ततो ज्ञानस्य कदाचिदपि व्यवच्छेदासंभवात् सिद्धोऽनवच्छिन्नो ज्ञानसन्तानः, तस्य च मुक्तिकारणानुष्ठानात् प्रतिबन्धककर्मप्रक्षये अनन्तचतुष्टयस्वरूपलाभो मोक्ष इति / तथा च घातिकर्मप्रक्षये समुत्पन्न केवलज्ञानादेर्भगवतो मुक्तियैरभिप्रेता तैः जीवन्मुक्तये दत्तो जलाञ्जलिः अनन्तचतुष्टयासंभवात् / कवलाहारो हि क्षुद्वेदनोदये गृह्यते, तदुदये च क्षुद्दुःखसंभवात् भगवतः कथमनन्तं सौख्यम् ? यतोऽनन्तचतुष्टयस्वरूपलाभलक्षणा जीवन्मुक्तिः स्यात् / न च तत्र भुक्तयावेदकं किञ्चित्प्रमाणमस्ति ॥छ। (1) “यथैव हि सुषुप्तः प्राणिति तथेतरोऽपि, अन्यथा 'किमयं सुषुप्तः किंवा जागति' इति सन्देहो न स्यात्। यदि चैते सुषुप्तस्य चैतन्यप्रभवा न स्युः किन्तु प्राणादिप्रभवाः; तहि जाग्रतः परवञ्चनाभिप्रायेण सुषुप्तव्याजेनावस्थितस्य तादृशामेव तेषां भावो न स्यात् ।"-प्रमेयक० पृ० 324 / (2) प्राणप्रभवाणामेव प्राणादीनाम् / (3) द्रष्टव्यम्-१०६०३ टि० 1 // (4) "एकस्माज्जाग्रद्विज्ञानादनन्तरभावी प्राणादिः कालान्तरभावि च प्रबोधज्ञानमित्यस्यासंभाव्यमानत्वात्।"-प्रमेयक०प०३२५॥ (5) द्रष्टव्यम्-पृ० 619 टि० 10 / (6) श्वेताम्बरः यापनीयैश्च / (7) केवलिनि / 1 सुप्तः आ० / 2 एव सुप्तस्य ब० / 8 विवेचयेत् श्र० / 4 सुप्तादौ च आ०। 5-भाविप्राणादेः का-श्र०। 6-दयस्य संभ-ब०। 7-सिद्धेः श्र०। कथमनन्तसौख्यं आ० / 9-कं कञ्चित् ब० / 20