________________ 850 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० यथा वन्ध्यास्तन्धयः, असच्च सुषुप्ताद्यवस्थायामभिप्रेतं भवद्भिः ज्ञानमिति। नापि तदभावात् ; परिच्छेदकत्वस्य ज्ञानधर्मतया तदभावे संभवाभावात्, अन्यथा ज्ञानस्यैव 'अभाव' इति नामकृतं स्यात् / / तदनुपलम्भतोऽपि तत्कालभाविनः, अन्यकालभाविनो वा तेत्र तैदभावप्रतिपत्तिः स्यात् ? प्रथमपक्षे कथं तत्र सर्वथा ज्ञानाभावः ? तदभावग्राहिणोऽनुपलम्भज्ञानस्य तत्र विद्यमानत्वात् / नापि अन्यकालभाविनः; तस्य तत्प्रतिपत्तिहेतुत्वायोगात् / नहि अन्यकालोऽनुपलम्भोऽन्यकालस्याभावस्य प्रतिपत्तिहेतुः अतिप्रसङ्गात् / अनुपलम्भश्च उपलम्भाभावः, अभावश्च आश्रयग्रहण-प्रतियोगिस्मरणसापेक्षः ग्रहीतुं शक्यः, तत्परतन्त्र तया तद्ग्रहणस्मरणाभावे ग्रहीतुमशक्यत्वात् / अतः अनुपलम्भं तत्रेच्छता तदाश्रय10 तया तत्र प्रथममात्मा परिच्छेत्तव्यः प्रतियोगी च स्मर्त्तव्यः, अतः कथं सुषुप्ताद्यवस्थायां सर्वथा ज्ञानाभावः सिद्ध्येत् ? तन्न अनुपलम्भतोऽपि तत्र तदभावसिद्धिः / ___ नापि जाग्रत्प्रबोधदशाभाविज्ञानान्तरात् ; तदपेक्षया सुषुप्तादिज्ञानस्य उपलब्धिलक्षणप्राप्तत्वासंभवात् , तद्दशाभाविनः तदभावग्राहिणः कस्यचिज्ज्ञानान्तरस्याऽप्रतीतेश्च / 'निर्भरसुप्तेन मया न किञ्चिज्ज्ञातम्' इति प्रबोधदशाभाविज्ञानं तदभावग्राहकत्वेन 15 प्रतीयते एव; इत्यप्यपेशलम् ; एतस्मात् तदा तत्सद्भावस्यैव प्रतीतेः / स्मृतिरूपं हि इदम , 'स्मृतिश्च तेदशायां तदभावनाहिज्ञानान्तरमन्तरेण नोपपद्यते' इत्युक्तमनन्तरमेव, तन्न सुषुप्ताद्यवस्थायां स एवात्मा ज्ञानाभावं प्रतिपत्तुं समर्थः / नापि पार्श्वस्थः; कारणस्वभावव्यापकानुपलब्धेः विरुद्धविधेर्वा तदभावाऽविनाभाविनो लिङ्गस्य अत्रासंभवात् / न च तत्र तत्सद्भावाऽविनाभाविनोऽप्यस्याँऽसंभवः समान 20 इत्यभिधातव्यम् ; स्वात्मनि तंदविनाभावित्वेनाऽवधारितस्य प्राणापानशरीरोष्णताकार विशेषादेः तत्सद्भावाऽविनाभाविनो लिङ्गस्य अत्रोपलब्धेः, जाग्रहशायामपि अन्यचेतोवृत्तेः तद्वयतिरेकेण अन्यतोऽप्रतिपत्तेः / ननु द्विविधोऽत्र प्राणादि:-चैतन्यप्रभवः, प्राणादिप्रभवश्च / तत्र चैतन्यप्रभवो (1) ज्ञानाभावे। (2) सुषुप्ताद्यवस्थायाम् / (3) ज्ञानाभाव / (4) आश्रयभूतस्य आत्मनो ज्ञानमथ च ज्ञानाभावस्य प्रतियोगिनो ज्ञानस्य स्मरणमस्त्येवेति भावः। (5) सुषुप्तिदशायाम् / (6) ज्ञानाभाव। (7) लिङ्गस्य। (8) तुलना-"स्वात्मनि स्वसंविदितविज्ञानाविनाभूतत्वेन निश्चितस्य प्राणापानशरीरोष्णताकारविशेषादेः तदवस्थायामुपलभ्यमानलिङ्गस्य सद्भावेन अनुमानप्रतीत्युत्पत्तेः।"-सन्मति० टी० 1090 / प्रमेयक०प०३२४ / (9) ज्ञानाविनाभावित्वेन / (10) प्राणापानशरीरोष्णतादिभ्य एव ज्ञानं प्रतीयत इत्यर्थः। (11) 'ननु द्विविधोऽत्र प्राणादि: चैतन्यप्रभवो जाग्रद्दशायाम्, प्राणादिप्रभवश्च सुषुप्ताद्यवस्थायामिति ।"-प्रमेयक पु० 324 / 1 ताप्रतिहेतुत्वा-आ०, ब०। 2-कालस्य भावस्य आ० / 3 निर्भरस्वप्नेन मया न कि-ब०, आ०। 4 मया किञ्चिज्ज्ञानम् श्र० 15 तद्भावस्यैव श्र०।