________________ प्रवचनप्र०. का० 76] सुषुप्त्यादौ ज्ञानसद्भावसिद्धिः 846 इति निरूपणाभावादभावः इत्यभिधातव्यम् / तदहर्जातबालकस्य मुखप्रक्षिप्तस्तन्यजनितसुखेन तत्संवेदनेन चाऽनेकान्तात् / न खलु तैत्तेन 'इदमित्थम्' इति निरूप्यते, अथ च अस्ति / नच दुःखाभावात् सुखशब्दप्रयोगोऽत्र गौणः; अभावस्य प्रतियोगिभावान्तरस्वभावतया अभावविचारावसरे व्यवस्थापितत्वात् / यदप्युक्तम्-'तत्रज्ञानसद्भावे' इत्यादि; तदप्यसमीक्षिताभिधानम् ; तत्र ज्ञानस- 5 द्भावेऽपि जाग्रत्सुषुप्तावस्थयोर्भदोपपत्तेः। यत्र हि अनभिभूतं बाह्याध्यात्मिकाऽर्थविचारचतुरं ज्ञानं सा जामदवस्था, यत्र तु निद्राद्यभिभववशात्तद्विपरीतं सा सुषुप्ताद्यवस्था / यदपि-'कोऽयं निद्रादिना ज्ञानस्याभिभवः' इत्याद्युक्त ; तत्रास्य तद्वशाद् बाह्याध्यात्मिकार्थविचारविधुरत्वमेवाऽभिभवः / स्वपरप्रकाशस्वभावत्वात्तस्य कथं तद्विधुरत्वम् ? इत्यप्यनुपपन्नम् ; गच्छत्तृणस्पर्शसंवेदनेन व्यभिचारात्, तस्य तत्स्वभावत्वेऽपि 10 तन्निरूपणासामर्थ्यप्रतीतेः। नहि तत्स्वभावत्वमात्रेणैव ज्ञानस्य तन्निरूपणसामर्थ्यम् ; सर्वत्राऽनभिभूतस्यैवास्य तन्निरूपणसामर्थ्यसंभवात्। यथा च गच्छत्तृणस्पर्शसंवेदनम् अन्यमनस्कतयाऽभिभूतम् तथा स्वप्नादिसंवेदनं निद्रादिना इति युक्तमुत्पश्यामः / कथञ्चैववादिनो मणिमन्त्रादिना अग्न्यादेः शरावादिना च प्रदीपादेः प्रतिबन्धः सिद्ध्येत् ? नहि 'तेने तस्य नाशः प्रतिबन्धः संभवति; प्रत्यक्षविरोधात् / नापि तिरोभावः; स्वकार्य- 15 जननसमर्थस्यास्य तिरोभावस्याप्यसंभवात् / प्रतीत्यनतिक्रमेणात्र स्वरूपसामर्थ्यप्रतिबन्धाभ्युपगमः अन्यत्रापि समानः / - किश्च; सुषुप्ताद्यवस्थायां ज्ञानाभावं स एवात्मा प्रतिपद्यते, पार्श्वस्थो वा ? यदि स एव; किं तत एव ज्ञानात् , तदभावात्, तदनुपलम्भात्, जाग्रत्प्रबोधदशाभाविज्ञानान्तराद्वा ? न तावत्तत एव; अस्याऽसत्त्वात् / यदसन्न तत् कस्यचित्प्रतिपत्तिहेतुः 20 (1) प्रतियोगिनः सकाशात् यद्भिन्नं भावान्तरं भूतलादि तत्स्वभावतया। (2) पृ० 847 पं० 19(3) "मिद्धादिसामग्रीविशेषाद्, विशिष्टं सुषुप्ताद्यवस्थायां गच्छत्तणस्पर्शज्ञानतुल्यं बाह्याध्यात्मिकपदार्थानेकधर्मग्रहणविमुखं ज्ञानमस्ति अन्यथा जाग्रत्प्रबुद्धज्ञानप्रवाहयोरप्यभावप्रसक्तिरिति ।"-सन्मति. टी० पृ० 163 / प्रमेयक० पृ० 323 / (4) पृ०८४० पं० 1 / (५)ज्ञानस्य / (6) स्वपरप्रकाशनस्वभावत्वमात्रेण (7) ज्ञानस्य / (8) तुलना-"मणिमन्त्रादिना अग्न्यादिप्रतिबन्धे शरावादिना प्रदीपादिप्रतिबन्धेऽपि च समानत्वात् ।"-प्रमेयक पृ० 322 / (9) मन्त्रादिना शरावादिना वा। (10) अग्न्यादेः प्रदीपस्य वा। (11) निद्रया ज्ञानस्याभिभवेऽपि / (12) तूलना-"तदवस्थायां विज्ञानाभावग्राहकप्रमाणासंभवात् / तथाहि-न तावत्सुप्त एव तदवस्थायां विज्ञानाभावं वेत्ति; तदा विज्ञानानभ्युपगमात् / तदवगमे च तस्यैव ज्ञानत्वात् न तदवस्थायां तदभावः / नापि पावस्थितोऽन्यस्तदभावं वेत्ति; कारणव्यापकस्वभावानुपलब्धीनां विरुद्धविधेर्वाऽत्र विषयेऽव्यापारात्, अन्यस्य तदभावावभासकत्वायोगात् ।"-सन्मति० टी० पृ० 90 / प्रमेयक० पृ० 323 / 1 तत्र तेन श्र०। 2 सुषप्तादिसंवेदनं श्र०। वेदनतस्य श्र०। 4 नाशः संभ-ब० / 5 स्वकायजनन-ब०। 1