________________ 848 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० नानयोरविशेष इति चेत् ; ननु कोऽयं तया ज्ञानस्याऽमिभवो नाम-नाशः, तिरोभावो वा? यदि नाशः; कथं तत्र तत्सद्भावः तस्य तैद्विरोधित्वात् / अथ तिरोभावः; तन्न; स्वपर- . प्रकाशरूपज्ञानाभ्युपगमे तस्याप्यनुपपत्तेः / अतः सुषुप्ताद्यवस्थायाम् उपलब्धिलक्षणप्राप्तस्य ज्ञानस्यानुपलब्धेः अभाव एव ज्यायानिति ॥छ।। अत्र प्रतिविधीयते। यत्तावदुक्तम्-'किञ्चिदप्यपरिच्छिन्दन्नेव हि' इत्यादि; तदसुषुप्ताद्यवस्थास्वपि समीचीनम् ; सुषुप्ताद्यवस्थायां स्वापादिसंवेदनस्य तत्सुखसंवेदनस्य च ज्ञानसद्भावप्रसाधनम् सद्भावात् / तत्र हि ज्ञानानभ्युपगमे 'सुखमहमस्खाप्सम्' इति सुप्तो- त्थितस्य स्वापसुखस्मरणस्य 'एतावत्कालं निरन्तरं सुप्तोऽहम् एतावत्कालञ्च सान्तरम्' इति खार्पस्मरणस्य चाभावानुषङ्गात् , तस्य ज्ञातवस्तुविषयत्वेन स्वविषयज्ञानान्तराविनाभावि10 त्वात् / यत् स्मरणं तत् स्वविषयज्ञानान्तर विनाभावि यथा घटादिस्मरणम् , स्मरणश्च सुप्तोस्थितस्य स्वापसुखादिसंवेदनमिति / अस्य स्वविषयानान्तरमन्तरेणाप्याविर्भावे घटादिस्मरणस्यापि तदन्तरेणाविर्भावः स्यात्, अतः कुतस्तदनुभवादिरपि सिद्ध्येत् ? ततः सुषुप्ताद्यवस्थायां येनानुभवेन स्वापसुखादिस्मरणमाविर्भाव्यते स तद्विषयोऽभ्युपगन्तव्यः / ___ एतेन मत्तमूर्च्छिताद्यवस्थायामपि ज्ञानसद्भावः प्रसाधितः; तदेवस्थायाः प्रच्यु15 तस्य तदा मया न किञ्चिदनुभूतम्' इति स्मरणनिबन्धनेन येनानुभवेन सता आत्मा निखिलानुभवविकलोऽनुभूयते तस्यामवस्थायां सोऽनुभवोऽभ्युपगन्तव्यः, तमन्तरेण तत्स्मरणानुपपत्तेः / नंच सुषुप्ताद्यवस्थायां स्वापसुखस्य तत्संवेदनस्य वा 'इदमित्थम्' विनाशः; न विज्ञानस्य सत्त्वं विनाशस्य वा निर्हेतुकत्वम् / अथ तिरोभावः; न; विज्ञानस्य सत्त्वेन तत्सत्तैव संवेदनमित्यभ्युपगमे तस्यानुपपत्तेः / "- प्रश० व्यो० पु० 20 / (1) निद्रया। (2) नाशस्य / (3) सद्भावविरोधित्वात् / (4) पु० 847 पं० 18 / (5) "तश्च सुषुप्तावनुभूत आनन्द आत्मा भावरूपाज्ञानञ्चेति त्रयमप्युत्थितेन परामृश्यते सुखमहमस्वाप्स न किञ्चिदवेदिषमिति ।"-विवरणप्र० पृ०६०। (6) “अस्ति चात्र स्वापलक्षणार्थनिरूपणम-एतावकालं निरन्तरसुप्तोऽहमेतावत्कालं सान्तरमित्यनुस्मरणप्रतीतेः।"-प्रमेयक पृ० 323 / (7) स्मरणस्य / (8) अनुभवात्मक / (9) तुलना-"सुप्तमूर्छाद्यवस्थासु चेतो नेति च ते कुतः। निश्चयो वेदनाभावादिति चेत्स कुतो गतः / यदीत्थं भवतस्तासु निश्चयः संप्रवर्तते / न वेद्मि चित्तमित्येवं सति सिद्धा सचित्तता। यदि च तासु मर्छाद्यवस्थासु न वेदम्यहं चित्तमित्येवं निश्चयः प्रवर्तते भवतः, तदा तेनैव तथा प्रवृत्तेन निश्चयेन सचित्तता सिद्धा ।"-तत्त्वसं०, 50 50 540 / प्रमेयक० पृ० 323 / "स्वप्नमर्छाद्यवस्थासु चित्तं च यदि नेष्यते / मृतिः स्यात्तत्र चौत्पत्ती मरणाभाव एव वा ।"-तत्त्वसं० प०५४१ / (10) निखिलानुभवविकलस्य आत्मनः स्मरणानुपपत्तेः। (11) तुलना-"स्यान्मतं यदि विज्ञानं दशास्वास्वस्ति तत्कथम् / न स्मृतिः प्रतिबुद्धादे: तदाकारा भवेदिति // तदकारणमत्यर्थं पाटवादेरसम्भवात् / स्मरणं न प्रवर्तेत सद्योजातादिचित्तवत् ।।-यदि ह्यनभूत इत्येतावन्मात्रेणैव स्मरणं स्यात्स्यादेतत्, यावता सत्यप्यनुभवे पाटवाभ्यासाथित्वादिवैकल्यात् स्मरणं न भवति, यथा सद्योजाताद्यवस्थायामनुभूतस्यापि चित्तस्य ।"-तत्त्वसं०, पं० 50 540 / प्रमेयक० 10 325 / ___ 1 स्वप्नादिसं-श्र०। 2 तत्सुखसंवेदनस्य' नास्ति श्र०। 3 तत्र विज्ञाना-श्र०। 4-मस्वापम् ब०। 5 यत स्वसंस्मरणं ब०। 6-निबन्धनो येना-आ०, ब०। 7 नन सुषुप्ता-श्र०, न च सुप्ता-आ० /