________________ 847 प्रवचनप्र० का 0 76 ] सुषुप्त्यादौ ज्ञानसद्भावसिद्धिः तत्रासौ विरज्यते तदा आत्मन्यपि विरज्यताम् तथाविधदुःखहेतुत्वस्य तत्राप्यविशेषात् , तत्राविरागे वा अन्यत्रापि न विरज्येत विशेषाभावादिति; अत्र अज्ञमात्मानभिप्रेत्य एवमुच्यते, तद्विपरीतं वा ? यदि अज्ञम् ; तदा सिद्धसाधनम् , हेयोपादेयतत्त्वज्ञानरहिते तथाविधदुःखहेतौ आत्मनि वैराग्याऽभ्युपगमात् / हेयोपादेयतत्त्वज्ञानवति तु तस्मिन् तथाविधदुःहेतुत्वाभावान्न वैराग्यम् / यच्चोक्तम्-'कायक्लेशस्यं कर्मफलत्वात्' इत्यादि; तदप्यनल्पतमोविलसितम् ; हिंसादिविरतिलक्षणवृतोपबृंहकस्य कायक्लेशस्य कर्मफलत्वेऽपि तपस्त्वाविरोधात् / व्रताविरोधी हि कायक्लेशः कर्मनिर्जराहेतुत्वात् तपोऽभिधीयते / न चैवं नारकादिकायक्लेशस्यापि तपस्त्वानुषङ्गः, तस्य हिंसाद्यावेशप्रधानतया तँदविरोधित्वासंभवात् / अतः कथं प्रेक्षावतां तेन समानता मुमुक्षुकायक्लेशस्य आपादयितुं युक्ता ? . 10 ___यदपि शक्तिसङ्करपक्षे 'स्वल्पेनैव' इत्याद्युक्तम् / तत्सूक्तम् ; "विचित्रफलदानसमर्थानां कर्मणां शक्तिसङ्करे सति क्षीणमोहान्त्यसमये अयोगिचरमसमये चे अक्लेशतः स्वल्पेनैव परमशुक्लध्यानरूपेण तपसा प्रक्षयाभ्युपगमात् , जीवन्मुक्तेः परममुक्तेश्चान्यथानुपपत्तेः। स तु तच्छक्तिसङ्करः बहुतरक्लेशसाध्यः इति युक्तः तदर्थोऽनेकविधोपवासादिदुश्वरकायक्लेशाद्यनुष्ठानप्रयासः, तमन्तरेण तत्सङ्कराऽप्रसिद्धेः / अतः कथञ्चिदनवच्छिन्नो 15 ज्ञानसन्तानोऽनेकविधदुर्धरतपोऽनुष्ठानात् मुच्यते इति प्रेक्षादक्षैःप्रतिपत्तव्यम् // छ। ननु 'अनवच्छिन्नो ज्ञानसन्तानः' इत्ययुक्तम् ; सुषुप्ताद्यवस्थायामपि तदवच्छेदप्रसषप्ताद्यवस्थायां नास्ति तीतेः / किञ्चिदपि अपरिच्छिन्दन्नेव हि 'सुषुप्तः' इत्युच्यते, तत्र ज्ञानमिति वैशषिका- ज्ञानसद्भावे तदपरिच्छेदानुपपत्तेः / यदि च तत्र ज्ञानसद्भावः स्यात् दीनां पूर्वपक्षः- तदा जाग्रत्सुषुप्तावस्थयो/दो न स्यात्, उभयत्र स्वपरावभासिज्ञान- 20 सद्भावाऽविशेषात् / तत्र तत्सद्भावेऽपि निद्रयाऽभिभवात् , जाग्रदवस्थायाश्च तदभावात् (१)जन्मजरामरणादिप्रबन्धकारणत्वस्य। (२)स्त्र्यादिष्वपि / (३)तुलना-"यादृशो दुखहेतु: स्तादृशो हेय एव, सोपाधिश्च तथा। निरुपाधिरपि हीयतामिति चेत् ;न; अशक्यत्वान्निष्प्रयोजनत्वाच्च।" -आत्मत० 10 106 / (4) आत्मनि। (5) पृ०८४१ पं०२। (6) “हिंसाविरतिरूपवतोपबहकस्य कायक्लेशस्य कर्मत्वेपि तपस्त्वाविरोधात् ।"-षड्द० बृह० श्लो० 52 / (7) व्रताविरोधित्वाभावात् / (8) नारकादिक्लेशेन / (9) पृ० 841 पं० 5 / (10) 'विचित्रफलदानसमर्थानां कर्मणां शक्तिसंकरे सति"-षड्द० बृह० श्लो० 52 / (11) "सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्तमानेन मनसा ज्ञानाजननमिति ।"-मुक्ता० का०५६ / (12) "सुषुप्तावस्थायां ज्ञानसद्भावे जाग्रदवस्थातो न विशेषः स्यात्, उभयत्रापि स्वसंवेद्यज्ञानस्य सद्भावाविशेषात् ।"-प्रश० व्यो०१० २०ङ। (13) "सुषप्तौ निद्रयाभिभूतत्वं विशेष इति चेत् ; असदेतत्; तद्धर्मतया तस्यापि तादात्म्येन अभिभावकत्वासंभवात् / व्यतिरेके तु रूपादिपदार्थानामेव सत्त्वात् तत्स्वरूपं निरूप्यम् / अभिवश्च यदि 1-लक्षणं वृ-ब०। 2 'तत्सूक्तम्' नास्ति श्र: / 3 वाक्लेशतः श्र०। 4-दुःकरकाय-श्र० / 5-सन्तानो नेकविध-ब० 16-वेच तदपरि-ब० /