________________ 846 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० "दाराः परिभवकाराः बन्धुजनो बन्धनं विषं विषयाः। काय (कोऽयं) जनस्य मोहः ये रिपवस्तेषु मुहृदाशा // " [ ] इत्येवं भावयतो विवेकिनः संयोगसम्बन्धिषु दुःखहेतुषु भावेषु सुखलेशसाधनत्वस्य सद्भावेऽपि अन्यदा आत्यन्तिकसुखसाधनं रत्नत्रयं पश्यतः कुतस्तेषु आत्मीय6 बुद्धिः यतस्ततो निवृत्तिर्न स्यात् 1 ननु आत्मीयबुद्धेः ततः स्यानिवृत्तिः यदि एकान्तेन तेषां दुःखहेतुत्वमेव स्यात् , न चैवम् , लेशतः सुखहेतुत्वस्याप्यत्र संभवात् , तेन दुःखहेतुत्वेऽपि आत्मीयस्नेहात् येनाकारेण सुखहेतुता तावतांशेन स्वस्योपकारकान् इन्द्रियादीन् मन्यमानः तेषु नात्मीयबुद्धिं जहातीति; तदप्यसाम्प्रतम् ; तेषां सुखलेशसाधन त्वेऽपि अन्यस्य आत्यन्तिकसुखसाधनस्य सद्भावेन "निर्विषान्नस्य सद्भावेन सविषा10 नस्येव त्यागसंभवात् / / ___ यदप्यभिहितम्-'पिच्चटकाणकुण्टादिदोषदर्शनेऽपि' इत्यादि; तदप्यभिधानमात्रम् ; यतो न सौरूप्यादिगुणदर्शनात् स्नेहो भवतीत्यस्माभिरिष्यते, किन्तु उपभोगाश्रयत्वाख्यगुणदर्शनात्। विवेकिनश्च संयोगसम्बन्धिषु भावेषु जातिजरामरणप्रबन्धलक्षणसंसार दुःखहेतुत्वाख्यम् आत्यन्तिकदोषं पश्यतो न उपभोगाश्रयत्वाख्यस्य गुणस्य दर्शनमस्तीति 15 तन्निबन्धनस्नेहस्य व्यावृत्तेः कथं दोषदर्शनं स्नेहस्य बाधकन्न स्यात् / ननु तदोषं पश्यतो यद्यपि तत्कालेऽनुरागिणी मतिश्चलिँता, तथापि तत्रासौ नैव अत्यन्तं विरक्तो द्रष्टव्यः, पुनस्तद्गुणलेदर्शनादनुरागसंभवात् ; इत्यप्यसुन्दरम् ; अज्ञो हि तादात्विकदुःखहेतुत्वाख्यस्य तादात्विकदोषस्य दर्शनाद् विरक्तः तादात्विकसुखहेतुत्वाख्यस्य तादात्विकगुणस्य दर्शनात् पुनरनुरज्यते इति युक्तम् , हेयोपादेयतत्त्वज्ञस्तु जातिजरामरणप्रबन्धलक्षणदुःखहेतुत्वाख्यस्य आत्यन्तिकदोषस्य दर्शनाद्विरक्तो न तादात्विकसुखहेतुत्वाख्यस्य तादात्विकगुणस्य दर्शनात् पुनरनुरज्यते, किन्तु आत्यन्तिकसुखहेतुत्वाख्यगुणदर्शनात् / न च संयोगसम्बन्धिषु तदर्शनमस्ति इति साकल्येनासौ तंत्र उपेक्षालक्षणं वैराग्यमात्मसात्करोति / ननु यदि तत्प्रबन्धलक्षणदुःखहेतुत्वेन (1) संगृहीतोऽयं श्लोकः सुभाषितरत्नभाण्डागारे। (2) “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग:"-तत्त्वार्थसू० 111 / तुलना-"तत्र प्रथमं तावत् त्रीणि रत्नानि तद्यथा-बुद्धो धर्मः संघश्चेति / " -धर्मसं०१०१। (3) तात्कालिकसुखसाधनेषु स्त्र्यादिषु / (4) तादात्विकसुखसाधनस्त्र्यादीनाम् / (5) रत्नत्रयस्य / (6) पृ०८४०५० 11 / (7) "यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः / विरक्तो नैव तत्रापि कामीव वनितान्तरे।"-प्रमाणवा० 12241-42 / (8) विरागवती जाता। (9) तत्त्वज्ञः। (10) संयोगसम्बन्धिषु स्त्र्यादिषु / 1-जना ब-ब०। 2-सम्बन्धेषु श्र०। 3 दुःखाहेतुषु ब०, आ०। 4-त्र भावान् ब०। 5त्वेऽस्यात्मीय-श्र०। 6-स्यासद्भा--ब०। 7 निविशेषात्तस्य सद्भावेन ब०। 8-मस्यैव त्यागे संभवात श्र०। 9 सारूप्यादि-श्र०। 10-सम्बन्धाभावेषु श्र०। 11 गुणदर्शनमस्तीति ब०, आ० / 12स्नेहव्याव-बं०। 18 स्नेहबाध-ब० / 14 इत्यसु-ब०। 15 अन्यो हि आ० / 16-हेतुत्वाख्यगुणवर्शनात् ब०, श्र०।17 अपेक्षा-श्र०। 20