________________ प्रवचनप्र० का० 76] मुक्तिस्वरूपविचारः पक्ष एव युक्तः; तथाभूते एव चित्तसन्ताने मोक्षोपपत्तेः, बद्धो हि मुच्यते नाऽबद्धः / न च निरन्वये चित्तसन्ताने बद्धस्य मुक्तिः संभवति, तत्र हि अन्यो बद्धः अन्यश्च मुच्यते / सन्तानक्याद् बद्धस्यैव मुक्तिरत्रापि इति चेत् ; ननु सन्तानार्थः परमार्थसन् , संवृतिसन् वा स्यात् ? यदि परमार्थसन् ; तदा आत्मैव नामान्तरेण उक्तः स्यात् ? अथ संवृतिसन् ; तदा एकस्य परमार्थसतोऽसत्त्वाद् 'अन्यो बद्धः अन्यश्च मुच्यते' इत्याया- 6 तम् , तथा च बद्धस्य मुक्तयर्थं प्रवृत्तिर्न स्यात् / / __अथ अत्यन्तनानात्वेऽपि क्षणानां दृढतररूपतया एकत्वाध्यवसायात् 'बद्धमात्मानं मोचयिष्यामि' इत्यभिसन्धाय प्रवर्तते; कथमेवं नैरात्म्यदर्शनम् ? यतस्तद्भावनाभ्यासान्मुक्तिः स्यात् / अथ शास्त्रसंस्कारप्रभवं तद्दर्शनमस्ति; न तर्हि एकत्वाध्यवसायः अस्सखलद्रूपः, ईत्येकं सन्धित्सोरन्यत्प्रच्यवते। अतः कुतो बद्धस्य मुक्तथर्थं प्रवृत्तिः स्यात् 10 यतो "मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि" [प्रमाणवा० 11194] इत्युक्तं शोभेत ? ___ यत्पुनरुक्तम्-'उपभोगाश्रयत्वेन' इत्यादि; तदप्यविचारितरमणीयम् ; हेयोपादेयत्त्वज्ञो हि आत्यन्तिकसुखसाधनम् उपभोगाश्रयमात्मीयञ्चाभिमन्यते न तादात्विकसुखसाधनम् ; तथाहि - "ऍगो मे सस्सदो अप्पा नाणदंसणलक्खणो / ____16 सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा // [भावपाहु० गा० 59] संजोगमूलं जीवेण पत्ता दुक्खपरंपरा / तम्हा संजोगसंबंध सव्वं तिविहेण वोसरे // " [मूलाचार० 2 / 48-49] (1) “चित्तानां तत्त्वतोऽन्वितत्वसाधनात् सन्तानोच्छेदानुपपत्तेश्च"-अष्टसह० पृ० 69 / प्रमेयक० पृ. 320 / सन्मति० टी० पृ० 162 / "केवलं सा चित्तसन्ततिः सान्वया निरन्वया वेति वक्तव्यम् / आये सिद्धसाधनं तथाभूत एव चित्तसन्ताने मोक्षोपपत्तेः ।"-षड्द० बृह० श्लो० 52 / (2) निरन्वयक्षणिकपक्षेऽपि / (3) “सन्तानस्याप्यवस्तुत्वादन्यथात्मा तथोच्यताम् / कथञ्चिद्रव्यतादात्म्याद्विना सन्तत्यसंभवात् ।"-तत्त्वार्थश्लो० पृ० 23 / "यदि सन्तानार्थः परमार्थसंस्तदा आत्मैव सन्तानशब्देनोक्तः स्यात् / अथ संवृतिसन् ; तदा एकस्य परमार्थसतोऽसत्त्वादन्यो बद्धोऽन्यश्च मुच्यत इति बद्धस्य मुक्त्यर्थं न प्रवृत्तिः स्यात् ।"-सन्मति० टी० पृ० 162 / प्रमेयक० पु० 321 / (4) "तर्हि न नैरात्म्यदर्शनमिति कुतस्तन्नि बन्धना मुक्तिः ?"-सन्मति० टी० पृ० 162 / प्रमेयक० पू० 321 / (5) नैरात्म्यभावनायामस्खलपायां हि 'बद्धमेव आत्मानं मोचयिष्यामि' इत्येकत्वाध्यवसायस्य संभावनैव नास्ति / (6) नैरात्म्यदर्शनस्य समर्थने क्रियमाणे। (7) एकत्वाध्यवसाय: / (8) पृ० 840 50 5 / (9) "हेयोपादेयत्त्वज्ञा हि आत्यन्तिकसुखसाधनमुपभोगाश्रयमात्मीयञ्चाभिमन्यन्ते न तादात्विकसुखसाधनम् ।"-स्या० र० पृ० 1119 / (10) "एको मे सासदो अप्पा..."-नियमसा० गा० 102 / एको मे शाश्वत आत्मा ज्ञानदर्शनलक्षणः। शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः / संयोगमूला जीवेन प्राप्ता दुःखपरम्परा। तस्मात्संयोसम्बन्धं सर्वं त्रिविधेन व्युत्सृजामि / 1 बद्धात्मानं ब० / 2 यदप्युक्त-ब०। 3 उपयोगाश्र-आ। 4-गाशयमा-ब०। 5 हि उक्तञ्च प्राकृतश्लोक एगो ब०। 6 संसबो श्र० 17 संयोग-आ०। 8 संयोग-आ० /