________________ 844 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० तथाभूतश्च शाक्यमते सहकारिकारणाभाव इति / द्वितीयविकल्पोऽप्येतेन प्रतिव्यूढः; उत्पादकत्वस्य हि प्रतिबन्धः कार्योत्पादकपदार्थसत्ताऽपहारः, स च अश्वविषाणप्रख्ये तंदभावे दुर्घटः। किश्च, अन्त्यचित्तक्षणस्य अनर्थक्रियाकारित्वे अवस्तुत्वं स्यात्, ततः तज्जैनकस्य 5 इति, एवमायातमशेषस्य चित्तसन्तानस्य अवस्तुत्वम् / अथ स्वसन्तानवर्तिनो ज्ञान क्षणस्य अजनकत्वेऽपि सन्तानान्तरवर्तिनो योगिॉनस्य जननात् नाऽशेषस्य तत्सन्तानस्याऽवस्तुत्वम् ; तदयुक्तम् ;रसादेरेककालस्य रूपादे: अव्यभिचार्यनुमानाऽभावानुषङ्गात् , अन्त्यक्षणवत् रूपादेविजातीयकार्यजनकत्वेऽपि संजातीयाजनकत्वसंभवात् / एक सामग्र्यधीनत्वेन रूपरसयोर्नियमेन कार्यद्वयारम्भकत्वे अन्यत्रापि कार्यद्वयारम्भकत्वं 10 स्यात् , योगिज्ञान-अन्त्यक्षणयोरपि एकसामग्र्यधीनत्वाऽविशेषात् / अथ स्वसन्तान वर्तिकार्यजननसामर्थ्यवद् भिन्नसन्तानकार्यजननसामर्थ्यम् अन्त्यक्षणस्य नेष्यते; तर्हि सर्वथा अर्थक्रियासामर्थ्यरहितत्वेन अस्य आकाशकुशेशयवदवस्तुत्वं स्यात् / तथाविधस्यापि वस्तुत्वे सर्वथाऽर्थक्रियारहितस्य अक्षणिकस्यापि वस्तुत्वं स्यात्, तथा च सत्त्वादयः क्षणिकत्वन्न साधयेयुः अनैकान्तिकत्वात् / तन्न सन्तानोच्छेदलक्षणा मुक्तिः तत्कारणानुष्ठानप्रयासेन प्रसाध्या इति पक्षः क्षेमङ्करः / निराश्र(स्र)वचित्तसन्तत्युत्पत्तिलक्षणा सा तत्प्रयासप्रसाध्या इति पक्षस्तु ज्यायान् / केवलं 'सा चित्तसन्तति: सान्वया, निरन्वया वा' इति वक्तव्यम् ? तत्र अस्याः सान्वय (1) सहकारिकारणाभावे / (2) अर्थक्रियाकारित्वाभावे। तुलना-"चरमक्षणस्याकिञ्चिकरत्वेन अवस्तुत्वापत्तितः पूर्वपूर्वक्षणानामप्यवस्तुत्वापत्तेः सकलसन्तानाभावप्रसङ्गः / विद्युदादेः सजातीयाकरणेऽपि योगिज्ञानस्य करणान्नावस्तुत्वमिति चेत्, न; आस्वाद्यमानरससमानकालरूपोपादानस्य रूपाकरणेऽपि रससहकारित्वप्रसङ्गात्, ततो रसाद्रूपानुमानं न स्यात् ।"-सन्मति० टी० ए० 161 / स्या०र० पृ० 1121 / प्रमेयक० पृ० 497 / (3) अन्त्यक्षणोत्पादकस्य उपान्त्यक्षणस्य / (4) यदा हि कचिश्त्सर्वज्ञो योगी तम् अन्त्यक्षणं जानाति तदा सोऽन्त्यःक्षणः योगिज्ञानस्य सहकारितया समुत्पादको भवति नाकारणं विषयः इति सिद्धान्तात् / अतः सजातीयक्षणानुत्पादकोऽपि अन्त्यक्षणः योगिज्ञानस्य सहकारितया जनकत्वात् अर्थक्रियाकारी भवत्येव। (5) बौद्धमते हि द्वितीयक्षणतिनो रसस्य प्रथमक्षणवर्ती रस उपादानम् प्रथमक्षणवर्तिरूपञ्च सहकारि भवति / प्रथमक्षणतिरूपं हि सजातीयं द्वितीयक्षणवतिनं रूपं जनयित्वैव विजातीये द्वितीयक्षणवर्तिरसे सहकारि भवति / यदि हि अन्त्यो ज्ञानक्षण: सजातीयं ज्ञानक्षणान्तरमनुत्पाद्यापि विजातीये सन्तानान्तरवर्तिनि योगिज्ञाने आलम्बनतया सहकारि स्यात् तदा पूर्वक्षणवर्तिरूपमपि द्वितीयक्षणवतिसजातीयं रूपक्षणान्तरमजनयित्वैव विजातीये द्वितीयक्षणवतिनि रसे सहकारि स्यात् / तथा च द्वितीयक्षणतिरसात रूपानुमानं न स्यात् इति भावः / (6) रसोत्पादकत्वेऽपि / (7) रूपक्षणान्तरानुत्पादकत्वसंभवात् / (8) योगिज्ञान / (9) अन्त्यक्षणस्य / (10) चित्तसन्ततेः / 1 साध्यमते ब०। 2 व्युत्पादकस्य हि श्र०, उत्पादकत्वे हि ब०। 3-मशेषचित्त-आ० / 4 अन्तक्ष-आ० / 5 सजातीयजनकत्वासंभ-ब०। 6 तत्कारणेऽनुष्ठान-आ०, स्वकारणानुष्ठानब० / 7 निराश्रयचि-आ०। 8-या चेति श्र० /