________________ प्रवचनप्र० का० 76] मुक्तिस्वरूपविचारः 843 भ्युपगमे तथाभूतचित्तक्षणेषु एकत्वाध्यारोपानुपपत्तेः / तदनुपपत्तिश्च सन्तानभङ्गप्रघट्टके प्रपश्चिता / निरन्वयविनश्वरत्वे च संस्काराणां मोक्षार्थः प्रयासो व्यर्थः / रागाद्युपरमो हि भवन्मते मोक्षः, तदुपरमश्च विनाशः, तस्य च निर्हेतुकतया अयत्नसिद्धत्वात् तदर्थानुष्ठानादिप्रयासो निष्फल एव / तेने हि प्राक्तनस्य रागादिचित्तक्षणस्य नाशः क्रियेत, भाविनो वाऽनुत्पादः, तदुत्पादकशक्तेर्वा क्षयः, सन्तानस्य वोच्छेदः अनुत्पादो / वा, निराश्र(स्र)वचित्तसन्तत्युत्पादो वा ? तत्राद्यः पक्षोऽनुपपन्नः; विनाशस्य निर्हे तुकतया भैवन्मते कुतश्चिदुत्पत्तिविरोधात् / द्वितीयपक्षोऽप्यत एव अनुपपन्नः; * उत्पादाभावो हि अनुत्पादः, सोऽभावरूपत्वात् कथं कुतश्विर्दुत्पद्येत अप॑सिद्धान्तप्रस ङ्गात् ? तच्छक्तिक्षयार्थोऽपि तत्प्रयासोऽसङ्गतः, तत्क्षयस्याप्यभावरूपतया कुतश्चिदात्मलाभासंभवात् / 'सन्तानस्योच्छेदार्थोऽनुत्पादार्थो वा तत्प्रयासः' इत्यप्येतेन प्रत्युक्तम् ; 10 क्षणोच्छेदानुत्पादवत् तदुच्छेदानुत्पादयोरभावरूपतया कुतश्चिदुत्पत्त्यनुपपत्तेः। किञ्च, सिद्धे वास्तवे सन्ताने तदुच्छेदार्थोऽनुत्पादार्थो वा तत्प्रयासो युक्तः; न चासौ तथाभूतः सिद्धः; क्षणातिरिक्तस्य तस्य वास्तवस्य भवतानभ्युपगमात्, सन्ताननिषेधे निषिद्धत्वाच्च / किञ्च, अन्त्यज्ञानस्य ज्ञानान्तराकर्तृत्वे सन्तानोच्छेदो भविष्यति / तच्च कुतो 15 न करोति सत्त्वात् तदुत्पादे शक्तत्वाच्च ? शक्कमपि सहकारिकारणाभावात् नोत्पादयति; इत्यप्यसमीक्षिताभिधानम् ; तदभावस्य अप्रतिबन्धकत्वात् / तेन हि प्रतिबन्धो भावस्योत्पत्तेः, उत्पादकत्वस्य वा ? तत्राद्यविकल्पोऽनुपपन्नः; शौक्यपक्षे हि कारणान्तराभावः अभावरूपतया सकलशक्तिविरहस्वभावो भावस्य नोत्पत्तिप्रतिबन्धं कर्तुमर्हति / यत् सकलशक्तिविरहस्वभावं न तत् कस्यचिदुत्पत्तिप्रतिबन्धकम् यथा शशविषाणम् , 20 (1) तुलना-"अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः / चित्तसन्ततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः॥"-आप्तमी०का०५२। "आकस्मिकेऽर्थे प्रलयस्वभावे मार्गो न युक्तो बधकश्च न स्यात् ।।तथा च सकलास्रवनिरोधलक्षणमोक्षस्य चित्तसन्ततिनाशरूपस्य वा शान्तनिर्वाणस्य मार्गों हेतुः नैरात्म्यभावनालक्षणो न युक्तः स्यात् नाशकस्य कस्यचिद्विरोधात् ।"-युक्त्यनु० टी० पृ० 40 / “निर्हेतुकतया विनाशस्य उपायवैयर्थ्यम्, अयत्नसाध्यत्वात् ।"-प्रश०व्यो० 1020 ङ। (2) तपोऽनुष्ठानादिना। "किंच. तेन मोक्षार्थानुष्ठानेन प्राक्तनस्य रागादिक्षणस्य नाशः क्रियते, भाविनो वाऽनुत्पादः, तदुत्पादकशक्तेर्वा क्षयः, सन्तानस्योच्छेदोऽनुत्पादो वा, निराश्रयचित्तसन्तत्युत्पादो वा ?"-षड द० बृह० श्लो० .52 / (3) सौगतमते / (4) निर्हेतुकाऽभाववादः विशीर्यत इत्यर्थः / (5) सन्तानोच्छेदानुत्पादयोः / (6) तुलना-"किंच वास्तवस्य सन्तानस्यानभ्युपगमात् किं तदुच्छेदादिप्रयासेन ? नहि मृतस्य मारणं क्वापि दृष्टम् ।”-पड द० बृह० श्लो०५२।(७) सहकारिकारणाभावस्य / (8) सहकारिकारणाभावेन / 1-रोपानुपपत्तिश्च सन्ता-ब० / 2 संसारिणाम ब०,१० / 3 चोच्छेदः ब० / 4 निराश्रयचित्तआ० / 5-दुत्पद्यते आ० / 6 कुतश्चिदात्मलाभासंभवात् सन्तानस्योच्छेवार्थोऽनुत्पादार्थों वा तत्प्रया सो युक्तो न चासो ब० / 7-स्पद्यनुप-श्र० / 8-तराकर्तृकत्वे ब० / 9 सत्त्वादुत्पादे आ० / 10 तद्भावस्य ब०। 11 साध्यपक्षे ब०। 12-राभावाभावरूपतया ब०।