________________ 842 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० अज्ञो जनः दुःखाननुषक्तसुखसाधनमपश्यन् आत्मस्नेहात् सांसारिकेषु दुःखानुषक्तसुखसाधनेषु प्रवर्त्तते / हिताहितविवेकज्ञस्तु तादात्विकसुखसाधनं स्त्र्यादिकं परित्यज्य आत्मस्नेहात् आत्यन्तिकसुखसाधने मुक्तिमार्गे प्रवर्त्तते / यथा पथ्यापथ्यविवेकमजान नातुरः तादात्विकसुखसाधनं व्याधिविवृद्धिनिमित्तं दध्यादिकमुपादत्ते, पथ्यापथ्यविवे5 कज्ञस्तु तत्परित्यज्य पेयादौ आरोग्यसाधने प्रवर्त्तते / उक्तश्च "तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते / हितमेवानुरुद्धयन्ते प्रपरीक्ष्य परीक्षकाः // " [ ] इति / यदप्युक्तम्-'ततो मुक्तिमिच्छता स्वरूपं पुत्रकलत्रादिकञ्च' इत्यादि; तदप्येतेन प्रत्युक्तम् ; सर्वथाऽनित्याऽनात्मकत्वादिभावनाया निर्विषयत्वेन मिथ्यारूपत्वात् सर्वथा 10 नित्यादिभावनावन्मुक्तिहेतुत्वानुपपत्तेः / तन्निविर्विषयत्वञ्च आत्मसिद्धेः क्षणभङ्गभङ्गस्य च प्रसाधितत्वात् प्रसिद्धम् / न च कालान्तरावस्थाय्येकानुसन्धातृव्यतिरेकेण भावनाप्युपपद्यते इत्युक्तं सन्ताननिषेधप्रघट्टके / यो हि निगडादिभिर्बद्धः तस्यैव तन्मुक्तिकारणपरिज्ञानानुष्ठानाभिसन्धिव्यापारे सति मोक्षः इति एकाधिकरण्ये सत्येव बन्धमोक्ष व्यवस्था लोके प्रसिद्धा, इह तु अन्यः क्षणो बद्धः अन्यस्य च तन्मुक्तिकारणपरिज्ञानम् 15 अन्यस्य च अनुष्ठानाभिसन्धिः व्यापारश्चेति वैयधिकरण्यात् सर्वमनुपपन्नम् / किञ्च, सर्वो बुद्धिपूर्व प्रवर्त्तमानः 'किश्चिदिदमतो मम स्यात्' इत्यनुसन्धानेन प्रवर्तते। इह च कस्तथाविधो मार्गाभ्यासे प्रवर्त्तमानः 'मोक्षो मम स्यात्' इत्यनुसन्दध्यात्-क्षणः, सन्तानो वा ? न तावत् क्षणः; तस्य एकक्षणस्थायितया निर्विकल्प कतया च एतावतो व्यापारान् कर्तुमसमर्थत्वात् / नापि सन्तानः; तस्य सन्तानिव्य20 तिरिक्तस्य सौगतैरनभ्युपगमात्, सन्ताननिषेधे निषिद्धत्वाच्च / यच्चान्यदुक्तम्-'निरन्वयविनश्वरेषु' इत्यादि; तदप्युक्तिमात्रम् ; आत्मनोऽन (1) उद्धृतोऽयम्-न्यायवि० वि० पृ० 581 / स्या० 20 पृ० 1119 / (2) 10839 6041 (3) तुलना-"क्षणिकादिभावनाया मिथ्यारूपत्वात्, नच मिथ्याज्ञानस्य निःश्रेयसकारणत्वमतिप्रसङ्गात् ।"-प्रश व्यो० पृ० 2010 / "भावनाया विकल्पात्मिकायाः श्रुतमय्याश्चिन्तामय्याश्चावस्तुविषयाया वस्तुविषयस्य योगिज्ञानस्य जन्मविरोधात् / कुतश्चिदतत्त्वविषयाद् विकल्पज्ञानात्तत्त्वविषयस्य ज्ञानस्यानुपलब्धेः ।"-आप्तप० का० 83 / तत्त्वार्थश्लो० पृ० 21 / षड्द० बृह० श्लो० 52 / (4) "न बन्धमोक्षौ क्षणिकैकसंस्थौ-क्षणिकमेकं यच्चित्तं तत्संस्थौ बन्धमोक्षौ न स्याताम् / यस्य चित्तस्य बन्धः तस्य निरन्वयप्रणाशादुत्तरचित्तस्याबद्धस्यैव मोक्षप्रसङ्गात् / यस्यैव बन्धः तस्यैव मोक्ष इति एकचित्तसंस्थौ बन्धमोक्षौ"-युक्त्यनु०, टी०प०४१। (5) क्षणिकैकान्तपक्षे। (6) तुलना"किंच. सर्वो बुद्धिपूर्व प्रयतमानः किंचिदिदमतो मम स्यादित्यनुसन्धानेन प्रवर्तते।"-षड्व० बह० श्लो० 52 / (7) 50 839 पं०७ / 1-साधनं पश्यन् आ० / 2-विवेकस्तु आ० ।-विवेकस्तु आ० / 4-नित्यादिभावन्मु-आ० / 5 अन्यत्रानुष्ठा-ब०। 6-सन्धेर्व्यापा-आ० / 7-पूर्व वर्तमानः ब० / 8 सन्ताननिषिद्ध-श्र०।