________________ 10 प्रवचनप्र० का 0 76 ] मुक्तिस्वरूपविचारः 841 अथ तद्भावनाभावेऽपि कायक्लेशलक्षणात्तपसः सकलकर्मप्रक्षयान्मोक्षो भविष्यति; तन्न; कायक्लेशस्य कर्मफलतया नारकादिकायसन्तापवत् तपस्त्वायोगात् / विचित्रशक्तिकञ्च कर्म विचित्रफलदानाऽन्यथानुपपत्तेः, तच्च कथं कायसन्तापमात्रात् क्षीयेत अतिप्रसङ्गात् / अथ तपः कर्मशक्तीनां सङ्करेण क्षयकरणशीलमिति कृत्वा एकरूपादपि तपसः चित्रशक्तिकस्य कर्मणः क्षयः; नन्वेवं स्वल्पक्लेशेन एकोपवासादिनाऽपि अशेषस्य / कर्मणः क्षयापत्तिः शक्तिसाङ्कर्यान्यथानुपपत्तेः / उक्तश्च "कर्मक्षयाद्विमोक्षः स च तपसः तच्च कायसन्तापः / * कर्मफलत्वान्नारकदुःखमिव कथं तपस्तत्स्यात् // अन्यदपि चैकरूपं तच्चित्रक्षयनिबन्धनं न स्यात् / तच्छक्तिसङ्करक्षया(य)कारीत्यपि - वचनमात्रं तु / / अक्लेशास्तोकेऽपि क्षीणे सर्वक्षयप्रसङ्गो येत् / " [ ] इति // छ / .. अत्र प्रतिविधीयते / यत्तावदुक्तम्-'कार्यकारण' इत्यादि; तदसमीक्षिताभिसान्वयशुद्धचित्तस- धानम् ; कार्यकारणभूतज्ञानक्षणप्रवाहव्यतिरिक्तस्य आत्मनः सन्तान्ततिरूपस्य मोक्षस्य समर्थनम्- ननिषेधावसरे व्यासतः समर्थितत्वात् / यत्पुनरुक्तम्-'यः पश्यत्यात्मानं स्थिरादिरूपम्' इत्यादि; तत्सूक्तमेव; किन्तु 15 . (1) "तपसा निर्जरा च"-तत्त्वार्थसू० 9 / 3 / (2) “फलवैचित्र्यदृष्टश्च शक्तिभेदोऽनुमीयते / कर्मणां तापसंक्लेशात् नैकरूपात्ततः क्षयः ॥-कर्मणां फलवैचित्र्यस्य नानागत्युपभोग्यानेकविधोपकरणसाध्यविविधसुखदुःखोपभोगप्रकारस्य दृष्टेश्च शक्तिभेदः सामर्थ्यानानात्वमनुमीयते, अतो नानाप्रकारफलजननसामर्थ्यात् कारणादेकरूपात् फलात् तापसंक्लेशान कर्मणां क्षयः ।"-प्रमाणवा०१२२७७। (3) “अथापि तपसः शक्त्या शक्तिसंकरसंक्षयः / क्लेशात्कुतश्चित् हीयेताशेषमक्लेशलेशतः॥-अथापि तपसः शक्त्या शक्तिसंकरेण तापक्लेशमात्रफलेन तानि हीयन्ते / तपःशक्त्या कर्मणां संक्षयेण वा जन्मा. भावः / यच्च किञ्चिदविशिष्टं तत् क्लेशात्कुतश्चित् केशोल्लञ्चनादेः क्षीयते। कर्मक्षयाच्च मुक्तिः अत्राह-हीयेताशेषमक्लेशलेशतः / यदि तपसा कर्मक्षयोऽशेषं कर्म हीयेत, अक्लेशतो विनैव केशोल्लुञ्चनादिदुःखात् कर्मणः क्षीणत्वात् / यथा नारकादिदुःखं न भवति तथा अल्पीयोपि न स्यात् / शक्तिसांकर्येपि लेशतः सन्तापक्लेशात् केवलात् कर्म हीयेत, न दुःखान्तरानुबन्धी संसारप्रबन्धः तपस्विनः स्यात् / यदीष्टमपरं क्लेशात् तत्तपः क्लेश एव चेत् / तत्कर्मफलमित्यस्मान्न शक्तेः संकरादिकम् // तपसः शक्त्या शक्तिसंकरसंक्षयश्च तदा वक्तुं शक्यो यदि क्लेशादिष्टं क्लेशादपरमन्यत्तपो नान्यथा / क्लेश एव चेत्ततपः, तत्क्लेशरूपं तपः कर्मफलमित्यस्मात् कर्मफलभूतात्तपसः शक्तिसंकरादिकं न युक्तम् / आदिशब्दात् संक्षयश्च ।"-प्रमाणवा० मनोरथ० 1278-79 / (4) ".."क्षयनिमित्तमिह न स्यात् / तच्छक्तिसंकरः क्षयकरीत्यपि . . . ."-षड्द० बृह० श्लो० 52 / ...तच्छक्तिसंकरक्षयकारीत्यपि...' -स्या० र० पृ० 1118 / (5) पृ० 838 पं० 11 / (6) पृ० 9 / (7) पृ० ८३८पं०१८। (8) तुलना-“तत्सूक्तमेव, किन्त्वज्ञो जनो दुःखानुषक्तं सुखसाधनं पश्यन्नात्मस्नेहात् सांसारिकेषु दुःखानुषक्तसुखसाधनेषु प्रवर्तते अपथ्यादौ च मूर्खातुरवत् ।"-षड्द० बृह० श्लो०५२ / स्या० र० पृ० 1118 // . 1 अथैतद्भाव-श्र०। 2-कर्मक्षया-ब०। 3 संकरणे क्षय-श्र०। 4 तच्चित्रं क्षय-आ०. ब०। 5 वत श्र०। 6-ज्ञानलक्षणप्रवा-श्र० /