________________ 840 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० “मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि" [प्रमाणवा० 11194 ] इति / नैरात्म्याभ्यासादिलक्षणंयत्नाभावे तु आत्माभिनिवेशाऽनिवृत्तः इन्द्रियादिषु उपभोगाश्रयत्वेन गृहीतेषु आत्मीयबुद्धेर्निवारयितुमशक्यत्वतो वैराग्यासंभवात् मोक्षाय दत्तो जलाञ्जलिः / तदुक्तम् "उपभोगाश्रयत्वेन गृहीतेष्विन्द्रियादिषु / स्वत्वधीः केन वार्येत वैराग्यं तत्र तत्कुतः // " [प्रमाणवा० 1 / 229] इति / अथोच्यते-नेन्द्रियादिषु उपभोगाश्रयत्वबुद्धिनिबन्धनस्वत्वबुद्धिप्रभवोऽयम् आत्मीयस्नेहः येनायं दोषः स्यात् किन्तु गुणदर्शननिबन्धनः, अतः तद्विरुद्धदोषदर्शने तन्निवृत्तितो वैराग्योपपत्तेः मुक्तिरुपपन्नेति; तंदयुक्तम् ; तैनिबन्धनस्वत्वबुद्धेरेव अस्याविर्भावात् , स्वचक्षुरादिषु गुणदोषपरीक्षाविकलानामपि बालपशुप्रभृतीनाम् उपभोगाश्रयत्वबुद्धिनिबन्धनायाः स्वत्वबुद्धेः तत्र स्नेहस्याविर्भावात् / आत्मीयेष्वपि च पिञ्चटकाणकुण्टादिदोषदर्शनेऽपि अस्य भावात, परकीयेषु गुणदर्शनेऽप्यभावात् / आत्मीयेध्वपि अतीतेषु स्वदेहच्युतेषु च अङ्गावयवेषु गुणदर्शनेऽपि आत्मीयबुद्धित्यागे स्नेहस्या भावात् तेन्निबन्धनस्वत्वबुद्धिप्रभव एवासौं अभ्युपगन्तव्यः / अतः युक्तः तद्वयवच्छे15 दाय नैरात्म्यादिभावनाभ्यास: 1 ऽपकारः तयोर्द्वयोरपि द्वितीयक्षणांभावत् / न चान्येन कृतेऽपकारे प्रेक्षावतोऽन्यत्र वैरनिर्यातनमचितम, नापि यस्य कृतस्तेनापि / एवं रागादिनिवृत्तौ अन्येपि तत्प्रभवा: क्लेशोपक्लेशा नोत्पद्यन्ते। नापि वस्तुतः कश्चित् कस्यचिदपकारकारी। इदं प्रतीत्येदमुत्पद्यते इति प्रतीत्यसमुत्वाददर्शनाद्वा / एवं हि पुद्गलशून्यतायां सत्कायदर्शननिवृत्तौ छिन्नमूलत्वात् क्लेशा न समुदाचरन्ति / यथोक्तमार्यतथागतगह्यसूत्रे-तद्यथापि नाम शान्तमते वृक्षस्य मूलच्छिन्नस्य सर्वशाखापत्रपलाशं शुष्यति / एवमेव शान्तमते सत्कायष्टिप्रशमात् सर्वक्लेशा उपशाम्यन्तीति / तस्माद्वरं नैरात्म्यभावना।"-बोधिचर्या पं०५० 492-93 / नैरात्म्यपरि० पृ० 12 / . (1) "मिथ्याध्यारोपस्य संसारित्वाध्यवसायस्य हानार्थ यत्नोऽसत्यपि कस्मिश्चिदात्मादौ मोक्तरि / न हि यथावस्त्वेव व्यवहारः किन्तु यथावसायञ्च / तथाहि रज्जुरपि साध्यवसायविषयत्वात् परिहारविषयः / एवमहमेव बद्धोऽहमेव मोक्ष्यामीत्यध्यारोपान्मुक्त्यर्थ व्यायामः ।"-प्रमाणवा० मनोरथः / उद्धृतोऽयम्-तत्त्वसं० पं० पृ० 183 / प्रमेयक पृ० 321 / सन्मति० टी० पृ० 162, 418 / (2) "आत्मीयबुद्धिहान्यात्र त्यागो न तु विपर्यये। उयभोगाश्रयत्वेन "आत्मीयबुद्धिहान्या तत्राहिदष्टाङ्गे त्यागो न तु विपर्यये आत्मीयबुद्धिसत्तायाम् / यस्माद् उपभोगस्य आश्रयत्वेन कारणत्वेन गृहीतेष्विन्द्रियादिषु स्वत्वे धी आत्मीयत्वबुद्धिः केन हेतुना वार्येत ? क केनचित् / तत्कुतस्तत्र उपभोगसाधने स्वीयावववे वैराग्यं येन त्यज्यते। ततो यत्त्यज्यते आत्मीयबुद्धिहान्या एव / न चैवं स्नेहादिष्वात्मीयबुद्धिहानिरस्ति येनैषां त्यागः स्यात्।"-प्रमाणवा० मनोरथ० / उद्धृतोऽयम्-न्यायवि० वि०पू०५८१ B. / (3) भोगसाधनत्वनिबन्धन / (4) स्नेहस्य / (5) उपभोगाश्रयत्वनिबन्धन / (6) स्नेहः / 1-ध्यानोप-श्र०। 2-णप्रयत्ना-श्र० / 3 आनीयबद्ध-आ० / 4 खल्वधी: ब०। 5 'इति' नास्ति ब० / 6-निबन्धनसत्त्वबु-व०।7 चेदयुक्तम् ब०। 8 अस्याभावात् आ० / 9-श्रयबुद्धि-ब०। 10-वर्शनप्पस्याभा-ध० /