________________ प्रवचनप्र० का 0 76 ] मुक्तिस्वरूपविचारः गुणदर्शी परितृष्यन् ममेति सुखसाधनान्युपादत्ते / तेनात्मभिनिवेशो यावत्तावत् स संसारः // अात्मनि सति परसंज्ञा स्वपरविभागात्परिग्रहद्वेषौ / अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते॥" [प्रमाणवा० 11219-21] इति / ततो मुक्तिमिच्छता स्वरूपं पुत्रकलत्रादिकश्च अनात्मकमनित्यमशुचि दुःखमिति श्रुतमय्या चिन्तामय्या च भावनया भावयितव्यम् , एवं भावयतः तत्र अभि- 8 ध्वङ्गाभावात् अभ्यासविशेषतो. वैराग्यमुपजायते, अतः सास्रवचित्तसन्तानलक्षणसंसारनिवृत्तिरूपा मॅक्तिरुपपद्यते / निरन्वयविनश्वरेषु हिँ चित्तक्षणेषु एकत्वाध्यारोपेण आत्माभिनिवेशात् आत्मप्रेमागतः प्राण्यभिधानः स्कन्धसन्तानः सांसारिकसुखसाधनेषु प्रवर्त्तमानः सास्रवचित्तसन्तानं सन्तनोति / ततोऽस्य व्यलीकाभिनिवेशस्य अपोहार्थं यत्नः 'नैरात्म्याभ्यासादिलक्षण असत्यपि आत्मनि नित्यनिरंशादिस्वभावे मोक्तरि इति / उक्तश्च- 10 (1) तत्र श्रुतमयी श्रूयमाणेभ्य: परर्थानुमानवाक्येभ्यः समुत्पद्यमानेन श्रुतशब्दवाच्यतामास्कन्दता निवृत्ती परं प्रकर्ष प्रतिपद्यमाना स्वार्थानुमानलक्षणया चिन्तया निर्वृत्तां चिन्तमयीं भावनामारभते।"-आप्तप० का० 83 / (2) अभिष्वङ्गो रागः / (3) "कार्यकारणभताश्च तत्राविद्यादयो मताः / बन्धस्तद्विगमादिष्टो मुक्तिनिमलता धियः / / ... यथोक्तम्-चित्तमेव हि संसारो रागादिक्लेशवासितम् / तदेव तैविनिर्मुक्तं भवान्त इति कथ्यते ।"-तत्त्वसं०, पं० पृ० 184 / (4) "तस्मादनादिसन्तानतुल्यजातीयबीजिकाम् / उत्खातमूलां कुरुत सत्त्वदृष्टि मुमुक्षवः॥"-प्रमाणवा० 21256 / किं पुनरिदं नैरात्म्यं नाम यदसत्सु नोपदेष्टव्यं सत्सु चोपदेष्टव्यमित्याह-अद्वितीयं शिवद्वारं कुदृष्टीनां भयङ्करम् / विषयः सर्वबुद्धानामिति नैरात्म्यमुच्यते ।-तत्रात्मा नाम योऽपरायत्तस्वरूपः स्वभावः, तदभावो नैरात्म्यम् / तच्च धर्मपुद्गलभेदात् द्वैतं प्रतिपद्यते / धर्मनैरात्म्यं पुद्गलनैरात्म्यञ्च / तत्र पुद्गलो नाम य: स्कन्धानुपादाय प्रज्ञप्यते / स च स्कन्धेषु पञ्चधा मुग्यमाणो न संभवति। धर्मास्तु स्कन्धायतनधातुसंशब्दिताः पदार्थाः तदेतेषां धर्माणां पुद्गलस्य च यथास्वं हेतुप्रत्ययाधीनजन्मत्वादुपादाय प्रज्ञप्यमानत्वाच्च स्वायत्तमपरात्तं निजमकृतकं रूपं नास्तीति पुद्गलस्य धर्माणाञ्च नःस्वाभाव्यं व्यवस्थाप्यते / यस्य चार्थस्य स्वरूपसिद्धिर्नास्ति तस्य केनान्येनात्मनास्तु सिद्धिरिति / तस्मात्सर्वथाऽसिद्धलक्षणा एव पदार्था मूर्खजनस्य विसंवादकेनात्मना प्रतीत्य वोपादाय वा वर्तमाना मढधियां सङ्गास्पदं भवन्ति / यथास्वभावं तु सम्यग्दर्शनैः प्रतिभाव्यमाना धर्मपदलयोः सङ्गपरिक्षयवाहकाः भवन्ति / सङ्गपरिक्षयश्च निर्वाणप्राप्तिकारणम् / विदितनैरात्म्यस्य हि सर्वेष परिक्षीणसङ्गस्य न क्वचित्काचित्प्रार्थना कुतो वा निमित्तोपलम्भ इत्यद्वितीयमेव शिवद्वारमेतरात्म्यम / (10151) तत्त्वतो नैरात्म्यमिति यस्यैवं वर्तते मतिः / तस्य भावात्कृतः प्रीतिरभावेन कुतो भयम् ॥"-चतुःशत० पृ० 151, 156 / तत्त्वसं० पृ०८६६ / “यतस्ततो वास्तु भयं यद्यहं नाम किंचन / अहमेव न किञ्चिच्चेत् भयं कस्य भविष्यति ॥"-बोषिच०९।५७ / “वरं नैरात्म्यभावना नैरात्म्यस्य पुद्गलादिविरहस्य भावना अभ्यासः वरमुत्तमम्, आत्मदर्शनप्रवृत्ताहङ्कारनिवृत्तिहेतुत्वात् / तथाहि तावद् भावनाप्रकर्षपर्यन्तगमनात् साक्षान्नैरात्म्यदर्शनात् विरोधिनः सत्कायदर्शनं निवर्तते / तन्निवृत्तौ चैकस्यानुगामिनो दर्शनाभावात् पूर्वापररूपविकलस्य क्षणमात्रस्य दर्शनम् / ततः पूर्वापरसमारोपाभावान्नानागतसुखसाधनं किंचिदात्मनः पश्यति, ततो न तस्य क्वचिद्विषये रागो जायते नापि तत्प्रतिविरोधिनि द्वेष: आसङ्गाभावादेव / नाप्यपकारिणं प्रति अपकारस्थानं पश्यति, येन यस्मिन कृतो 1-तृप्यन श्र०। 2 चित्तलक्षणेषु श्र० / -नुगमः प्रा-ब०। 4 प्रामाण्यभि-श्र० / / यतोने -ब०। 6-विकलक्षणः श्र० /