________________ 838 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० अशरीरमात्मानं न स्पृशतः' इति; तदपि मनोरथमात्रम् ; 'पानन्दं ब्रह्म' इत्यस्यापि अन्यथा व्याख्यातुं सुशकत्वात् , आत्यन्तिकसंसारदुःखाभावविषयो हि अत्र आनन्दशब्दः न पुनः सुखविषयः / दृष्टश्च दुःखाभावे सुखशब्दप्रयोगः यथा भराक्रान्तस्य चिरं ज्वरशिरोर्त्यादिव्याधिदुःखितस्य वा तदपाये 'चिरं तदुःखेन खिन्नाः सुखिनो वयमद्य' 6 इति तदात्मनां प्रतिभासप्रतीतेः / यच्चोक्तम् -'नित्यानन्दस्य संसारदशायाम् आवृतत्वेनाऽनभिव्यक्तितोऽनुपलम्भः' इत्यादि; तदप्युक्तिमात्रम् ; अविद्यादेः तदावारकत्वप्रतिषेधात्, नित्यैकस्वभावस्य स्वप्रकाशात्मन आब्रियमाणत्वायोगाञ्च, परिणामिन एव हि वस्तुनः केनचिदावरणं युक्तम् कथञ्चिदनावृतरूपपरित्यागेन आवृतरूपस्वीकारात् / अतः कथञ्चिदेव नित्यज्ञान10 खादिस्वभावो मुक्तौ आत्मा प्रतिपत्तव्य इति // छ / ननु कार्यकारणभूतज्ञानक्षणप्रवाहव्यतिरेकेण अपरस्य आत्मनोऽसंभवात् कस्य नैरात्म्यभावनातो ज्ञानादिस्वभावता मुक्तौ प्रसाध्येत ? मुक्तिश्च आत्मदर्शिनो दूरोत्साविशुद्धज्ञानोत्पत्तिरूपो रिता / यो हि पश्यति आत्मानं स्थिरादिरूपं तस्य आत्मनि स्थैर्या मोक्षः इति बौद्धस्य दिगुणदर्शननिमित्तः स्नेहोऽवश्यम्भावी, आत्मस्नेहाच्च आत्मसुखेषु 15 पूर्वपक्षः- परिर्तृष्यन् सुखेषु तत्साधनेषु च दोषास्तिरस्कृत्य गुणानारोपयति, गुणदर्शी च परिदृष्यन् ममेति सुखसाधनान्युपादत्ते, ततो यावद् आत्मदर्शनं तावत्संसार एव / तदुक्तम्“य: पश्यत्यात्मानं तत्रास्याहमिति शाश्वत: स्नेहः। स्नेहात्सुखेषु दृष्यति तृष्णा दोषांस्तिरस्कुरुते॥ (1) "आत्यन्तिके च संसारदुखाभावे सुखवचनाद् आगमेऽपि सत्यविरोधः / यद्यपि कश्चिदागमः स्याद् मुक्तस्यात्यन्तिकं सुखमिति। सुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्येवमुपपद्यते / 'दृष्टो हि दुःखाभावे सुखशब्दप्रयोगो बहुलं लोके ।"-न्यायभा०, वा० 12122 / "मुख्य हि बाधकोपपत्तेः गौण इति / तथाहि दुःखाभावेऽयमानन्दशब्दः प्रयुक्तो दृष्ट: / सुखशब्दो दुःखाभावे यथा भाराक्रान्तस्य बाहिकस्य तदपाये इति ।"-प्रश० व्यो०५०२० ग० / (2) 10832502 / (3) “यः पश्यात्मानं तत्रात्मनि अस्य द्रष्टु: अहमिति शाश्वतः अनपायिस्नेहो भवति / स्नेहात् सुखेषु तृष्यति तष्णावान भवति, तृष्णा च सुखसाधनत्वेनाध्यवसितानां वस्तूनां दोषानशुचित्वादीन तिरस्कुरुते प्रच्छादयति / दोषतिरस्करणात् गुणदर्शी शुचित्वेष्टत्वगुणान् पश्यन् परितृष्यन् ममेति ममेदं सुखमिति गर्द्धमानः तस्य सुखस्य साधनानि गर्भगमनादीन्युपादत्ते / तेन आत्मदर्शनमूलत्वेन जन्मादेरात्माभिनिवेशो यावत्तावत् स आत्मदर्शी संसार एव / न केवलं जन्मप्रबन्धस्तस्य दोषा अपि समस्ताः सन्तीत्याह / आत्मनि सति ततोऽन्यस्मिन् परसंज्ञा परबुद्धिर्भवति, स्वपरयोर्यथाक्रमं परिग्रहोऽभिष्वङ्गः द्वेषः परित्यागः तौ भवतः / अनयोः अनुनयप्रतिषेधयोः संप्रतिबद्धाः सर्वे दोषाः रागमात्सर्येादयः प्रजायन्ते ।"-प्रमाणवा० मनोरथ० / उद्धृता इमे-बोधिचर्या पं० पृ० 492 / अनेकान्तजय० पृ०२८। यश० उ० पृ० 252 / न्यायवि० वि० पृ० 581 A. / षड्द० बृह० श्लो० 52 / ज्ञानबि० पु०१४७ A. / "यः पश्यत्यात्मानं तस्यात्मनि भवति"-सिद्धिवि० टी० पृ० 55 B. / 'आत्मनि सति'-अभि० आलोक० 1067 / प्रश० कन्द पु० 279 / 1 चिरंदुःखेन ब०, श्र० / 2-स्वभावतयास्य प्रकाशा-ब०। 3 युक्तौ श्र० / 4-कारक भूतआ० / 5-तृप्यन् आ०, ब०। 6-तृप्यन् आ०, ब०। तिप्यति आ० /