________________ प्रवचनप्र० का० 76] मुक्तिस्वरूपविचारः 837 10 स्वभावतत्त्वाङ्गीकारेण अशेषाणामप्यप्रेक्षावत्त्वप्रसिद्धेः / अथ सुखम् इष्टशब्देन उच्यते; तदा साध्यविकलता दृष्टान्तस्य / न खलु कृषीवलादीनां कृष्यादिप्रयत्नः साक्षात्सुखार्थों भवति, कृष्यादिफलनिष्पत्त्यर्थत्वात्तस्य / परम्परया तस्य तदर्थत्वे मुमुक्षुप्रयत्नस्यापि तथा तदर्थत्वमस्तु / ननु मुमुक्षवो यदि साक्षात्सुखार्थप्रयत्ना न भवन्ति तदा ते निष्प्रयोजनप्रयत्ना एव स्युः प्रयोजनान्तरस्य तत्प्रसाध्यस्याऽसंभवात्; तदप्यपेशलम् ; 6 संसारदुःखोच्छेदलक्षणप्रयोजनस्य तत्प्रयत्नप्रसाध्यस्य सद्भावात् / दुस्सहो हि संसारदुःखभारोऽयम् अतः तदुच्छित्तये प्रयतमानास्ते न निष्प्रयोजनप्रयत्ना भवितुमर्हन्ति / यत्पुनः 'सुखतारतम्यं क्वचिद्विश्राम्यति' इत्याद्यभिहितम्; तदप्यभिधानमात्रम् ; परत्वादिना अनेकान्तात् / परापरादिबुद्धिप्रकर्षसमधिगतो हि परत्वादिप्रकर्षः तारतम्यशब्दवाच्यो नै च कचिद्विश्रान्तः / ___ किञ्च, दुःखेप्येवं परमप्रकर्षप्रसङ्गः-दुःखतारतम्यं क्वचिद्विश्राम्यति तारतम्यशब्दवाच्यत्वात् परिमाणतारतम्यवत् इति / न च दुःखपरमप्रकर्षो भवद्भिरिष्टः इत्यनेनापि अनेकान्तः। यदपि-'श्रानन्दं ब्रह्मणो रूपम्' इत्याद्यागमः मोक्षे सुखस्वभावतायायात्मनः प्रमाणम्' इत्याद्युक्तम् ; तदतीवाऽसङ्गतम् ; तस्य प्रामाण्यासंभवात् / गुणवक्तृकत्वेन 15 हि वचनस्य प्रामाण्यम् / न च वेदे भवद्भिः तदिष्टम् / अपौरुषेयत्वेनास्य प्रामाण्यम् ; इत्यपि श्रद्धामात्रम् ; तदपौरुषेयत्वस्य प्रागेव प्रतिव्यूढत्वात् / अस्तु वा तस्य तथा * 'प्रामाण्यम् , तथापि यथासौ मुक्तौ आनन्दरूपताम् आत्मनः प्रतिपादयति तथा तदभाव मपि “न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः।” [छान्दो० 8 / 12 / 1 ] इत्यादिवचनात् / अतः कास्य प्रामाण्यम् इति 20 व्याघ्रतटीन्यायो भवतः समायातः / अथ इदमागमवचेनम् अन्यथा व्याख्यायते'सशरीरस्य' इति प्रक्रमात् सांसारिके सुखदुःखे अनुकूलेतरविषयोपलम्भसंभवे मोक्षे / (1) परम्परया / (2) मुमुक्षुप्रयत्न। (3) पृ० 831 60 8 / (4) दुःखपरमप्रकर्षण / (5) पृ० 83150 11 / (6) पृ० 724-1 (7) "स्यादेतदेवं यद्येतदेव केवलमागमवचनमश्रोष्यत, वचनान्तरमपि तु श्रूयते-न हवै। ननु भवत्पठितमागमवचनमन्यथापि व्याख्यातुं शक्यते-सशरीरस्येति प्रक्रमात् सांसारिके सुखदुःखे अनुकूलेतरविषयोपलम्भसंभवे तदानीमशरीरमात्मानं न स्पृशत इत्यर्थः / हन्त तहि त्वदधीतमपि वेदवचनमानन्दं ब्रह्मेति संसारदुःखपरिहारक्रमप्रकरणादेव तदुःखापायविषयं व्याख्यास्यते। न खलु व्याख्यानस्य भगवतः काचिदभूमिरस्ति / दृष्टाश्च दुखोपशमे सुखशब्दप्रयोगाः / चिरज्वरशिरोऽर्त्यादिव्याधिदुःखेन खेदिताः। सुखिनो वयमद्येति तदपाये प्रयुञ्जते ॥"-न्यायमं० पृ०५०९। (8) "कुटुम्बमपि मे प्रेयान् प्रेयांस्त्वमपि हे सखे / किं करोमि द्विधा चित्त इतो व्याघ्र इतस्तटी॥"-परिशि०३।१६६। लौकिकन्या० त० भा०। "इतस्तटमितो व्याघ्रः केनास्तू प्राणिनो गतिः।"-यश० उ० पृ० 138 / (9) 'न हवै' इत्यादि वचनम् / 1 तस्यास्त-ब०। 2 तदा तद-ब०, श्र०। 3 न क्वचि-आ० / 4 दुःखे तारतम्यं आ० / 5-क्तृत्वेन हि आ०, श्र० / 6-रपपातिरस्ति श्र०। 'समायातः' नास्ति श्र० /