________________ 15 836 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० क्षणदर्शनस्य च सामर्थ्यसिद्धत्वात् अनन्तचतुष्टयस्वरूपलाभलक्षणमोक्षप्रसिद्धेः जैनमतसिद्धिः स्यात् , 'अानन्दं ब्रह्मणो रूपम्' इत्येकान्तत्यागात् / तन्न सुखस्वभावत्वलक्षणं साध्यं विचार्यमाणं भवन्मते घटते / साधनञ्च अत्यन्तप्रियबुद्धिविषयत्वम् अनन्यपरतयोपादीयमानत्वश्च अनैकान्तिकत्वादसाधनम् ; दुःखाभावेऽपि भावात् / अनन्यपरतयोपादीयमानत्वञ्चासिद्धम् ; नहि आत्मा अन्यार्थं नोपादीयते, सुखाद्यर्थमस्योपादनात् / अत्यन्तप्रियबुद्धिविषयत्वमप्यसिद्धम् ; दुःखितायामप्रियबुद्धेरपि भावात् / / यदपि 'आत्मा सुखस्वभावः वस्तुत्वे सति मुख्यप्रेयोबुद्धिविषयत्वात्' इत्युक्तम् / तदप्येतेन प्रत्युक्तम् ; सुखस्वभावत्वे प्रागुक्ताशेषदोषानुषङ्गात् / प्रेयोबुद्धिविषयत्वं 10 निरुपचरितप्रेयःशब्दवाच्यत्वश्चाऽसिद्धम् ; कदाचिद् दुःखितायां तैदभावात् / अन्य थासिद्धञ्च; आत्मनो हि आत्यन्तिको दुःखाभावो मोक्षे स्यात् इति तत्र तत् साधनद्वयं न पुनः सुखस्वभाव इति / विरुद्धश्च, सुखस्वभावताविपरीतस्य दुःखाभावस्वभावत्वस्यैव अतः प्रसिद्धः। तथाहि-दुःखाभावरूपोऽयमात्मा, वस्तुत्वे सति मुख्यप्रेयोबुद्धिविषयत्वात्, निरुपचरितप्रेयःशब्दवाच्यत्वाद्वा, रागिणां वैषयिकदुःखाभाववदिति / यदप्युक्तम् -'इष्टार्थो मुमुक्षूणां प्रयत्नः' इत्यादि; तदप्यसुन्दरम् ; हेतोरनेकान्तात् / नहि इष्टार्थसाधनायैव प्रेक्षावतां प्रयत्नो भवति, व्याधिविशेषखिन्नानां तेषाम् अनिष्टोपरमार्थमपि प्रयत्नप्रतीतेः। किञ्च, इष्टशब्देनात्र किं सुखमभिधीयते, अभिप्रेतप्रयोजनमात्रं वा ? यदि अभिप्रेतप्रयोजनमात्रम् ; कथमतः पुंसः सुखस्वभावता सिद्ध्येत् ? परस्परविरुद्धानेका20 पवर्गसंसिद्धिप्रसङ्गश्च, कपिलादिमतानुसारिणामपि मुमुक्षूणां प्रयत्नस्य तदिष्टापवर्ग लक्षणप्रयोजनप्रसाधकत्वप्रसक्तेः / प्रयत्नस्य प्रेक्षावत्त्वविशेषणात् न अनेकविरुद्धापवर्गसंसिद्धिरिति चेत् ; न; तद्विवेकस्य कर्तुमशक्यत्वात् / नहि भवन्मतानुसारिणः प्रेक्षावन्त न कपिलादिमतानुसारिणः इति विवेकः कर्तुं शक्यः, प्रमाणप्रबाधितसर्वथानित्यादि (1) "दु:खाभावेऽपि भावात् / अनन्यपरतयोपादीयमानत्वञ्चासिद्धम् ; सुखार्थमुपादानात् / अत्यन्तप्रियबुद्धिविषयत्वमप्यसिद्धम्। दुःखितायामप्रियबुद्धेरपि भावात् ।"-प्रश० व्यो० पृ० 20 ग० / (2) पृ० 831 पं०६। (3) प्रेयस्त्वाभावात् / (4) पृ० 831 पं०७। (5) तुलना"इष्टाधिगमार्था प्रवृत्तिरिति चेत्, न; अनिष्टोपरमार्थत्वात् ।"-न्यायभा०, वा० 111122 / "नानि. ष्टोपरमार्थत्वादनिष्टस्यापि शान्तये / सन्तः प्रयतमाना हि दृश्यन्ते व्याधिखेदिताः // अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तो न निष्प्रयोजनप्रयत्ना भवन्तीत्यनकान्तिको हेतुः / " -न्यायमं० पृ० 509 / / 1-कान्तपरित्यागात् श्र०। 2-चिदुचितायां ब०। 3 सुखस्वभावविप-आ० / 4-भावावादिति आ०, -भावादिति ब०। 5-क्तमिमुमक्ष-आ०,-क्तमिष्टार्थ मुमुक्ष-ब०। 6-लादिमनुसारि-आ० / 7-प्रमाणबाधि-श्र० /