________________ प्रवचनप्र० का० 76] मुक्तिस्वरूपविचारः 835 तत् तस्यैव प्रतिबन्धकम् अतिप्रसङ्गात् / प्रतिबन्धकं हि कार्यविघातकमुच्यते / न च शरीरं सुखस्य विघातकम् तस्मिन् सति तस्य आत्मलाभात् / यस्मिन् सति यस्यास्मलाभः न तत् तस्य प्रतिबन्धकम् यथा बीजमङ्कुरस्य, शरीरे सति आत्मलाभश्च सुखस्येति / तस्य तत्प्रतिबन्धकत्वे च तदपहन्तुहिँसाफलं न स्यात् , प्रतिबन्धविघातकस्य उपकारकत्वेन लोके प्रसिद्धः / नापि अविद्यया; तस्याः तुच्छरूपतया तत्प्रतिबन्धलक्ष- 5 णार्थक्रियाकारित्वाऽसंभवात् / यत् तुच्छरूपं न तदर्थक्रियाकारि यथा मृगतृष्णिकाजलम् , तुच्छरूपा च अविद्या भवद्भिरिष्टा इति / प्रतिषिद्धश्च अविद्यायाः प्रतिबन्धकत्वं ब्रह्माद्वैतप्रघट्टके प्रपञ्चेन इत्यलं पुनः प्रसङ्गेन / नापि वैषयिकसुखाद्यनुभवेन; तेन हि नित्यसुखस्य तदनुभवस्य वा प्रतिबन्धः अनुत्पत्तिलक्षणो विनाशलक्षणो वा न युक्तः; द्वयोरपि नित्यत्वाभ्युपगमात् / नापि बाह्यविषयव्यासङ्गेन; तेन हि प्रमातुः, 10 इन्द्रियादेर्वा सम्बन्धिना तत्प्रतिबन्धः क्रियते ? पक्षद्वयमप्येतदयुक्तम् ; आत्मनो हि प्रमातुळसङ्गः रूपादौ विषये ज्ञानोत्पत्तौ विषयान्तरे ज्ञानानुत्पत्तिः, इन्द्रियस्यापि एकस्मिन् विषये ज्ञानजनकत्वेन प्रवृत्तस्य विषयान्तरे ज्ञानाऽजनकत्वम् / स चात्र असम्भाव्यः; सुखवत तज्ज्ञानस्यापि सदा सत्त्वात् / ... किञ्च, यथाँ मुक्तयवस्थायाम् अनित्यं सुखं ज्ञानश्चाऽतिक्रम्य नित्यं तत्परिक- 15 ल्प्यते तथा नित्यत्वधर्माधिकरणं देहेन्द्रियादिकमपि परिकल्प्यतामविशेषात् / अथ धर्मादेः कार्यो देहः कथं तदभावे तत्र भवेत् प्रतीतिविरोधात् ? तदन्यत्रापि समानम् / अथ संसार(रि)सुखविलक्षणं तत्सुखम् तेनायमदोषः; तर्हि देहोऽपि संसारिदेहाद् विलक्षणः तत्र अस्यास्तु विशेषाभावात् / __ किञ्च, सुखवत् ज्ञानस्य मुक्तावभ्युपगमे तच्छक्तेः विपरीताभिनिवेशनिवृत्तिल- 20 (1) "प्रतिबन्धकं कार्यव्याघातकृदुच्यते, न च नित्यसुखस्य अनुत्पत्तिः संभवति ।"-प्रश० व्यो० 1020 ग०। (2) शरीरस्य / “प्रतिबन्धकत्वेन तदपहन्तुहिंसाफलं न स्यात् / तथा हि प्रतिबन्धविघातक उपकारक एवेति दृष्टम् / न हि नित्यसुखसंवेदनस्य प्रतिबन्धकस्य शरीरादेरपहन्तुहिंसाफलस्य अभाव इत्यलम् ।"-प्रश० व्यो० पृ० 20 ग०। स्या०र० पृ० 1117 / (3) “प्रकाशस्य तुच्छेनावरीतुमशक्यत्वात्"मेघा अपि रवेरन्ये स्वरूपेण च वास्तवाः / तत्त्वान्यत्वाद्य चिन्त्या तु नाविद्यावरणक्षमा ॥"-न्यायमं०१० 5101 (4) पृ० 143 / (5) नित्यसुख-तत्संवेदनयोः / (6) “नित्यसूखे हि अनुभवस्यापि नित्यत्वाद् व्यासङ्गानुपपत्तिः / तथा हि आत्मनो रूपादिविषयकज्ञानोत्पत्तौ विषयान्तरे ज्ञानानुत्पत्तिासङ्गः / एवमिन्द्रियस्यापि एकस्मिन् विषये ज्ञानजनकत्वेन प्रवृत्तस्य विषयान्तरे ज्ञानाजनकत्वं व्यासङ्गः। न चैवमात्मनो रूपादिविषयकज्ञानोत्पत्तौ नित्यसुखे ज्ञानानुत्पत्तिः तज्ज्ञानस्यापि नित्यत्वात् ।"-प्रश० व्यो० पृ० 20 ग०। (7) तुलना-"दृष्टातिक्रमश्च देहादिषु तुल्यः। यथा दृष्टमनित्यं सुखं परित्यज्य नित्यसुखं कामयते, एवं देहेन्द्रियबुद्धीरनित्या दृष्टा अतिक्रम्य मुक्तस्य नित्या देहेन्द्रियबद्धयः कल्पयितव्याः।"-न्यायभा०, वा०. ता० टी०१।१।२२ / “सुखवज्ज्ञानवच्चास्य कामं देहेन्द्रियाद्यपि / नित्यं प्रकल्प्ययतामित्थं मोक्षो रम्यतरो भवेत् ।"-न्यायमं० पृ० 510 / (8) अनन्तज्ञानधारणाय उपयुज्यमानायाः अनन्तशक्तेः / 1 सम्बन्धेन तत्प्र-ब०।2-करणदेहेन्द्रि-ब०। 3 तदभावे तत्र आ०, तदभावे तत प्रसवे तत्र ब०।