________________ 534 - लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० स्यात् , अनित्यस्य अनुत्पत्तिधर्मकत्वानुपपत्तेः ? इन्द्रियादिभ्यश्च तेंदुत्पत्त्यभ्युपगमे सुखविषयत्वं न प्राप्नोति इत्युक्तमनन्तरमेव / अथ योगजधर्मापेक्ष आत्ममनःसंयोग एव तजनकः; ननु योगजधर्मस्य मुक्तावसंभवात् कथमसौ तत्संयोगेन अपेक्षेत यतस्तत्रे ततस्तद्दुत्पत्तिः स्यात् ? अर्थं आद्यं योगजधर्मापेक्षः तत्संयोगः ज्ञानं जनयति, तच्चा5 पेक्ष्य उत्तरोत्तरं ज्ञानमसौ जनयति इति; तदप्यसाम्प्रतम् ; अपसिद्धान्तप्रसङ्गात् / नहि शरीरसम्बन्धानपेक्षं ज्ञानं तत्संयोगस्य ज्ञानोत्पत्तौ सहकारिकारणमिति भवतां राद्धान्तः, तैदपेक्षस्यैव तस्य तदुत्पत्तौ कृतान्ते तत्सहकारिकरणत्वोपवर्णनात् / अथ नित्यम्; तँदा मुक्तेतरावस्थयोरविशेषप्रसङ्गः, सुखतत्संवेदनयोः नित्यत्वेन उभयत्र सद्भावाऽविशेषात् / इन्द्रियजसुखेन चास्य संसारावस्थायां साहचर्यानु10 भवप्रसङ्गात् सुखद्वयोपलम्भः स्यात् / प्रतिबद्धत्वात्ती तस्याऽनुपलम्भ इति चेत्; केनास्य प्रतिबद्धत्वम्-शरीरेण, अविद्यया, वैषयिकसुखाद्यनुभवेन, बाह्यविषयव्यासङ्गेन वा ? न तावत् शरीरेण; अस्य सुखसाधंकत्वेन तत्प्रतिबन्धकत्वायोगात् / नहि यद् यदर्थ (1) "अनित्यत्वे हेतुवचनम्"-न्यायभा० 21222 / (२)संवेदनोत्पत्तिस्वीकरणे। (३)तुलना"आत्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुत्वम् / धर्मस्य कारणवचनम्-यदि धर्मो निमित्तान्तरम् , तस्य हेतुर्वाच्यो यत उत्पद्यत इति ? योगसमाधिजस्य कार्यावसायविरोधात् प्रक्षये संवेदननिवृत्तिः-यदि योगसमाधिजो धर्मो हेतुः; तस्य कार्यावसायविरोधात् प्रक्षये संवेदनमत्यन्तं निवर्तेतेति ।"-न्यायभा० शश२२ / न्यायवा० पू० 85 / न्यायवा० ता० पृ० 240 / (4) आत्ममनःसंयोगेन / (5) मुक्तौ / (6) योगजधर्मापेक्षादात्ममनःसंयोगात् / (7) ज्ञानोत्पत्तिः / (8) तुलना-"अथाद्यसंयोगजधर्मादुपजातं विज्ञानमपेक्ष्य उत्तरं विज्ञानं तस्माच्चोत्तरमिति सन्तानम् ; तन्न; प्रमाणाभावात् / तथा च शरीरसम्बन्धानपेक्षं विज्ञानमेव आत्मान्तःकरणसंयोगस्य अपेक्षाकारणमिति न दृष्टम् ।"-प्रश० व्यो० पू० 20 ग०। "अथ आद्यं ज्ञानं योगजधर्मापेक्षस्तत्संयोगो जनयति"-स्या० र० 10 1116 / (9) ज्ञानम् कर्मभूतम् / (10) आत्ममनःसंयोगः / (11) आद्यज्ञानम् / (12). आत्ममनःसयोगः / (13) आत्ममनःसंयोगस्य / (14) शरीरसम्बन्धापेक्षस्यैव / (15) आत्ममनःसंयोगस्य / (16) तुलना"सुखवन्नित्यमिति चेत्; संसारस्थस्य मुक्तेनाविशेषः, अभ्यनुज्ञाने च धर्माधर्मफलेन साहचर्य यौगपद्यं गृह्येत-यदिदमुत्पत्तिस्थानेषु धर्माधर्मफलं सुखं दुःखं वा संवेद्यते पर्यायेण, तस्य च नित्यसंवेदनस्य च सहभावः योगपद्यं गृह्येत / न सुखाभावः नानभिव्यक्तिरस्ति, उभयस्य नित्यत्वात् ।"-न्यायभा०, वा० शश२२। "ततश्च धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य नित्यस्य सुखस्य साहचर्यमनुभूयेत।"-न्यायमं० पृ० 510 / स्या० र० पृ० 1116 / (17) नित्यसुखस्य / (18) संसारावस्थायाम् / (19) "केनास्य प्रतिबद्धत्वम्-शरीरेण, अविद्यया, वैषयिकसुखाद्यनुभवेन, बाह्यविषयव्यासङ्गेन वा?"-स्या० र० पृ० 1116 / (20) शरीरस्य / तुलना-"शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत् ; न; शरीरादीनामुपभोगार्थत्वात्, विपर्ययस्य चाननुमानात्। स्थान्मतम्-संसारावस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोः प्रतिबन्धकः तेनाविशेषो नास्तीति; एतच्चायुक्तम्, शरीरादय उपभोगार्थाः ते भोगप्रतिबन्धं करिष्यन्तीत्यनुपपन्नम् / न चास्त्यनुमानम्-अशरीरस्य आत्मनो भोगः कश्चिदस्तीति।"न्यायभा० 1 / 122 / न्यायवा० पृ० 86 / न्यायवा० ता० पृ० 240 / न्यायमं० पृ० 510 / 1 आद्ययोग-श्र० / 2-सम्बन्धापेक्षं ज्ञानं आ०,-सम्बन्धोऽन्यपेक्षज्ञानं /