________________ प्रवचनप्र० का० 76] मुक्तिस्वरूपविचारः इति / दृश्यते हि-संसारावस्थायामपि वासीचन्दनकल्पानां सर्वत्र समवृत्तीनां विशिष्टध्यानादिव्यवस्थितानां सेन्द्रियशरीरादिव्यापाराजन्यः परमाहादरूपोऽनुभवः / स एव उत्तरोत्तरभावनाविशेषवंशादुत्तरोत्तरामवस्थामासादयन् परमकाष्ठां प्रतिपद्यते इति सर्वं / सुस्थम् / ततः तद्दशायामपि तत्पर्यायस्य कथञ्चिदाविर्भावनिमित्तसद्भावात् कथञ्चिदेवानित्यः सुखादिपर्यायोऽभ्युपगन्तव्यः / / सर्वथा तन्नित्यत्वग्राहिणः कस्यचिदपि प्रमाणस्याऽसंभवाच्च / तस्य हि ग्राहक प्रमाणं प्रत्यक्षम् , अनुमानम् , आगमो वा स्यात् ? प्रत्यक्षश्चेत् ; किमैन्द्रियम् , मानसम् , स्वसंवेदनं वा ? तत्राद्यविकल्पोऽयुक्तः; इन्द्रियाणां प्रतिनियतरूपादिगोचरचारितया तत्प्रभवप्रत्यक्षस्य ततोऽन्यत्र प्रवृत्त्यनुपपत्तेः। द्वितीयविकल्पोऽप्यनुपपन्नः ; बाह्येन्द्रियनिरपेक्षस्य मनसः क्वचिदपि प्रवृत्त्यसंभवात् / “अस्वतन्त्र बहिर्मनः" [ : 10 इत्यभिधानात् / . बहिरेव अस्य तैन्निरपेक्षस्याप्रवृत्तिः नान्तः इति चेत् ; न; तत्रापि सम्बद्धस्य असम्बद्धस्य वा तस्य स्वसंवेदनसिद्धौं तत्र ज्ञानजनकत्वप्रतिषेधात् / तृतीयविकल्पोऽप्यसुन्दरः; तथा प्रतीत्यभावात् / नहि स्वसंवेदनप्रत्यक्षे अनवच्छिन्नदेशकालकलाकलापः त्रिकालानुयायी नित्यनिरंशः सुखस्वभावोऽनुभूयते. प्रतीतिविरोधात् / तन्न प्रत्यक्षं सर्वथा नित्यसुखग्राहकम् / नाप्यनुमानम् ; सर्वथा तन्नित्यत्वाविनाभाविनः कस्य- 15 चिल्लिङ्गस्याऽसंभवात् / नाप्यागमः; सर्वथा सुखनित्यत्वप्रतिपादकस्य तस्याप्यप्रतीतेः / ____ अस्तु वा कुतश्चित्तन्नित्यत्वप्रतीतिः : तथापि यतस्तत्प्रतीतिः तत् नित्यम् , अनित्यं वा ? न तावदनित्यम् ; तथाविधात्ततो नित्यं तत्प्रतीतिविरोधात् / कुतश्चास्य उत्पत्तिः (1) तुलना-उपलभ्यते च वासीचन्दनकल्पस्य मुमुक्षोः सर्वत्र समवृत्तेविशिष्टध्यानादिव्यवस्थितस्य सेन्द्रियशरीरव्यापाराजन्यः परमाह्लादरूपोऽनुभवः, तस्यैव भावनावशादुत्तरोत्तरामवस्थामासादयतः परमकाष्ठागतिरपि संभाव्यते..."-सन्मति० टी०प०१६१ / (2) तुलना-"आत्मनो नित्यसुखसत्तायां प्रमाणाभावात् / प्रत्यक्षं तावदस्मदादीनामन्येषां वा केषाञ्चिदस्मिन्नर्थे न प्रभवतीति केयं कथा। अनुमानमपि न संभवति ; लिङ्गलेशानवलोकनादिति ।"-न्यायमं० पृ० 509 / “तस्य ग्राहक प्रत्यक्षमनुमानमागमो वा स्यात् ?"-स्या० र० पृ० 1115 / (3) द्रष्टव्यम्-पृ० 432 टि०। (4) मनसः / (5) बाह्येन्द्रियनिरपेक्षस्य / (6) अन्तः सुखादावपि। (7) मनसः। (८).पृ० 185 / (9) यस्मात्संवेदनात् तन्नित्यसुखानुभवः तत्संवेदनम् / तुलना-"तदनन्तं सुखं मुक्तौ पुंसः संवेद्यस्वभावमसंवेद्यस्वभावं वा? संवेद्यञ्चेत; तत्संवेदनस्य अनन्तस्य सिद्धिः, अन्यथा अनन्तस्य सुखस्य स्वयं संवेद्यत्वविरोधात् / यदि पुमरसंवेद्यमेव तत्; तदा कथं सुखं नाम ? सातसंवेदनस्य सुखत्वप्रतीतेः / " -अष्टसह० पृ०६९ / “स किमानन्दो मुक्तावनुभयते न वा ? यदि नानुभूयते; स्थितोऽप्यस्थितान्न विशिष्यते अनुपभोग्यत्वात् / अनुभूयते चेत्, अनुभवस्य कारणं वाच्यम्"-प्रश० कन्द० पृ० 286 / "नित्यं सुखमभिव्यज्यते इति कोऽभिव्यक्त्यर्थः ? ज्ञानमिति चेत् ; नित्यमनित्यं वेति कल्पनानुपपत्तिः / " -न्यायवा० पृ० 85 / "अस्तु वा यत्किञ्चित्तद्ग्राहकं तथापि तन्नित्यमनित्यं वा ?"-स्या० र० प. 1116 / (10) अनित्यसंवेदनात् / ____1-व्यापारजन्यः ब० / 2 उत्तरभावना-ब० // 3-वशात्तदुत्तरोत्त-श्र० / 4 ततस्तच्छब्दशाया -आ015-कालकलाप:ब०। 6 नित्यत्वप्रतीति-ब०। ...... . .