________________ प्रवचनप्र० का 0 76] मुक्तिस्वरूपविचारः 826 लक्षणम् / तद्यदि तदनुच्छेदः संसारलक्षणम् , तर्हि यत्रासौ अस्ति तंत्र सर्वत्र संसारित्वप्रसङ्गः मुक्तस्वरूपेणास्य विरोधात् / द्वितीयपक्षे तु अस्मन्मतसिद्धिः, 'स्वोपात्तकर्मवशाद् भवाद् भवान्तरावाप्तिः संसौरः' इत्यस्माभिरभ्युपगमात् / / __ किञ्च, अत्यन्तं बुद्ध्यादिगुणोच्छेदस्य मोक्षत्वे प्रदीपनिर्वाणवादिनः भवेतः को विशेषः स्यात् ? तंत्र हि स्वरूपेण आत्मनोऽसत्त्वम् , भवन्मते तु सतोऽप्यस्य सर्वथा / तद्विकलस्य ग्राहकप्रमाणाभावात् / तथाभूतं हि तत्स्वरूपं प्रत्यक्षतः, अनुमानतो वा प्रतीयेत ? न तावत् प्रत्यक्षतः; मोक्षावस्थायां तस्यैवाऽसंभवात् / नाप्यनुमानतः; प्रत्यक्षाभावे भवन्मते अनुमानानुदयात् , प्रत्यक्षपूर्वकत्वेन तस्याभ्युपगमात् / ____ यदपि-तत्त्वज्ञानस्य विपर्ययज्ञानव्यवच्छेदक्रमेण निःश्रेयसहेतुत्वमुक्तम् ; तदुपपनम् ; सिकलबुद्ध्यादिसन्तानोच्छेदहेतुत्वं तु तस्यानुपपन्नम् ; स्विविरुद्धमिथ्याज्ञानसन्तानो- 10 च्छेदहेतुत्वस्यैव तत्रोपपत्तेः शुक्तिकादौ तथादर्शनात् / ननु मिथ्याज्ञाननिवृत्तौ रागाद्यनुत्पत्तेः तत्पूर्वकधर्माप्रादुर्भावतः शरीराद्यसंभवे सिद्ध एव मोक्षदशायां सकलबुद्ध्यादिसन्तानोच्छेदः; इत्यप्यपेशलम् ; शरीरादेरभावेपि अनन्तातीन्द्रियाऽखिलपदार्थविषयसम्यग्ज्ञानसुखादिसन्तानस्य उच्छेदासिद्धेः, इन्द्रियजज्ञानादिसन्तानस्यैव तैर्दैभावेऽभावप्रसिद्धेः, तत्रच सिद्धसाधनम् इत्युक्तम् / अतीन्द्रियज्ञानादिसद्भावश्च सर्वज्ञसिद्धिप्रस्तावे प्रसार्धितः। 18 यत्तूक्तम्-'आरब्ध' इत्यादि; तदपि न सूक्तम् ; उपभोगात् कर्मणामात्यन्तिकप्रक्षयानुपपत्तेः / तदुपभोगसमये हि अपरकर्मोत्पत्तिकारणस्य अभिलाषपूर्वकमनोवाकायव्यापारादेः संभवात् अविकलकारणस्य प्रचुरतरकर्मणो भवतः कथमात्यन्तिकप्रक्षयः ? ____ यदपि 'समाधिबलात्' इत्याद्युक्तम् ; तदप्ययुक्तम् ; अभिलाषरूपरागाद्यभावे साति (1) ज्ञानाद्यनुच्छेदः / (2) ज्ञानाद्यनुच्छेदस्य / (3) “कर्मविपाकवशादात्मनो भवान्तरावाप्तिः संसारः"-सर्वार्थसि० 97 / "आत्मोपचितकर्मवशादात्मनो भवान्तरावाप्तिः संसारः ।"-राजवा० 2 / 10 / "यदवष्टम्भेनात्मनः संसरणमितश्चेतश्च गमनं भवति स संसारः, अथवा बलवतो मोहस्याख्या संसारः, नारकाद्यवस्था वा संसार ।"-तत्त्वार्थभा० व्या० 2010 / (4) बौद्धात् / "यस्मिन्न जातिर्न जरा न मृत्युन व्याधयो नाप्रियसंप्रयोगः / नेच्छाविपन्नप्रियविप्रयोगः क्षेमं पदं नैष्ठिकमच्यतं तत / दीपो यथा निवृतिमभ्युपेतः नैवावनिं गच्छति नान्तरिक्षम् / दिशं न काञ्चिद्विदिशं न काञ्चित्स्नेहक्षयात् केवलमेति शान्तिम् / एवं कृती निर्वतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् / दिशं न काञ्चिद्विदिशं न काञ्चित्क्लेशक्षयात् केवलमेति शान्तिम् ॥"-सौन्दरनन्द०१६।२७-२९ / (5) वैशेषिकस्य / (6) बौद्धमते / (7) वैशेषिकसिद्धान्ते / (8) 'असत्त्वम्' इति शेषः। (9) सकलबुद्धयादिगुणशून्यम् / (10) प्रत्यक्षस्यैव / (11) "तत्पूर्वकं त्रिविधमनुमानम्"-न्यायसू० 11115 / (12) पृ० 824 पं०७। (13) तत्त्वज्ञानस्य / (14) शरीराभावे / (15) पृ० 89- / (16) पृ० 824 पं० 11 / (17) "उपभोगात् कर्मणः प्रक्षये तदुपभोगसमये"- प्रमेयक० पृ० 319 / सन्मति० टी० पृ० 159 / (18) समुद्भवतः। (19) पृ० 825 पं० 2 / (20) 'अभिलाषरूपरागाद्यभावे . 1 तत्र संसा-ब०। 2 अत्यन्तबुद्धचा-श्र० / 3 भवता को आ० / एतदन्तर्गतः पाठो नास्ति आ०, ब० / 4-अनुपपत्तेः आ० / / उच्छेदसिद्धेः आ० / तवभावाभावप्र-ब०। 7-समयो हि श्र०।