________________ 828 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० पपत्तेः / मोक्षार्थी हि सर्वो निरतिशयसुखज्ञानादिप्राप्त्यभिलाषेणैव प्रवर्त्तते न पुनः सकलबुद्ध्यादिविशेषगुणोच्छेदाभिलाषेण, अस्य केनचिदप्यनभिलषणीयत्वात् / न हि कश्चित् प्रेक्षावान् आत्मनः सद्गुणोच्छेदाय यतते तदुत्कर्षणार्थमेवास्य प्रयत्नप्रतीतेः / यदि हि मोक्षावस्थायां शिलाशकलकल्पः अपगतसुखसंवेदनलेशः पुरुषः सम्पद्यते तदा कृतं 5 मोक्षेण ! संसार एव वरमस्तु यत्र सान्तरापि सुखलेशप्रतिपत्तिरस्ति / तच्चिन्त्यतामिदम् 'किम् अल्पसुखानुभवो भद्रकः, किं वा सकलसुखोच्छेदः' इति ? अतो न वैशेषिकोपकल्पिते निखिलगुणोच्छेदलक्षणे पाषाणकल्पे मोक्षे कस्यचिद् गन्तुमिच्छाप्युपपन्ना। उक्तञ्च"वरं वृन्दावने रम्ये शृगालत्वं प्रपद्यते / . ] इति / 10 किञ्च, मुक्तौ बुद्ध्यादिविशेषगुणानामभावः कारणाभावात् , निष्प्रयोजनत्वात् , विरुद्धत्वाद्वा स्यात् ? तत्राद्यपक्षे कस्य कारणस्य तत्राऽभावः-चक्षुरादेः, तत्प्रतिबन्धकापायस्य वा ? चक्षुरादेश्चेत् ; तर्हि तजन्यस्यैव ज्ञानादेः तंत्राभावः स्यात् नान्यस्य, अतः सिद्धसाध्यता / ननु सर्वस्य ज्ञानादेः धर्माधर्मशरीरेन्द्रियादिकारणकलापाधीनज न्मत्वात् तदभावे ज्ञानादेरेवाऽसंभवात् कथं सिद्धसाध्यता ? इत्यप्यसाधीयः; महेश्वरज्ञा15 नाद्यभावानुषङ्गात् / नित्यत्वात् तज्ज्ञानादेरदोषोयम् ; इत्यप्यसमीक्षिताभिधानम् ; तन्नित्य त्वस्य ईश्वरनिराकरणप्रघट्टके प्रतिव्यूढत्वात् / ततः चक्षुराद्यपायेऽपि ईश्वरस्य प्रतिबन्धकापायप्रभवं ज्ञानाद्यभ्युपगन्तव्यम् , तद्वद् अन्यमुक्तात्मनामपि तेषां तत्स्वभावत्वात्। नच स्वभावापाये तद्वतोऽवस्थानं युक्तमतिप्रसङ्गात् / अथ मुक्तस्य कृतकृत्यतया ज्ञानादिना प्रयोजनाभावात् मुक्तौ तदभावः; तन्न प्रतिबन्धकापायोपेतस्य आत्मस्वरूपस्यैव एंवंवि20 धत्वेन निष्प्रयोजनत्वासिद्धेः। अनन्तज्ञानादिलक्षणविशिष्टगुणावाप्तिरेव च आत्मनः कृतकृत्यता न पुनः निखिलगुणोच्छेदः, गुणोत्कर्षे एव लोकेऽपि कृतकृत्यशब्दप्रयोगप्रतीतेः / एतेन विरुद्धत्वपक्षोऽपि प्रत्युक्तः; स्वरूपेण कस्यचिद्विरोधाऽसंभवात् / मुक्तौ तेषां विरोधाम्युपगमे चै महेश्वरेप्येषों विरोधतोऽभावानुषङ्गात् लाभमिच्छतो मूलोच्छेदः स्यात्। किञ्च, बुद्ध्यादिविशेषगुणानामात्यन्तिकोच्छेदस्य मोक्षरूपतायां संसारस्वरूपं 25 वक्तव्यम्-तत्खलु तद्विशेषगुणानुच्छेदः, भवान्तरावाप्तिर्वा स्यात् ? प्रथमपक्षे महेश्वरस्य संसारित्वप्रसङ्गः। ततोऽन्येषामेव तदनुच्छेदः तल्लक्षणम् अतो नास्य॑ संसारित्वानुषङ्गः, इत्यपि श्रद्धामात्रम् ; अर्धजरतीयन्यायानुसरणप्रसङ्गात् / असाधारणं हि स्वरूपं भावस्य (1) "अपि वृन्दावने शून्ये शृगालत्वं स इच्छति / न तु निविषयं मोक्षं कदाचिदपि गौतम।" -सम्बन्धवा० श्लो० 423 / विवरणप्र०प० 137 / “वरं वृन्दावने वासः शगालैश्च सहोषितम .." -षड्द० बृह० श्लो० 52 / “वरं वृन्दावने रम्ये क्रोष्टत्वमभिवाञ्छितम्"-स्या० म०पृ० 86 / (2) मुक्तौ / (3) पृ० 108 / (4) अनन्तज्ञानादिविशिष्टत्वेन / (5) ज्ञानादीनाम् / (6) महेश्वरातिरिक्तप्राणिनाम्। (7) संसारलक्षणम् / (8) महेश्वरस्य / (9) द्रष्टव्यम्-पृ० 168 टि० 11 / 1 केनचवनभिल-आ०।इत्यप्यप्रसा-ब० / 3 'च' नास्ति श्र०। 4 अतोस्य आ० /