________________ प्रवचनप्र० का० 76] मुक्तिस्वरूपविचारः 827 सन्तानत्वस्यात्र सद्भावेऽपि अत्यन्तोच्छेदासंभवात् / विरुद्धश्चायं हेतुः; कार्यकारणक्षणप्रवाहलक्षणसन्तानत्वस्य नित्यानित्यैकान्तयोरसंभवात् , अर्थक्रियाकारित्वस्य अनेकान्त एव प्रतिपादितत्वात् / साँध्यविकलश्च दृष्टान्तः, प्रदीपादेरत्यन्तोच्छेदासंभवात् , तस्य स्वरूपान्तरेण अवस्थानात् / न च ध्वस्तस्यापि प्रदीपादे रूपान्तरेणावस्थानोपगमे प्रत्यक्षबाधा; वारिस्थिते तेजसि भासुररूपोपगमेऽपि / तत्प्रसङ्गात् / अथ उष्णस्पर्शस्य भासुररूपाधिकरणतेजोद्रव्याभावेऽसंभवात् तत्र अनुभूतस्यास्य परिकल्पनम् ; तर्हि प्रदीपादेरपि अनुपादानोत्पत्तेरिव अन्त्यावस्थातोऽपरापरपरिणामाधारत्वमन्तरेण सत्त्वकृतकत्वादेरनुपपत्तेः अत्यन्तसन्तत्यनुच्छेदोऽपि परिकल्प्यतामविशेषात् / प्रयोग:-पूर्वापरस्वभावपरिहारावाप्तिस्थितिलक्षणपरिणामवान् प्रदीपादिः सत्त्वादिभ्यः पटादिवत् / सत्प्रतिपक्षश्चायं हेतुः; तथाहि-बुद्ध्यादिसन्तानो 10 नात्यन्तोच्छेदवान , अखिलप्रमाणानुपलभ्यमानतथोच्छेदत्वात्, य एवंविधः स न तत्त्वेनोपादेयः यथा पाकजपरमाणुरूपादिसन्तानः, तथा चायम् , तस्मान्नात्यन्तोच्छेदवानिति / नच प्रस्तुतानुमानादेव सन्तानोच्छेदोपलब्धेः सर्वप्रमाणानुपलभ्यमानतथोच्छेदत्वमसिद्धमित्यभिधातव्यम् ; अस्य अनेकदोषदुष्टतयाऽननुमानत्वप्रतिपादनात् / किंञ्च, अतोऽनुमानात् इन्द्रियजानां बुद्ध्यादिविशेषगुणानामत्यन्तोच्छेदः साध्येत, 15 अतीन्द्रियाणां वा ? तत्राद्यविकल्पे सिद्धंसाधनम् ; अस्माभिरपि तत्र तदुच्छेदाभ्युपगमात्। द्वितीयविकल्पस्त्वनुपपन्नः; अतीन्द्रियाणां तेषामत्यन्तोच्छेदे मुक्तौ कस्यचिदपि प्रवृत्त्यनुपाकजपरमाणुरूपादिभिः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽपि अत्यन्तोच्छेदाभावात् ।"-सन्मति० टी०१० 157 / प्रमेयक० पृ० 318 / रत्नाकराव० 7.57 / स्या० म०पू० 84 / न्यायसारटी० पृ० 287 / चित्सु० पृ० 357 / / (1) "विरुद्धश्चायं हेतुः, शब्दबुद्धिप्रदीपादिषु अत्यन्तानुच्छेदवत्स्वेव सन्तानत्वस्य भावात् / " -सन्मति० टी० पृ० 157 / प्रमेयक० पृ० 318 / रत्नाकराव० 7 / 57 / षड्द० बृह० श्लो० 52 / (2) पृ० 372 / (3) “साधनविकलश्च दृष्टान्तः; प्रदीपादेरत्यन्तोच्छेदासंभवात्, तैजसपरमाणूनां भास्वररूपपरित्यागेन अन्धकाररूपतयाऽवस्थानात् ।"-षड्द० बृह० श्लो० 52 / न्यायसारंटी० पृ० 287 / रत्नाकराव०७।५७ / (4) उष्णजलस्थिते तेजोद्रव्ये / (5) भासुररूपस्य / (6) तुलना-"तर्हि प्रदीपादेरप्यनुपादानोत्पत्तिवन्न सन्ततिविपत्त्यभावमन्तरेण विपत्ति: संभवतीत्यनुमानतः किन्न कल्प्यते तत्सन्तत्यनुच्छेदः ।"-सन्मति० टी० पृ० १५७।प्रमेयक० पृ० 318 / (7) "पूर्वापरस्वभावपरिहाराङ्गीकारस्थितिलक्षणपरिणामवान् प्रदीपः सत्त्वात् घटादिवत्।"-षड्द० बृह० श्लो०५२। (8) "न चासप्रतिपक्षत्वमप्यस्य / तथाहि-बुद्धयादिसन्तानो नात्यन्तोच्छेदवान् सर्वप्रमाणानुपलभ्यमानतथोच्छेदत्वात्" -सन्मति० टी० पू०१५८। प्रमेयक० पू० 318 / (9) 'किञ्चेन्द्रियजानां बुद्धयादिगुणानामुच्छेद: साध्यमानोऽस्ति उत अतीन्द्रियाणाम् ?"-षड्द० बृह० श्लो० 52 / (10) "तेप्यदृष्टहेतुकानां बुद्धयादीनामात्मान्तःकरणसंयोगजानां च मुक्तौ निवृत्ति ब्रुवाणा न निवार्यन्ते, कर्मक्षयहेतुकयोस्तु प्रशमसुखानन्सज्ञानयोर्निवृत्तिमाचक्षाणास्ते न स्वस्थाः प्रमाणविरोधात्। ततः कथञ्चिद् बुद्धयादिविशेषगुणानां निवत्तिः कथञ्चिदनिवृत्तिर्मुक्तौ व्यवतिष्ठते।"-अष्टसह० पृ०६८। षड़द बह० श्लो० 52 / 1-पादेःस्वरूपा-ब०, श्र०। 2-त्पत्तेरेवान्त्या-ब०। 3 पदादिवत् आ० /