________________ 830 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० शयर्द्धिमतो भवदभिप्रायेण योगिनोऽपि तत्त्वज्ञानादवगतकर्मसामर्थ्यस्य नानाशरीराणि विधाय अङ्गनाद्युपभोगाऽसंभवात् / तत्संभवे वा अवश्यम्भावी नृपत्यादेरिव अतिभोगिनो योगिनोऽपि प्रचुरतरकर्मसंभवः / ___यदपि-'वैद्योपदेशेन' इत्याद्यभिहितम् / तदप्यभिधानमात्रम् ; आतुरस्यापि 6 नीरुग्भावाभिलाषेणैव औषध्याद्याचरणे प्रवृत्युपपत्तेः, अतः कथं तद्दृष्टान्तात् निरभि लाषस्यापि तत्त्वज्ञानिनः तत्त्वज्ञानमात्रात् कर्मक्षयार्थितया अङ्गनाद्युपभोगः साधयितुं शक्यः, दृष्टान्त-दार्टान्तिकयोर्वैषम्यात् ? तन्न अशेषशरीरद्वाराऽवाप्ताशेषभोगस्य कर्मान्तरानुत्पत्तिः / किं तर्हि ? परिपूर्णसम्यग्दर्शनज्ञानचारित्रस्य इत्यलं विवादेन, जीवन्मुक्तेरिव परममुक्तेरपि त्रितयात्मकादेव कारणादुत्पत्तेः / संसारकारणं हि मिथ्यादर्शनादित्रयात्मकम् अतः तन्निवर्त्तकेनापि 'त्रितयात्मकेनैव भवितव्यम्, एकरूपेण सम्यरज्ञानादिमात्रेण अस्य निवर्त्तयितुमशक्तेः / सम्यग्ज्ञानं हि विपरीताभिनिवेशविविक्ताऽऽत्मस्वरूपस्वभावसम्यग्दर्शनोपचितं बाह्याभ्यन्तरक्रियानिवृत्तिलक्षणचारित्रोपबृंहितं त्रितयात्मकमेव आगामिकर्मानुत्पत्तौ सश्चितकर्मक्षये च समर्थम्, उष्णस्पर्शस्य भाविशीतस्पर्शानुत्पत्तौ प्रवृत्ततत्स्पर्शप्रध्वंसे च सामर्थ्यवत् / यदैपि-विवादापन्नः शरीरादिनिवृत्तावात्मा' इत्याद्यनुमानम् 'न ह वै' इत्याद्यागमश्च आत्मनः सर्ववैषयिकसुखादिशून्यतायां प्रमाणम्' इत्युक्तम् / तदप्ययुक्तमेव; सिद्धसाधनात्, शरीरादिनिवृत्तौ हि संमस्तधर्मादिनिवृत्तेः तत्प्रभवमेव सुखादि मुक्तात्मनो निवर्तेत न स्वात्मोत्थम् / यद्धि यत्कार्य तत् तदभावे न भवति. नान्यदति प्रसङ्गात् / धर्माद्यभावे कुतस्तस्तदुत्पत्तिः इति चेत् ? 'प्रतिबन्धापायात्' इत्यसकृदा20 वेदितम् / अतः परमकाष्ठाप्राप्तं सम्यग्दर्शनादित्रयं परमप्रकर्षप्राप्तज्ञानादिस्वरूपं मोक्षं प्रसाधयतीति प्रेक्षादक्षैः प्रतिपत्तव्यमिति ॥छ / स्त्र्याधुपभोगासंभवात् ।"-सन्मति० टी० पृ० 159 / प्रमेयक० पृ० 139 / (1) स्त्र्यादिभोगे क्रियमाणे तु / (2) पृ० 825 पं० 8 / (3) "वैद्योपदेशप्रवर्तमानातुरदृष्टान्तोऽप्यसंगतः...."-सन्मति० पू०१६० / प्रमेयक० पृ० 319 / (4) योगिनः। (5) "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः।"-तत्वार्थसू०१।१। “नादंसणिस्स नाणं नाणेण विना न हुन्ति चरणगुणा / अगुणिस्स णत्थि मोक्खो नत्थि अमोक्खस्स निव्वाणं ॥"-उत्तरा० 28 / 30 / (6) संसारस्य / (7) पृ०८२५ पं०१०,१३। (8) तुलना-"शुभाशुभादृष्टपरिपाकप्रभवेन भवसंभविनी हि प्रियाप्रिये परस्परानुषक्ते अपेक्ष्यायं व्यवस्थितः, सकलादृष्टक्षयकारणकं पुनरैकान्तिकात्यान्तिकरूपं केवलमेव प्रियं निःश्रेयसदशायामिष्यते तत्कुतः प्रतिषिध्यते ?"-रत्नाकराव०.७५७ / स्या० मं० पृ० 85 / षड्द० वृह० श्लो० 52 / (9) स्वात्मोत्थसुखादिसमुत्पत्तिः / 1 औषधाद्या-ब०, श्र० 12-नुपपत्तिः आ०, ब018-दर्शनचारित्र-श्र० / 4 कारणादुत्पत्तिः ब०, कारणानुत्पत्तेः आ० / / त्रयात्मकेनैव ब० / 6-रूपस्यभावसमा-आ० / / समस्तकावि-ब०। 8 प्रतिबन्धकापा-श्र०। 9 परमंप्रकर्ष-आ० / 10-तव्यम् आ० /